ज्योतिषस्य सिद्धान्तस्कन्धः
ज्योतिषस्य सिद्धान्तस्कन्धः ज्योतिषसिद्धान्तं प्रदिपादति। शकपूर्वपञ्चमशतकादारभ्य शकानन्तरषोडशशतकपर्यन्तं हि भारतीयज्योतिषशास्त्रविकासस्य मध्यमकालः । कालेऽस्मिन् ग्रहाणां मध्यमगतिः स्पष्टस्थितिः दिग्देशकालविवेकः ग्रहयुतिः ग्रहनक्षत्राणामुदयास्तमयविचारः चन्द्रशृङ्गोन्नतिः पातः भूस्थितिः मानानि चेत्यादिविषये कतिपये सिद्धान्ता निरूपिताः । अत एवायं सिद्धान्तकालसंज्ञयाऽपि ज्ञायते । अस्मिन्नेव काले ज्योतिषस्य होराताजिकमुहूर्तादिविषये च सिद्धान्ताः प्रतिपादिता व्याख्याताश्च । कालस्यास्य सिद्धान्तसंज्ञयाऽभिधानं तु प्राधान्येनैव । कालोऽयमपि सिद्धान्तप्रतिपादनतद्वयाख्यानाश्रयेण पूर्वोत्तरभागे विभक्तः । सूर्यसिद्धान्तमारभ्य ब्रह्मगुप्तपर्यन्तमस्य । पूर्वमध्यमकालस्तदनु जयसिंहपर्यन्तकाल उत्तरमध्यमकालः । यद्यप्युत्तरमध्यमकालेऽपि प्रणीता अनेके सिद्धान्तविषयकमौलिकग्रन्थास्तथापि कालेऽस्मिन् व्याख्यायी एव प्राधान्यात्स व्याख्याकालत्वेन गृहीतः । पूर्व मध्यमकाले आर्षः सूर्यसिद्धान्तः आर्यभटस्यार्यभटीयम् वराहमिहिरस्य पञ्चसिद्धान्तिका, ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्तश्चोल्लेखनीयसिद्धान्तग्रन्थाः ।
वैदिकसाहित्ये वेदाङ्गज्योतिषे च योऽपि ज्योतिषविषयः प्रस्तुतः स तत्कालीनदृष्ट्या पर्याप्तोऽपि ग्रहाणां स्पष्टगतिस्थितिबोधनाय नालमिति तत्साधकतया सिद्धान्तग्रन्थानां तदपेक्षया वैशिष्टयम् । वेदाङ्गज्योतिषसिद्धान्तग्रन्थान्तरालवतकालेऽपि सिद्धान्तभूमिकाव्याख्यातृग्रन्थैरपि भाव्यमेव । किन्तु ते सम्प्रति ज्ञानबाह्या एवास्माकम् । सिद्धान्तग्रन्थेषु वयमाषेत्वेन ख्यातं सूर्यसिद्धान्तग्रन्थमेव प्राथम्येन जानीमः । यद्यपि सूर्यमयसंवादमयस्य ग्रन्थस्य मौलिकं रूपं किसीदिति वयं नैव जानीमः । सम्प्रति यो हि ग्रन्थस्तन्नाम्ना ख्यातः प्राप्यश्च स तु निश्चयेनैव पश्चाद्भाविना विपश्चिता पूर्वप्रोक्तसिद्धान्तमाधारीकृत्य प्रणीत इति स्पष्टमेव तस्य-‘अल्पावशिष्टे तु कृते मयो नाम महासुरः' इत्यादि प्राग्भागवाक्यतः । केचित्तु सूर्यो नाम कश्चिदृषिरासीदित्यपि मन्यन्ते तत्त एव जानीयुः । वराहमिहिरो हि. यं सूर्य सिद्धान्तं पञ्चसिद्धान्तिकायामनुवदति यानि सूर्यसिद्धान्तसम्बद्धनीति कानिचिद्वचनानि भट्टोत्पलो वराहमिहिरप्रणीत‘बृहत्संहिता' टीकायामुद्धरति तेषाञ्च सम्प्रति समुपलब्धे सूर्यसिद्धान्तेऽदर्शनात् ग्रन्थोऽयं मूलसिद्धान्तानुवाद एवेति निश्चिन्वन्ति विज्ञाः । किन्तु भास्कराचार्यों हिं सिद्धान्तशिरोमणौ भगणोपपत्तिप्रसङ्गे-'अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः' इत्यादिपद्यद्वयं सूर्यसिद्धान्तगतत्वेन स्मरति तस्यात्र स्थितेः भास्करकाले ग्रन्थोऽयमीदृक्स्वरूप एवाऽऽसीदिति तु स्पष्टमेव ।
नायं मौलिको ग्रन्थ इति तु'शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः' ( १।९ ) इति कथनादेव ज्ञायते । सूर्यसिद्धान्तगतस्पष्टाधिकारः सूचयति यद्वेदाङ्गज्योतिषनिर्दिष्टस्थूलमानस्य सूक्ष्ममानस्यास्य चान्तराले कैश्चिदन्यैरपि मध्यमपथानुसारिभिर्ग्रन्थैर्भाव्यमिति । मौलिकं वाऽनूदितं यत्किमपि स्वरूपं सम्प्रत्युपलभ्यसूर्यसिद्धान्तग्रन्थस्य स्यादेत्ततु निश्वयमेव यत्सूर्यो हि ज्योतिविद्यायाः प्रतिष्ठापक आंद्याचार्यश्च । तेन तन्नाम्ना ख्यातेन मतेन एतत्प्रकृतिकग्रन्थान्तरापेक्षया प्राचीनतमेन भाव्यमेव । र्ताह कियप्राचीनमित्यपेक्षायामुच्यते सूर्यसिद्धान्तनामकग्रन्थोपवणतो वराहमिहिरस्मृतोऽपि सूर्यसिद्धान्तः कथमपि वेदाङ्गज्योतिषकालानैव प्राचीनतर इति तु स्पष्टमेव विषयप्रतिपादनरीतिदर्शनेन । अस्य हि भास्कराचार्यात्तु प्राचीनत्वमेवेति निश्चित मेव। स्थूलानुभानेन मौलिकः सूर्यसिद्धान्तो वेदाङ्गज्योतिषानतिदूरानन्तरवतकाले प्रतिपादित आसीदिति ।
वस्तुतस्तु वेदाङ्गज्योतिषोपवणतमध्यममानजनितासौकर्यापसारणायैवास्य प्रवृत्तिरिति सत्यमेवोच्यते । एवत्प्रागेवोक्तं यद् वेदाङ्गज्योतिषोक्तं वर्षादिमानं त्रुटिपूर्णमासीदिति । तत्र हि अयनारम्भस्य स्थिरत्वमुक्तमस्ति वस्तुतस्तु न तथा । यदि हि प्रथमपर्याये माघशुक्लप्रतिपदायामयनारम्भस्तदा द्वितीयपर्याये प्रायः ततो दिनचतुष्कात्प्रागेव भवति । एवमेव ९५ तमवर्षे द्विसप्ततिदिनेभ्यः प्रागेव भवत्ययनारम्भः । चान्द्रमासेऽपि पञ्चसु वर्षेषु ५४ घटिका: न्यूना एव भवन्ति । तेन ह्य मावास्यापूर्णिमामाने पञ्चवर्षेषु एकदिवसस्यान्तरमुपजायते । वेदाङ्गज्योतिषपद्धत्यनुसारेण ९५ वर्षेषु ३८ अधिमासा भवन्ति किन्तु वस्तुतस्तु तेषां सङ्ख्या ३५ एवाभीष्टा अन्यथा हि शतत्रयवर्षे ऋतुत्रयस्यान्तरं घटते यद्धि नाभीष्टम् । वेदाङ्गज्योतिषगतैतादृशदोषापसारणाय तदैवं सूक्ष्मचिन्तनमपि प्रारब्धमासीद्यस्य फलं सूर्यसिद्धान्त इति । पितामह-रोमक-पुलिश-वसिष्ठादिप्रोक्तानि पञ्चसिद्धान्तिकायां स्मृतानि लाटदेवादिभिर्व्याख्यातानि च मतान्यपि सूर्यसिद्धान्ताप्तातिदूरानन्तरवर्तीनीति निश्चितमेव । एवमेव गर्ग कश्यपनारदाविप्रोक्तानि ज्योतिषविषयकमतान्यपि तादात्यान्येव ।
किन्तु दुर्भाग्यवशात्सम्प्रति तेषां मौलिक स्वरूपं नास्माकं पुरतः । यच्च सम्प्रति नारदसंहिता पाराशरहोराशास्त्रं भृगुसंहिता काश्यपसंहिता चास्माकं पुरतः तदपि कैश्चिद्धि पश्चातभिः सङ्ग्रहरूपेण सङ्कलितमेव येन तत्र तत्राधुनिकत्वमपि विन्यस्तं दृश्यते । तेनैषां पौर्वापर्ये वास्तविक प्रवचनकालविषये च वयं किमपि इदमित्थन्तया निश्चेतुमसमर्था एव । ज्योतिषस्य त्रिषु स्कन्धेषु विभाजनमपि स्पष्टतया वराहमिहिरादेव दृश्यते यदा स कथयति -
'ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं
तत्कात्स्न्यपनयस्य नाम मुनिभिः सङ्कीर्यते संहिता ।
स्कन्धेस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः । इति।।[१]
तस्य हि गणकेश्वरस्य सन्ति त्रयोदशग्रन्था अस्मज्शाताः येषु पञ्चसिद्धान्तिका जातकार्णवश्च सिद्धान्तपक्षं व्याख्यातः बृहज्जातकलघुजातको होराग्रन्थौ अन्ये संहिताविषयकग्रन्थाः ।
शङ्करबालकृष्णः साधुः यदा स कथयति यत्कथं हि ज्योतिषशास्त्रं मध्यममानधरातलतः स्पष्टगतिस्थितिरूपोच्चस्थित प्राप्तमिति नास्माकं ज्ञातमिति । बेधं विना नैव सूक्ष्मज्ञानं सम्भवतीति कथं तैबैधः कृतः कथञ्च तस्य सूक्ष्मनिरीक्षणेन गतिमानं निश्चितमिति चास्माकं कृते महत्कुतूहलमेव ।।
तदत्र वयं यथाज्ञानं ज्योतिषसिद्धान्तस्कन्धस्य प्रसारे दृष्टिपानं कुर्मः । इदं तु पूर्वमेवोक्तं यज्ज्योतिषस्य ग्रहगतियुत्यादिविचारको भागः सिद्धान्तपदेनोच्यते इति । मध्यमाधिकारः स्पष्टाधिकारः दिग्देशकालेति त्रिप्रश्नाधिकारः ग्रहणाधिकारः छेद्यकाधिकारः ग्रहयुत्यधिकारः भग्रहयुत्यधिकारः उदयास्ताधिकारः चन्द्रशृङ्गोन्नत्यधिकारः पाताधिकारः भूगोलाध्यायः मानाध्यायश्व सिद्धान्तज्योतिषविवेच्यविषयाः सङ्क्षेपेण । गुण्यते सङ्ख्यायते येन तदमणितम् । तच्चतुर्विधव्यक्ताव्यक्तग्रहगोलभेदैः । तत्र व्यक्तेन सङ्कलनादिना थच्यते तद् व्यक्तं यावत्तावत्कोलादिना सापेक्ष्यबुद्धया गणितमव्यक्तं ग्रहकर्मणा अगणित गोलेन बेधादिना ग्रहकर्म सवासतं गण्यत इति गोलगणितमिति । तस्यैव निरूपकः सिद्धान्तः । यथोक्तम्-'व्यक्ताव्यक्तभगोलवासनमयः सिद्धान्त' इति । यथा वा-'यत्र कल्पादेग्रहानयनं स सिद्धान्तः । यत्र युगवर्षायनर्तुमासपाहोरात्रयाममुहर्तनाडीविनाडीप्राणत्रुटयादीना तथा सौरचान्द्रादिमासानां विवेकसिष्ठत्स सिद्धान्तपदवाच्यः' इति । यथा वा -
‘शतानन्दध्वस्तिप्रभृतिश्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवहसंस्थानकथनम् ।
ग्रहेन्द्राणां चाराः सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धविपुलैः ।।
यथा वा -
‘समयमितिरशेषा सावनं खेचराणां गणितमखिलयुक्तं यत्र कुट्टाद्युपेतम् ।
ग्रहभगणमहीनां संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठः स्पष्टराद्धान्त उक्तः ॥'
तथा च -
‘त्रट्यादिप्रलयान्तकालकलना मानप्रभेदः कृमात्
चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथासोत्तराः ।
भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते
सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः । इत्यादि।।
तस्य माहात्म्यं यथा सिद्धान्तशिरोमणौ -
जानन् जातकसंहिता सगणितस्कन्धैकदेशा अपि ज्योतिःशास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चित्करः ।
यः सिद्धान्तमनन्तयुक्तिविततं नो वेत्ति भित्तौ यथा राजा चित्रमयोऽथवा सुघटितः काष्ठस्य कण्ठीरवः ।।
अपि च -
‘गर्जत्कुञ्जरर्वाजता नृपचमूरप्युजिताऽश्वादिकैरुद्यानं च्युतचुतवृक्षमथवा पाथोविहीनं सरः ।
योषित् प्रोषितनुतनप्रियतमा यद्वन्न भात्युच्चकैः ज्योतिःशास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः ।।
सिद्धान्तोऽयं मूलतो ग्रहगणितगोलभेदेन विचारितो दृश्यते ज्योतिवदों हि सिद्धान्तमपि द्विविधं मन्यन्ते प्राचीनमर्वाचीनञ्चेति । उभयत्र हि पञ्चसिद्धान्ताः सन्तीति प्राचीन सिद्धान्तपञ्चकमर्वाचीनसिद्धान्तपञ्चकमपीत्युच्यते । प्राचीनसिद्धान्तपञ्चके हि वराहमिहिरेण पञ्चसिद्धान्तिकायां स्मृताः सूर्यपितामहरोमकपुलिशवसिष्ठसिद्धान्ताः गृहीताः अर्वाचीनपञ्चके तु सूर्यसोमवसिष्ठरोमशब्रह्मसिद्धान्ताः । सुर्यादीनामुश्यत्र नामसाम्येऽपि सिद्धान्तभेदेन पृथनिर्देशः । प्राचीनपञ्चकस्य पृथग्रन्थाः सम्प्रति नैवोपलभ्यन्ते केवलं तेषां कृतेऽस्माकं पञ्चसिद्धान्तिका एव शरणमर्वाचीनपक्षकस्य सम्प्रत्यपि सन्ति पृथग्ग्रन्थाः । अर्वाचीनेष्वपि सूर्यवसिष्ठसिंद्धान्तौ सम्प्रत्यपि प्रसारमालभेतै । प्राचीनावचीनयभेदो वर्षमान ग्रहगतिमानवाश्रित्य प्रवृत्तो दृश्यते ।
प्राचीनसिद्धान्तपञ्चकम्
सम्पादयतुप्राचीनपञ्चसिद्धान्ता यथा स्मरति वराहमिहिरः -
‘पोलिशरोमकवासिष्ठसौरपैतामहास्तु पञ्चसिद्धान्ताः ।
पञ्चभ्यो द्वावाद्यौ व्याख्यातौ लाटदेवेन ।' इति ।।[२]
तानधिकृत्य स एव कथयति -
‘पोलिशकृतः स्फुटोऽसौ तस्यासन्नस्तु रोमकः प्रोक्तः ।।
स्पष्टतरः सावित्रः परिशेषौ दूरविभ्रष्टौ ।।'[३]
तत्र सौरो हि अनुभवविषयः पोलिशकृतः दृक्प्रतीतिविषयः रोमकः ततः प्राचीन एव । पैतामहवासिष्ठौ तु नितान्तप्राचीनो यदनुसारं न तदैव गगने ग्रहादीनां स्थितिरिति । यथोक्तम्-‘सूर्य उवाच' इत्युपक्रम्य ।
‘पैतामहश्च सौरञ्च वासिष्ठं पौलिशं तथा ।
रोमकञ्चेति गणितं पञ्चक परमाद्भुतम् ।।'
तत्र -
'वेदैः सह समुद्भूतं वेदचक्षुः सनातनम् ।
रहस्यं वेदमध्यस्थं स्मृतवान् यत्पितामहः ।।
तेन पैतामहं ज्ञानमाद्यं तच्छु तिसम्मतम् ।
तेन दत्तं स्वपुत्राय वसिष्ठाय महात्मने ।।
‘अंशावतरणे विष्णुर्यदा ब्रह्माणमादिशत् ।
स नाभिकमलोद्भूतं वेदैः सह चतुर्भुजम् ।।
ब्रह्मज्ञानमयं वेदमस्मै सन्दिश्य स प्रभुः ।
मामप्यादिष्टवान् सृष्टिनिमित्तं कालसिद्धये ।।
चक्षुर्भूतं तदा मह्यं सन्ददौ ज्ञानमुत्तमम् ।
तत्सौरमिति विख्यातं गणितं परमाद्भुतम् ॥'
तन्मयाऽपि ममाऽप्येतत्तपसा तोषितेन च ।
आदिष्टं परमं ज्ञानं शिष्यभूतायसाधवे ॥
‘वासिष्ठश्च वसिष्ठेन पुत्राय प्रतिपादितम् ।
पराशराय तेनाऽथ मुनिभ्यः कृतविस्तृतम् ।।
‘पौलिशं पुलिशेनोक्तं गर्गादिमुनिषु ध्रुवम् ।
‘रोमकं रोमकायोक्तं मया यवनजातिषु ।
जातेन ब्राह्मणः शापात्तथा दुर्यवनस्य च ।।
रोमके नगरे तच्च रोमकेण च विस्तृतम् ।
इति पञ्च पुराणानि गणितानि प्रचक्षते ॥'
पितामहो ब्रह्मा यं हि वेदमध्यं रहस्यं वसिष्ठाय प्रोक्तवान् सः पैतामहो हि सिद्धान्तः । स हि नितान्तप्राचीनः । इयमेवादाय ब्रह्मगुप्तः कथयति -
‘ब्रह्मोक्तं यद्गणितं महता कालेन यत्खिलीभूतम् ।
अभिधीयते स्फुटं तज्जिष्णुसुतब्रह्मगुप्तेन ॥' इति ।
भास्कराचार्येणापि सिद्धान्तशिरोमणौ स एव स्वीकृतः । यथाह स एव -
‘कृती जयति जिष्णुजो गणकचक्रचूडामणिः ।' इति ।
नारायणेन कालचक्रप्रवर्तनाय सूर्याय यदेवोपदिष्टं तदेवं सौरं शास्त्रम् तच्चार्यभटः स्मरति । ब्रह्मणोपदिष्टं गणितं स्वबुद्धियोगेन यद्वसिष्ठः पराशरायोपृदिष्टवान् तद्वासिष्ठम् । वसिष्ठप्राप्तं यच्छास्त्र पराशरो मुनिभ्यो गर्गादिभ्यः उपदिष्टवान् तत्पौलिशं पुलिशेनोक्तम् । यच्च रोमकाय यवनजातिषु ब्रह्मणः शापाज्जातेन सूर्येण प्रोक्तं तेन च रोमके नगरे विस्तारितं तदेव रोमकगणितमिति । अर्थतेषां सङ्क्षेपेण परिचय उपस्थाप्यते ।
पितामहसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य सिद्धान्तम् उपस्थापयति। पितामहशास्त्रानुसारेण यथा पञ्चसिद्धान्तिकायामुक्तं रविशशिनोः पञ्च वर्षाणि युगं त्रिशद्भिर्मासैरधिमासः अह्नां त्रिषष्ठ्या अवमः ( क्षयदिनम् ) इति ।[४] अहर्गणानयनविधिर्यथा -
‘चूनं शकेन्द्रकालं पञ्चभिरुद्धृत्य शेषवर्षाणाम् ।।
द्युमणं माघसिताद्यं कुर्याद् घुगणं तदह्नयुदयात् ॥'[५]
द्वाभ्यां रहितं शकं पञ्चभिरुद्धृत्य शकवर्षाणां पूर्वनियमानुसारेण अधिमासावभे कृत्वा माघशुक्लप्रतिपदादेशृंगणमहर्गणं कुर्यात् । तद् द्युगणमानमह्निदिवसे सूर्योदयाद्भबतीत्यर्थः । अत्र शककाल ग्रहणेन नेदमवधेयं यत्सिद्धान्तोऽयं तदनन्तरवर्तीति । व्यवस्थेयं वराहमिहिरस्याहगंणानयनसौकर्याय ।। तिथिनक्षत्राद्यानयनप्रकारो यथा -
‘सैकषष्टयंशे गणे तिथिर्ममार्क नवाहतेऽक्ष्येकैः ।
दिग्रसभागैः सप्तभिरूनं शशिभं धनिष्ठाद्यम् ॥[६]
स्वैकषष्टयंशसहितेऽहर्गणे तिथिर्भवति । अहर्गणे नवगुणिते ६१२ भक्ते धनिष्ठाचं 'रविशं तच्च सप्तभिरूनं चन्द्रभमिति ।
‘प्रागद्ध पर्व यदा तदोत्तरातोऽन्यथा तिथिः पूर्वा ।
अर्कघ्ने व्यतिपाताः शुगणे पञ्चाम्बरहुताशैः ।। ४ ।।
द्वयग्निनगेषुत्तरतः स्वमितमेष्यदिनमपि याम्यायनस्य ।
द्विघ्नं शशिरसभक्तं द्वादशहीनं दिवसमानम्' ।। ५ ।।
इत्थं हि पैतामहं तन्त्रं सर्वमेव वेदाङ्गज्योतिषसंवादि । युगस्य पञ्चसंवत्संरात्मकत्वमहर्गणानयनं नक्षत्राणां धनिष्ठादिमानं दिवसमानानयनप्रकारश्वोभयोरेव समानः। गणितमिदं वेदाङ्गज्योतिषानतिदूरान्तरकालप्रोक्तमिति तेन स्पष्टमेव । यच्चाहर्गणानयनाय शककालप्रयुक्तस्तन्नेदमर्वाचीनयति । तत्तु वराहमिहिरेण गणनासौकर्याय प्रस्तुतं मूलेऽन्यदेवाऽऽसीदिति प्रकरणान्तरतो ज्ञायते । सम्प्रति हि सन्ति त्रयो ब्रह्मसिद्धान्ताः प्रचलिताः । ब्रह्मगुप्तकाख्यातब्रह्मसिद्धान्तः शाकल्योक्तब्रह्मसिद्धान्तः विष्णुधर्मोत्तरपुराणोक्तो ब्रह्मसिद्धान्तः । एतेषु हि ब्रह्मगुप्तप्रोक्त एवं ब्रह्मसिद्धान्तः प्राचीनः । शाकल्योक्तब्रह्मसिद्धान्तस्त्वर्वाचीनसूर्यसिद्धान्तेन सह नितान्तसंवादी ।
पितामहसिद्धान्ते ‘अधिमासस्त्रशद्भिर्मासैः' इति यदुक्तं तच्चिन्त्यं दृश्यते । तत्संशोधनाय ‘अधिमासो द्वयग्निसमैर्मासैः' इति भट्टोत्पलेन बृहत्संहिताव्याख्याने पाठान्तरं कल्पितम् । वस्तुतस्तु सार्धद्वात्रिंशन्मासानन्तरमेवाधिमासो घटते । तेन हि अत्र 'द्वयग्निसमैमसैरिति पाठ एव मौलिक इति शङ्करबालकृष्णमतम् । वयमपि तदेव मन्यामहे ।
वासिष्ठसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य सिद्धान्तम् उपस्थापयति। ब्रह्मतः प्राप्तं ज्ञानं वसिष्ठः पराशराय यदूचिवांस्तदेव वासिष्ठगणितम् । वराहमिहिराचार्योऽमुमपि सिद्धान्तं दूरविभ्रष्ट निदिशति । सन्ति पञ्चसिद्धान्तिकायमेतत्सम्बद्धास्त्रयो दश गाथाः । अत्रापि पितामहशास्त्रे इव चन्द्रसूर्यावेव गत्या विवेचितौ । अत्रत्या तिथिनक्षत्रानयनपद्धतिः राश्यंशकलामानानि च आधुनिकपद्धत्यपेक्षया विलक्षणानि । अत्र हि छायाविचारोऽधिकं निरूपितो दिनमानापेक्षया । वसिष्ठसिद्धान्तोऽपि प्राचीननवीनभेदेन द्विविधः । यथा स्मरति ब्रह्मगुप्ताचार्यः -
‘पौलिशरोमकवासिष्ठसौरपैतामहेषु यत्प्रोक्तम् ।
तन्नक्षत्रनयनं नायॆभटोक्तं तदुक्तिरतः ॥'[७]
'अयमेव कृतः सूर्येन्दुपुलिशरोमकवसिष्ठयवनाचैः ।'[८] अयमिति युगारम्भः ।
‘युगमन्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः ।
यस्मान्न रोमके ते स्मृतिबाह्यो रोमकस्तस्मात् ॥'[९]
एवमेव-
‘लाटात्सूर्यशशाङ्कौ मध्यविन्दुच्चचन्द्रपातौ च ।
भुजबुधशीघ्रवृहस्पतिसितशीघ्रशनैश्चरान् मध्यान् ।
युगपातवर्षभगणान् वासिष्ठान् विजयनन्दिकृतपादान् ।
मन्दोच्चपरिधिपातस्पष्टीकरणाद्यमार्यभटात् ।
श्रीषेणेन गृहीत्वा रत्नोच्चयरोमकः कृतः प(क)न्था
यतान्येव गृहीत्वा वासिष्ठो विष्णुचन्द्रेण ।'[१०]
वासिष्ठाद्युगपातवर्षभगणान् गृहीत्वा विष्णुचन्द्रो वासिष्ठं सिद्धान्तं प्रोक्तवानित्यस्य कथनस्यायमेवार्थों यद्ब्रह्मगुप्तसमये आस्तां द्वौ वसिष्ठसिद्धान्तौ । तयोराद्यः पञ्चसिद्धान्तिकायां वराहमिहिरेण प्राचीनसिद्धान्तत्वेन वणतोऽपरस्तु सूर्यचन्द्रादिमध्यादीन् लाटदेवात् ( ‘लाटदेवो हि पौलिशरोमकयोव्र्याख्यातृत्वेन वराहमिहिरेण स्मृतः पञ्चसि० ११३ ) प्राचीनवासिष्ठाद्युगादीन् मन्दोच्चपरिधिपातस्पष्टीकरणादीन्यार्यभटात् गृहीत्वा विष्णुचन्द्रेण व्याख्यात इति । यतो हि आर्यभटान्मन्दोच्चपरिधिपातस्पष्टीकरणादीनि गृहीत्वा प्रोक्तं नवीनवसिष्ठगणितमतोऽस्य प्रणयनकाल ४२१ भितशकवषदर्वाचीन एव। सम्प्रति हि ‘लघुवासिष्ठसिद्धान्त' नाम्ना प्रकाशितो ग्रन्थस्तदुभयविलक्षणः । सन्त्यत्र ९४ श्लोकाः । अस्य गणितमपि पञ्चसिद्धान्तिकोपवणतगणितापेक्षया नियमित परिमाजितञ्च ।
रोमकसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य कश्चन सिद्धान्तः। नारायणेन यत्सूर्याय प्रोक्तं तदेव रहस्यं ब्रह्मणः शापाद्यवनजातिषु जातेन सूर्येण यद्रोमकायोपदिष्टं यच्च रोमकेण रोमकनगरे विस्तारितं तदेव मौलिक रोमकगणितमिति प्राञ्चः । रोमकसिद्धान्तो हि सिद्धान्तपञ्चाशिकायां वैशचेन व्याख्यातः । दिमात्रं यथा---
‘सप्ताश्विवेदसङ्ख्यं शककालमपास्य चैत्रशुक्लादौ ।
अर्धास्तमिते भानौ यवनपुरे भौमदिवसाद्यः ॥' इत्यादि । १।८
रोमकसिद्धान्तोऽपि प्राचीनार्वाचीनभेदेन द्विविधः । प्राचीनो यथा वराहमिहिरप्रोक्तोऽर्वाचीनस्तु श्रीषेणसङ्गृहीतत्वेन ब्रह्मगुप्तेन स्मृतः ।[११] वराहमिहिरो हि रोमकसिद्धान्तं हि पोलिशसिद्धान्तवत्स्फुट मन्यते । सिद्धान्तोऽयमपि अहर्गणमेवाधारत्वेन गृह्णाति । यथा -
‘रोमकसूर्यो युगणात् खतिथिघ्नात् पञ्चकर्तृपरिहीनात् ।
सप्ताष्टकसप्तकृतेन्द्रियोदधृतात् मध्यमार्कः सः ।।' इत्यादिः ।
रोमकसिद्धान्तप्रसङ्गे यावन( ग्रीक )गणकः हिपार्कसाख्यः ( सम्भवतः हिमा: हिमार्कस्, हितार्कः वा ) स्मर्तव्य एव । तस्य समयः शकेन्द्रतः वर्षपूर्वमभितो मतः । तत्साधितवर्षमानं ३६५।१४।४८ ) रोमकवर्षमान सह संवदते । यच्च -
‘रोमकं रोमकायोक्तं मया यवनजातिषु ।
जातेन ब्रह्मणः शापात् •••••••••••••।'
इति कथितं तद्धि हिपार्कसाख्यं गणकमादायैवं चरितार्थमपि सम्भवति । हिपार्कससिद्धान्ते सूर्याचन्द्रमसावेव विवेचितौ यद्धि प्रायेण सर्वेष्वेव प्राचीनसिद्धान्तेषु दृश्यते । शकेन्द्रसमकालिकः टालमी ( तालमणिः ? ) हिपार्कसमुपजीवति ग्रहसाधने । सम्भवति पूर्वीयरोमकसिद्धान्तोऽपि तमेवानुगच्छेत् । हिपार्कसो हि यवनखगोलविद्यया उन्नायकः । तेन हि सौरगतिः तस्या असङ्गतयः आनतिः पाताः भूम्युच्चः इत्यादिविषये चन्द्रकक्षाविषये च नवीन आविष्कारः कृतः । तेन हि गोलीयत्रिकोणमितिरप्याविष्कृता तथा गोलस्य समतलोपरि प्रक्षेपा अपि आविष्कृताः । तदनुसारेण ग्रहाणां गतिर्वत्तीया भवति । तेन हि दृश्यगत्या सह वृत्तीयगत्याः सम्बन्धनाय अधिचक्राणामुत्केन्द्राणाञ्चाश्रयो गृहीतः स्वंपूर्ववतनं रेखागणिताचार्य खगोलज्ञम् 'एपोलोनियसः' ( अपलावण्यः ? ) इति नाम्ना प्रसिद्धमाचार्यमनुसृत्य । स हि तस्मादेकशतकपूर्ववर्ती । तेन हि विषयान्तरातिरिक्तं चन्द्रग्रहणमधिकृत्यापि सिद्धान्ताः प्रतिपादिताः । तेन विषुवायनाविष्कारेण सह तगणनाप्रणाल्यप्याविष्कृता । तेन हि १०८० तारकाणां सारिणी प्रणीता यत्र भोगाङ्कानां शराणाञ्च मध्ये तारकाणां स्थानमपि सुनिश्चितमासीत् । एतदपि विश्वस्यते यद् हिपार्कससिद्धान्तः शकेन्द्रकालात्त्रागेव पूर्वीयदेशमनुप्रविष्टः । सम्भवतस्तथ्यमेवेदम् -
‘युगमन्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतानुक्ताः ।
यस्मान्न रोमके ते स्मृतिबाह्यो रोमकस्तस्मात् ।'
इति कथनेन ब्रह्मगुप्तः सङ्केतयति । रोमकसिद्धान्तव्याख्याना बालकृष्णः नववर्षमानानि तुलनात्मकाध्ययनायोपन्यस्यति । रोमकसिद्धान्तसम्मतमाने इतरमानापेक्षया नितान्तपार्थक्येन न्यूनसङ्ख्यया च तस्यावचीनत्वं सिध्यतीति ।
पौलिशसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य कश्चन सिद्धान्तः। पाराशरं हि ज्ञानं पुलिशाख्येन मुनिना यद्गर्गादिभ्य उक्तं तदेव पौलिशगणितमिति प्रसिद्धम् । पञ्चसिद्धान्तिकाकारः पौलिशसिद्धान्तं स्पष्टं मन्यते । सिद्धान्तोऽयं पञ्चसिद्धान्तिकायां बहत्र व्याख्यातः । दिङ्मात्रं यथा -
‘रुद्रघ्नः सममुशरो लब्धोनो गुणखसप्तभिर्युगणः ।
रोमकसिद्धान्तोऽयं नातिचिरे पौलिशेऽप्येवम् ।' इति ।
अत्र रोमकपौलिशसिद्धान्तयोरहर्गणे साम्यं दृश्यते । सिद्धान्तेऽस्मिन् सूर्यचन्द्रातिरिक्तग्रहाणामपि वक्रत्वादिनिदिष्टं प्रतिभाति ‘पौलिशसिद्धान्ते तारा ग्रहा एवम्' इति कथनेन । पलभातश्चरखण्डानयनं चरखण्डतो दिनमानानयनञ्च निदिष्टं तत्र । तत्र देशान्तरमपि विचारितं सम्यक । तत्र तिथिनक्षत्रानयनपद्धतिश्च वर्तमानपद्धताविव निर्दिष्टाऽस्ति । करणमपि निरूपितं तत्र । चरखण्डा यथा -
‘यवनाच्चरजा नाड्यः सप्तावन्त्यास्त्रिभागसंयुक्ताः ।
वाराणस्यां त्रिकृतिः•••••••••••••••• •••••• ।'
इत्यादि पौलिशो हि सिद्धान्तो लाटदेवेन व्याख्यात इति वराहमिहिरसाक्ष्येण ज्ञायते । भट्टोत्पलोऽपि बृहत्संहिताटीकायां पोलिशसिद्धान्तसम्बद्धत्वेन कानिचित्पद्यानि समुद्धरति किन्तु तानि नैव पञ्चसिद्धान्तिकासंवादीनि । तत्र तत्र भगणमानप्रभृतिविषयो निरूपितः । शङ्करबालकृष्णमहोदयस्तान्यक्षरशः उद्धरति स्वकीये भारतीयज्योतिषग्रन्थे ।[१२] पोलिशसिद्धान्तो हि पञ्चसिद्धान्तिकायां प्रतिव्याख्यातो भट्टोत्पलेन समुदतः इति द्विविधस्तु दृष्ट एव । अलबेरुनिः ( सम्भवतः आर्कावरुणिः ) यो हि १०१७ ख्रीष्टाब्दतः १०३० खीष्टाब्दपर्यन्तं भारतमध्यवात्सीत् कथयति यत्पोलिशो हि सिद्धान्तः पौलशाख्येन यवनेन प्रणीतः पश्चाद्धारतमनुप्रविष्ट इति । सम्भवतः वराहमिहिराचार्यस्य-
‘पोलिशकृतः स्फुटोऽसौ तस्यासन्नस्तु रोमकः प्रोक्तः ।
स्पष्टतरः साबित्रः परिशेषौ दूरविभ्रष्टौ ।।'
इति कथने तथैव लाटदेवैन पोलिशरोमकयोरेकत्र व्याख्यानाच्च तदपि नामूलम् । यद्यपि ब्रह्मगुप्तो रोमकमेव स्मृतिबाह्यं मन्यते तथापि पौलिशमपि न तथा प्रशंसति । सम्भवति ब्रह्मगुप्तसमयात्प्रागेव लाटदेवेन वा केनापि पौलिश युगमनमनुनिहितमपि येन ब्रह्मगुप्तस्तं स्मृतिबाह्यं न मन्यते । स्मृतिसंवादियुगादिमानभाव एव स्मृतिसम्मतत्वे तत्राधारः । सम्भवति हितार्कस्य ( हिपार्क सस्य ) अनेकेषु शिष्येषु पोलसोऽप्येक आसीत् यस्यानुर्वातनः सम्प्रति पोलैण्डदेशे निवसन्ति । ते हि सम्प्रति पोलिशशब्देनैव जायन्ते । रोमकसिद्धान्ताप्रागेव पौलिशसिद्धान्तो भारतमागनस्तेन तत्र युगादिमानमनुप्रविष्टमिति । तथ्यं यत्किञ्चिदपि स्यादेतत्तु निश्चयेन वक्तुं शक्यते यत् पोलिशरोमकसिद्धान्त हि प्रायः समदेशिकौ समकालिकौ च । एतदपि सम्भवति यद् र पौलिशाच्छास्त्रमिदमधीत्य भारते प्रचारितवान् । यथा हि गर्गवचनम्-‘म्लेच्छा हि यवनास्तेषु सम्यक् शास्त्रमिदं स्थितम् । इति वराहेण स्मर्यते । सोऽपि यवनानां ज्योतिषविषयकज्ञानं मुग्धकण्ठतया प्रशंसति स्मरति तान् यत्र तत्र ‘प्राहुर्यवनाः' इत्यादिकथनैः ।
सूर्यसिद्धान्तः
सम्पादयतुज्यातिषशास्त्रस्य कश्चन सिद्धान्तः। पञ्चसिद्धान्तिकायां सूर्यसिद्धान्तः स्पष्टतरसिद्धान्तत्वेन गृहीतः । प्रागेव प्रतिपादितमेतद्यत्सूर्यसिद्धान्तोऽपि त्रिविधः स्मर्यते यत्र तत्र । तत्रैक आर्ष पैतामहवासिष्ठसमकालिको द्वितीयस्तु वराहमिहिरेण पञ्चसिद्धान्तिकायां वैशद्येन व्याख्यातस्तृतीयश्चार्वाचीनः सूर्यसिद्धान्ताख्यग्रन्थे प्रस्तुतः । तत्राद्यविषये तु वयं नितान्तमेवाज्ञाः । ज्योतिषशास्त्रे सूर्यो हि यत्र तत्र स्तुतस्तु दृश्यते ज्योतिषामधिपत्वेन सिद्धान्तप्रवक्तृत्वेन वेति तु नैव निश्चेतुं शक्यते । कथ्यते हि विष्ण भगवान सूर्यं यत्कालचक्ररहस्यं सृष्ट्यादावुपदिदेश तदेवाचं सौरगणितमिति । यच्च गणितं वराहमिहिरः स्मरति तत्तस्येव विकसित रूपम् । यत्तु सूर्यमयासर. संवादरूपग्रन्थे लभ्यते तत्तु तस्मादप्यर्वाचीनमिति तज्ज्ञानां मतम् । ब्रह्मगो हि मयमपि गणिताचार्येषु गणयतीति साम्प्रतिकसूर्यसिद्धान्तग्रन्थस्यापि ब्रह्मगुप्तप्राग्वतित्वं तु मन्तव्यमेव ।
सूर्यसिद्धान्तो हि न केवलं चन्द्रसूर्ययोरेव यथा सिद्धान्तान्तरेऽपितु सर्वेषामेव ग्रहाणां गत्यादिकं निरूपयति । अस्य हि दृक्प्रतीतिविषत्वमेवा हेतः । तेनैवोक्तं पञ्चसिद्धान्तिकाया स्पष्टतरः सावित्र इति । . .. सिद्धान्तिकामनुसृत्य सिद्धान्तस्यास्य कतिपये पक्षी उपस्थाप्यन्ते । अधिमासानयनं यथा -
‘वर्षायुते धृतिघ्ने नववसु गुणरसरसाः स्युरधिमासाः । सावित्रे ।
शरनवखेन्द्रियार्णवाशान्तिविप्रलयाः ॥'[१३]
वर्षमानानयनं तथा--
'एष निशाऽर्धेऽवन्त्यां ताराग्रहणेऽर्क सिद्धान्ते ।
तत्रेन्दुपुत्रशुकौतुल्यगती मध्यमार्केण ॥[१४]
जीवस्य शताभ्यस्तं द्वित्रियमाग्नित्रिसागरविजेत् ।
शुगणं कुजस्य चन्द्राहतं तु सप्ताष्टषड्भक्तम् ॥[१५]
सूर्यसिद्धान्तानुसारेण ३६५।१५।३१।३० मितं हि वर्षमानं मध्यरात्रितो युगारम्भश्च।
इतरे
सम्पादयतुएते हि पञ्चसिद्धान्तिकायां व्याख्याताः सिद्धान्ताः । एतदतिरिक्त व्यासगर्गपराशरनारदादिसम्मतसिद्धान्ता अपि यत्र तत्र स्मृता दृश्यन्ते किन्तु न कश्चित् सैद्धान्तिकविषयो ग्रन्थस्तेषां सम्प्रति समुपलब्धः। सम्प्रति समुपलभ्याः गर्गपराशरनारदादिसंहिताः संहिताग्रन्था एव न तु सिद्धान्तग्रन्थाः । सोमसिद्धान्तोऽपि यत्र तत्र स्मृतो दृश्यते । आर्यभटो हि पाराशरसिद्धान्तं स्मरति ब्रह्मगुप्तश्च सोमसिद्धान्तम् । यथा-
‘अयमेव कृत सूर्येन्दुपुलिशरोमकवसिष्यवनाचैः । इति ।[१६]
सिद्धान्तेष्वेतेषु मानादौ फलसंस्कारादौ चान्तरं दृश्यन्ते । यथा हि वराहमिहिरसम्मतसूर्यसिद्धान्तानुसारेण वर्षमानं हि ३६५॥१५॥३१॥३०॥ यदाऽवचीनसूर्यसिद्धान्तानुसारेण तु तत् ३६५।१५।३१।१५४८ एव । एवमेवान्यस्मिन् विषयेऽपि ।
आधुनिकः सूर्यसिद्धान्तः
सम्पादयतु'आधुनिकं हि सूर्यसिद्धान्तं प्राय आर्यभटमनुसरति । अर्वाचीनसिद्धान्तपञ्चकमपि न ब्रह्मगुप्ततोऽर्वाचीनम् । ब्रह्मगुप्तस्य स्थितिकालः ५२० मितशकाब्दमभितोऽनुमितः । यच्च वेटलीमहाशयः अर्वाचीनसूर्यादिसिद्धान्तप्रोन्नयनकालं १०१३, मितशकाब्दमभितः द्वितीयार्य सिद्धान्तं १२१० मितशकाब्दमभितः, पाराशरसिद्धान्तकालञ्च १३०६ मितशकाब्दमभितः इत्यनुमाति तन्न समीचीनम् । द्वितीयार्य सिद्धान्तो हि निश्चयमेव १०७२ मितशकाब्दात् प्राचीन एव यतस्तत्रत्यं तथ्यं सिद्धान्तशिरोमणावुद्धृतं दृश्यते । शङ्करबालकृष्णमतेन पञ्चसिद्धान्तिकोक्तसूर्यसिद्धान्तः प्रथमार्यभटादपि नितान्तप्राचीनः । केचिद्धि लाटाचार्यं सूर्यसिद्धान्तस्य प्रणेतृत्वेन गृह्णन्ति सूर्यसिद्धान्तसम्मतभगणमानस्य लाटाचार्यग्रन्थेन संपादित्वमेव तथाचिन्तने हेतुः । लाटदेवो हि वराहमिहिरपूर्ववर्ती । यथा स एव स्मरति द्वावाद्यौ व्याख्यातो लाटदेवेन । इति।[१७] यदि हि वर्तमानसूर्यसिद्धान्तो लाटदेवेन गुम्फितोऽभविष्यत् तदा स वराहमिहिरेण स्मृतोऽभविष्यत् । तथाप्येतावत्तु निश्चितमेव यत्तत्रत्यानि भगणादि मूलतत्त्वानि ४२७ मितशकवर्षात्प्राचीनान्येव । आधुनिकसूर्यसिद्धान्तो हि लाटाचार्येण गुम्फितः स्याद्वा न वा एतावत्तु निश्चितमेव यत्ते षडेव सिद्धान्ताः ब्रह्मगुप्तकालात्प्रागेव प्रचलिता आसन् । तेन हि तेषां प्रणयनं शकेन्द्रपञ्चमशतकादर्वाचीनं तु कदापि न सम्भवति ।
प्रस्तुते हि सूर्यसिद्धान्ते सन्ति चतुर्दशाधिकाराः अध्यन्न-स्पष्ट-दिग्वेशकालछेधक-चन्द्रग्रहण-सूर्यग्रहण-ग्रहयुति-भग्रहयुति - उदयास्त • चन्द्रभूञ्जल्लिति • पातभूगोल-ज्योतिषोपनिषद्मनसंज्ञकाः । मध्यमाधिकारे युगमानं कल्पमानं वा भगणभभ्रमचान्द्रमासाधिमासावम-सौरवर्ष-ग्रहध्रुव-परमशरांशादिविषयाः निरूप्यन्ते । वस्तुतस्तु मध्यमाधिकारे ग्रहाणा. मध्यमस्थितिवण्य॑न्ते । स्पष्टाधिकारे ग्रहाणां तात्कालिकी स्थितिर्वर्ण्यते । भगणभ्रमादिमानं लाटदेवतः शेषविषयञ्च पञ्चसिद्धान्तिकात एवादाय सिद्धान्तोऽयं ख्यापित इत्यनुमीयते । रोमकवासिष्ठसिद्धान्तयोरपीयमेव स्थितिः । वस्तुतस्तु सूर्यसिद्धान्ते विविधेषु संस्करणेषु, लोकसाम्यमपि न दृश्यते । भट्टोत्पलेन सूर्यसिद्धान्तसम्बद्धत्वेनोद्धृताः कतिपये श्लोका अपि सूर्यसिद्धान्तग्रन्थे नैवोपलभ्यन्ते । तथैव मध्यमाधिकारे कतिपयेषु संस्करणेषु साम्प्रतिकसंस्करणमुद्रितषष्ठसप्तमश्लोकयोर्मध्येऽधोनिर्दिष्टः श्लोको लभ्यते -
'तस्मात्त्वं स्वां पुरीं गच्छ तत्र ज्ञानं ददामि ते ।।
रोमके नगरे ब्रह्मशापान्म्लेच्छावतारधृक् ॥' इति ।
एतेन प्रसङ्गेन सूर्यसिद्धान्तस्य रोमकसम्प्रदायसम्बद्धता दर्यते । केचन मयासुरं टालमीतोऽभिनं मन्यन्ते । किन्तु सूर्यसिद्धान्तसम्मतभगणादिमानैः सह टालमीपरिगणितमानस्य कीदृशस्यापि सम्बन्धस्याभावात्तन्निर्मूलमिति शङ्करबालकृष्णमतम् ।
साम्प्रतिकसूर्यसिद्धान्तग्रन्थो हि स्यात्प्राचीनऽर्वाचीनो वा तस्य सिद्धान्तज्योतिषस्य करणग्रन्थेषु दृश्यते सुमहत्प्रभावः । अस्य परमोपयोगित्वमाश्रित्वैवास्य प्रणीता अनेकैविपश्चिद्भिरनेके टीकाग्रन्थः । तेषु रङ्गनाथस्य गूढार्थप्रकाशिका[१८] नृसिंहदैवज्ञस्य सौरभाष्यं[१९] विश्वनाथस्य गहनार्थप्रकाशिका[२०] दादाभाई इत्येतस्य किरणावली[२१] भूधरस्य भूधरीटीका एवमेव आर्यभट-मम्मट-मल्लिकार्जुन-येल्लयातन्मयादिभिः प्रणीताष्टीका एतास्तु श्रुती एव न तत्त्वतो ज्ञाताः । सुधाकरस्य सुधार्वाषणी कपिलेश्वरस्य श्रीतत्त्वामृतञ्च प्रसिद्धाः ।
सोमसिद्धान्तः
सम्पादयतुकश्चन ज्योतिषशास्त्रस्य सिद्धान्तः। चन्द्रमसा हि शौनकायोपदिष्टं तच्छिष्यपरम्परासन्धारितं सिद्धान्तं सोमसिद्धान्तशब्देन ज्ञायते । एतद्ग्रन्थो दशाध्यायेषु विभक्तः सन्ति च तत्र ३३५ श्लोकाः । ब्रह्मगुप्तो हि प्रदूषणं विनैव सोमसिद्धान्तं स्मरतीति सिद्धान्तस्यापि प्राचीनत्वं त्वविहतमेव कमलाकरोऽपि -
'ब्रह्मा प्राह च नारदाय हिमगुर्यच्छौनकायामलं
माण्डव्याय वसिष्ठसंज्ञकमुनिः सूर्यो मयायाह यत् ।'
इत्युक्त्वाऽमुं स्मरति । वस्तुतस्तु सिद्धान्तोऽयं वर्तमानसूर्यसिद्धान्तेन सह नितान्तसंवादीनि तद्वैशिष्टयमेवास्य वैशिष्ट्यम् ।
आधुनिकवासिष्ठसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य कश्चन सिद्धान्तः अस्ति। वसिष्ठसिद्धान्तग्रन्थौ सम्प्रति द्विविधौ लभ्येते केवल स्वरूपभेदेन । एकस्मिन् अन्थे सन्ति तत्र पञ्चाध्यायाः चतुर्णवतिश्लोकाश्च । ग्रन्थोऽयं कमलाकरेणाऽपि स्मृतः वसिष्ठमाण्डव्यसंवादरूपः । रङ्गनाथो हि लघुवसिष्ठसिद्धान्तं वृद्धवसिष्ठ सिद्धान्तञ्च स्मरति । स हि ततो ग्रहणविषयको उपजातिच्छन्दो गुम्फित द्वौश्लोकावुद्धरति । साम्प्रतिकग्रन्थस्त्वनुष्टुब्छन्दस्येव वर्तते । अपरश्च मध्यमाधिकारमात्रविषयः । स चात्मानं वृद्धवसिष्ठसम्बद्धमुदघोषयति चरमे वाक्ये कथयति चादौ शास्त्रमिदं वसिष्ठेन वामदेवार्य प्रोक्तमिति । तदित्थं हि वसिष्ठेन .पराशराय प्रोक्तं तेन वामदेवाय प्रोक्तं तेनैव माण्डव्याय प्रोक्तमिति दृश्यन्तेऽस्य त्रीणि प्राक्कथनानि ।
आधुनिकरोमशसिद्धान्तः
सम्पादयतुरोमशसिद्धान्तमधिकृत्य कथ्यते यद्विष्णुह यज्ज्ञानं वसिष्ठाय रोमशाय चोपदिष्टवांस्तदेव रोमशेन व्याख्यातं रोमशसिद्धान्ताऽऽख्यमिति । लोमशो हि ऋषिः पुराणेषु प्रसिद्धः । रो(लो)माणि(नि) सन्त्यस्येति मत्वर्थीयः शः । रोमशसिद्धान्तग्रन्थे सन्त्येकादशाध्यायाः अनुष्टुब्वृत्ते गुम्फिताः ३७४ श्लोकाः ।। सिद्धान्तो भगणभभ्रमादिविषये सूर्य सिद्धान्तसंवादी । नायं ग्रन्थः कुत्राऽप्युद्धृतो दृश्यते इति तज्ज्ञाः । अत्र प्रयुक्तो नवाथे नन्दशब्दः भौमार्थं आरशब्दाश्चास्यार्वाचीनत्वं सूचयति ।।
शाकल्योक्तबह्मसिद्धान्तः
सम्पादयतुशाकल्योक्तो विष्णुधर्मोत्तरीयव्याख्यातः ब्रह्मगुप्तप्रतिपादितश्चेति ब्रह्मसिद्धान्तोऽपि त्रिः प्रस्तुतो दृश्यते । तत्र शाकल्यप्रोक्तब्रह्मसिद्धान्तग्रन्थे सन्ति षडध्यायाः ७६४ श्लोकाश्च । कथ्यते हि ब्रह्मा नारदाय यज्ज्ञानमुपदिष्टवान् तदेवायं सिद्धान्त इति । रङ्गनाथो हि सूर्यसिद्धान्तस्य गूढार्थप्रकाशिकाटीकायां यत्र कुत्र ‘शाकल्योक्ते' इति क्वचन तु ‘ब्रह्मसिद्धान्ते' इति चोल्लिख्य सिद्धान्तमेनं स्मरति । कमलाकरभट्टश्च सिद्धान्ततत्त्वविवेके ‘ब्रह्मा प्राह च नारदाय इत्युक्त्वा सिद्धान्तमिमं स्मरति । अस्यापि भगणभभ्रमादिमानानि सूर्यसिद्धान्तसंवादीनि । अत्र गणितातिरिक्तमपि तिथिविशेषनिर्णयादिविषया अपि समुपन्यस्ताः । तत्र ज्योतिषशास्त्रमष्टधानिर्गतमित्युक्तम् । यथा -
‘एतच्च मत्तः शीतांशोः पुलस्त्याच्च विवस्वतः ।
रोमकाच्च वसिष्ठाच्च गर्गादपि वृहस्पतेः ।।
अष्टधा निर्गतं शास्त्रम्""""""""""" ••••••••॥[२२]
मत्त इति शाकल्यात् । सम्भवति पुलस्त्यप्रोक्तः सिद्धान्तो पौलिश एव यद्यपि पोलिशशब्दोऽपि द्विस्त्रिव प्रयुक्तो दृश्यते तत्र । तत्रत्यं हि -
तस्मात्पञ्चसु सिद्धान्तेषुक्तमार्गविचार्यताम्'[२३] इति कथनेनाऽस्य शाकल्यशास्त्रस्य सिद्धान्तपञ्चकान्तंरवतत्वं सूच्यते । अस्य हि प्रमाथिप्रथमं वर्ष सौरं कल्पस्य सर्वदा' इति कथनमाश्रित्य संवत्सरगणनायां बार्हस्पत्यमानस्थाने सौरमानाधारेण शकानन्तर ७४३ वर्षानन्तरमेवास्य प्रणयनमिति शङ्करबालकृष्णमतमस्माभिरप्यनुगतम् । सप्तर्षीणामपि शरभोगोऽस्य सिद्धान्तस्य वैशिष्ट्यं यद्धि सिद्धान्तान्तरे नैव दृष्टम् ।
इत्थं हि येऽपि सिद्धान्ताः पूर्वं विवेचितास्तेषां सूर्यसिद्धान्त एव परं प्रमाणमिति समष्टया तेषां कृतेऽपि सौरशब्दव्यवहारः, ज्योतिषशास्त्रे हि दृश्यन्ते त्रयः पक्षाः सौरः आर्यभटीयः ब्राह्मगुप्तीयश्च । तत्राद्यो विवेचितः । अथात्र विवेच्यते द्वितीय आर्यभटीयः पक्षः।
आर्यसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य कश्चन सिद्धान्तः। आर्यभटो हि ज्योतिषसिद्धान्तप्रणेतृषु पुरुषेषु प्रथमः । यद्यपि स बहुषु विषयेषु सूर्यसिद्धान्तसंवादी स्तौति ब्रह्म[२४] तथापि तस्य बेधपरिपाटी तदुभयविलक्षणा । आर्यभटस्य आर्यभटीयं ज्योतिषग्रन्थेषु पौरुषेयेषु प्रथमम् । आर्यभट आत्मानं कुसुमपुरनिवासिनं ३९८ मितशकाब्दभवञ्च कथयति । कुसुमपुरं केचन पाटलीपुत्रमपरे तु दक्षिणप्रदेशस्थं किमपि तत्संज्ञक नगरं मन्यन्ते । अधिकांशविपश्चितस्तु तं मागधमेव मन्यते ।
लल्लाचार्यसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य सिद्धान्तः वर्तते। धीवृद्धिदतन्त्रेदमवधेयं यन्मध्यमस्थितिस्पष्टस्थित्योर्यदन्तरं ग्रहस्य तत् फलसंस्कारशब्देनोच्यते यच्च ग्रहस्य सिद्धान्तागतवेधागतस्थित्योरन्तरे सति तत्संयोजनाय संस्कारः क्रियते तद्धि बीजसंस्कारशब्देनाभिधीयते । ग्रहस्य स्थिति त्रिविधा भवति-- मध्यमस्थितिः, स्पष्टस्थितियथार्थस्थितिश्च । आद्याः सिद्धान्तानुयायिनी, द्वितीया करणानुयायिनी तृतीया तु वेधानुयायिनी। लल्लो हि भटदीपिकाकारपरमादीश्वरमतानुसारेण आर्यभटस्य शिष्यः समानवयस्कश्चासीत् । किन्तु तस्यैव हि स्वप्रणीतगणिताध्यायसमाप्तौ-
वराहमिहिरसिद्धान्तः
सम्पादयतुज्योतिषशास्त्रस्य कश्चन सिद्धान्तः। पञ्चसिद्धान्तिकायां वराहमिहिरेण स्वसिद्धान्तः प्रतिपादितः वर्तते। यद्यपि ज्योतिषशास्त्रे वराहमिहिरस्य सर्वातिशायि स्थानं तथापि तस्य मौलिकसिद्धान्तं तु सम्प्रत्यपि नैवास्मान् प्रसादीकरोति प्रकटनेन । तस्य पञ्चसिद्धान्तिकेति सिद्धान्तग्रन्थो लभ्यते श्रूयते च तस्य जातकार्णवो नाम करणग्रन्थोऽप्यस्तीति बृहत्संहिताऽग्रभागस्थाद् त्रिपाठिनः अवधबिहारिणोऽवतारिकालेखाज्ज्ञायते च । उक्तञ्च तेनैव बृहत्संहितायाम् -
सारः
सम्पादयतुइत्थं हि विष्णुगुप्तात्पूर्वमासन् सप्तदशसिद्धान्ताः प्रचलिता भारते वर्षे ।। तत्रैक: प्राचीनः सौरसिद्धान्तो द्वितीयो मौलिकः पैतामहसिद्धान्तः तृतीयस्तु प्राचीनो वासिष्ठसिद्धान्तः चतुर्थो हि मौलिकः पोलिशसिद्धान्तः पञ्चमस्तु प्राचीनरोमकसिद्धान्तः षष्ठो हि आर्य सिद्धान्तः सप्तमस्तु लाटदेवव्याख्यातो रोमकसिद्धान्तः अष्टमो हि तेनैव संस्कृतः पोलिशसिद्धान्तः नवमो हि विजयनन्दिसंस्कृतो वासिष्ठसिद्धान्तः दशमस्तु प्रद्युम्नप्रोक्तः पैतामहसिद्धान्तः । एतान् दश सिद्धान्तान् वराहाचार्यः पञ्चसिद्धान्तिकायां स्मरति । एकादशो हि वराहमिहिरसंस्कृतः सूर्यसिद्धान्तः द्वादशस्तु श्रीषेणव्याख्यातो रोमकसिद्धान्तः त्रयोदशो हि विष्णुचन्द्रव्याख्यातो वासिष्ठसिद्धान्तः चतुर्दशस्तु लाटसिंहप्रतिव्याख्यात आधुनिकसूर्य सिद्धान्तश्च । अपरान् पञ्च विष्णुगुप्तः स्मरति । ततः पञ्चदशो हि शाकल्यप्रोक्तः ब्रह्मसिद्धान्तः षोडशस्तु विष्णुधर्मोत्तरप्रोक्तो ब्रह्मसिद्धान्तो यं ब्रह्मगुप्तोऽनुसरति सप्तदशश्च पाराशरसिद्धान्तः ।
एते हि प्रायः सूर्य सिद्धान्तसंवादिनो विहाय कतिपयानपवादान् । तेषु आर्यसिद्धान्तो विलक्षणः । स हि युगान् समानपादान् मन्यते भूभ्रमांश्च परिगणयति । ग्रहाणाञ्च स हि समानां गतिं मन्यते वृत्तानुसारेण शीघ्रदीर्घकालपरिपूरयितव्याम् । स वर्षमानञ्च पञ्चदशविकलया न्यूनं मन्यते । एवमन्येऽपि विशेषाः सन्ति तत्र यान् हि जिष्णुसुतो ब्रह्मगुप्तो भूयोभूयः खण्डयन्नपि नैव तृप्तिमनुभवति सिद्धान्तग्रन्थेऽनुयाति च करणग्रन्थे ।
ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्तः
सम्पादयतुब्रह्मगुप्तस्य सिद्धान्तः इत्युक्ते ब्रह्मगुप्तप्रतिपादितो ब्राह्मस्फुटसिद्धान्तः । ब्रह्मगुप्तो हि महान् ज्योतिषिको वेधकुशलश्च । तस्य ब्राह्मस्फुटसिद्धान्तो नाम सिद्धान्तग्रन्थः खण्डखाद्यकं नाम करणग्रन्थश्च सम्प्रति समुपलभ्येते । श्रूयते च तस्य ध्यानग्रहो नाम फलितज्योतिषग्रन्थोऽपि ।
ब्रह्मगुप्तो हि जिष्णुनाम्नः सुतः गुर्जरप्रान्तस्थश्रीमालग्रामवास्तव्यः । सम्प्रति श्रीमालो हि भिन्नमालनाम्नाऽपि ज्ञातो लघुग्राम एव किन्तु तदा तत्क्षेत्रस्य राजधान्यासीदिति इएन-शाङ्गस्य ( सम्भवतः हवनसङ्गः ) संस्मरणाज्ज्ञायते ।
खण्डखधकरणम्
सम्पादयतुब्रह्ममुप्तेन खण्डखाद्याभिधः करणग्रन्थोऽपि प्रणीतः किन्तु ग्रन्थेऽस्मिन् स-हि बहुधा ब्राह्मस्फुटसिद्धान्तेऽग्राह्यत्वेन तुच्छीकृतमार्य सिद्धान्तमपि स्वीकरोतीत्याश्वर्यमेव । अन्थस्यास्य द्वौ भागौ पूर्वोत्तरार्द्धभेदेन । पूर्वभागे नवाधिकाराः उत्तरार्द्ध पञ्चैव । तस्येयमादिमाऽऽर्या
.......... .................. ................ ............।
वक्ष्यामि खण्डखाद्यकमाचार्यार्यभटतुल्यफलम् ॥ १॥
प्रायेणार्यभटेन व्यवहारः प्रतिदिनं यतोऽशक्यः ।
उद्वाहजातकादिषु तत्समफललधुतरोक्तिरतः ॥ २ ॥
खण्डखाचे हि वर्षमानं मूलसूर्यसिद्धान्तेन संवादि अर्थात् ३६५॥१५॥३१॥ ३०० गृहीतं येन हि स्वमतासम्मतमपि ( तन्मतानुसारेण तु युगप्रवृत्तिः सूर्योदयादेव भवति ) युगप्रवर्तनं ह्यर्द्धरात्रितो मन्तव्यं भवति । तत्रत्यानि हि ग्रहमध्यगतिक्षेपकादीनि आर्यभटकरणग्रन्थेन संवादीनि । खण्डखाद्योपरि वरुणभट्टोत्पलपृथुदकैश्च प्रणीताष्टीकाः सन्तीत्याचार्याः । ग्रहाणां दृक्प्रत्येयस्थितिसाधनमेव खण्डखाद्यस्य प्रयोजनम् ।
मूल्याङ्कनम्
सम्पादयतुब्रह्मगुप्तो हि महानन्वेषकः । तस्य हि चक्रीयचतुर्भुजप्रमेयो भारतीयबीजगणिते महत्वूपलब्धिः । ज्याभिविना भजकोटिज्ययोरानयनं ज्यातश्चापानयनञ्च सर्वप्रथमं ब्रह्मगुप्तेनैव कृतम् । तत्प्रकारश्च यथा-
‘भुजकोटयंशोनगुणा भार्धाशास्तच्चतुर्थ भागोनैः ।
पञ्चद्वीन्दुखचन्द्रविभाजिता व्यासदलगुणिता ।।
तज्ज्ये परमफलज्या सङ्गुणिता तत्फले विना ज्याभिः ।।
इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवाः ।।' इत्यादि ।
यद्यपि परम्पराभक्तो भारतीयज्योतिषिसमूहो ब्रह्मगुप्तस्य समीक्षात्मकपद्धति सहसा नैव स्वीकर्तुं प्राभवत्तेन हि तेन खण्डखाद्यकाख्यो हि करणग्रन्थः किञ्चित्तदानुकूल्येन प्रणीतस्तथापि दृक्प्रत्येयतासिद्धचै ब्रह्मगुप्तप्रयत्नः सदाऽनुकरणीय एव ।
अयनचलनविषये आर्यभटवराहमिहिरलल्लप्रभृतिभिरिव ब्रह्मगुप्तेनापि तथ्यं नैवोनीतं दृश्यते । यद्यपि वराहेण अयनचलनं ज्ञातमासीत्तथापि सोऽपि तत्र सन्दिहान इव दृश्यते यदा स कथयति ‘नूनं कदाचिदासीत्तेनोक्तं पूर्वशास्त्रेषु' इति ।। ब्रह्मगुप्तस्तु तदपि खण्डयन्निव दृश्यते, यदा स कथयति -
‘परल्पा मिथुनान्ते चुरात्रिनाड्योऽर्कगतिवशादृतवः ।।
नायनयुगमयनवशात् स्थिरमयनद्वितयमपि तस्मात् ॥' इति ।
अयनचलनस्य बहुकालसम्भत्रित्वमेवात्र हेतुत्वेन भाव्यं तथाकथने । सामान्यतो हि क्रान्तिपातः पञ्चषष्ट्या वर्षेः प्राय एकमंशं पश्चिमदिश्यपसरति । विषयोऽयं मुजालेन प्रथममुन्नीत इति भास्कराचार्यस्य साक्ष्यतो ज्ञायते । ब्रह्मगुप्तकालेऽश्विन्यादी क्रान्तिपात आसीदिति तदादिनक्षत्रगणना या प्रवृत्ती साऽधुनापि , चलति । सम्प्रति ( १९११ शकाब्दे ) अह्मगुप्ततः ( ५५० शकाब्दतः ) १३६० वर्षाणि व्यतीतानि यद्धि पञ्चषष्टिवर्षसंख्याया २३ . पर्यायान् जनयति ।
आर्यभटोन्नीतं भूचलनखण्डनमप्यस्यापरमसाफल्यम् । यद्यपि आर्यभटः स्वयमेवाऽत्र सन्दिहान इव दृश्यते यदा स कथयति---
'अनुलोमगतिनस्यः पश्यत्यचलं विलोमगं यद्वत् ।
अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम् ।।' इत्येकत्र ।
‘उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः ।।
लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति ।।' इत्यन्यत्र ।
सम्भवतः परमादीश्वरोऽपि तेनैव भ्रान्त इव दृश्यते यदा स ‘भू' इत्येतस्य स्थाने 'भ' इति पाठेन व्याख्याति । ब्रह्मगुप्तस्तु स्पष्टमेव भूभ्रमणं खण्डयति कथनेनानेन
‘प्राणेनेति कला भूर्यदि तहि कुतो व्रजेत्कमध्वानम् ।।
आवर्तनमुश्चेन्न पतन्ति समुच्छ्रयाः कस्मात् ।' इति ।।
दृग्गणितयोरेक्यस्थापनमेव ब्रह्मगुप्तस्योद्देश्यं सिद्धान्तप्रणयने । स्पष्टमेव स कथयति---
‘कृत्वाऽपि दृष्टिकर्मश्रीषेणार्यभटविष्णुचन्द्रोक्तम् ।
प्रतिदिनमुदयेऽस्ते वा न भवति दृग्गणितयोरैक्यम् ।।
भमुनिमृगव्याधानां यतस्ततो दृष्टिकर्म वक्ष्यामि ।
दृग्गणितसमं देयं शिष्याय त्रिरोषिता देयम् ।।' इति ।
पद्मनाभस्य बीजगणितम्
सम्पादयतुशकानन्तरसप्तमशतकवतिना पद्मनाभाख्येन विदुषा बीजगणितग्रन्थः प्रणीत आसीदिति भास्कराचार्य साक्ष्यतो ज्ञायते ।।
अन्ये
सम्पादयतुएवमेव भास्कराचार्यः श्रीधराख्यं बीजगणितकार कमप्याचार्य स्मरति । एवमेव महावीराख्येन विदुषा कश्चिद् व्यक्तगणितग्रन्यः प्रणीत आसीदिति तत्साक्ष्यत एव ज्ञायते । प्रसङ्गेऽस्मिन् मन्वाख्यस्य ब्रह्ममानसाख्यं करणं बलभद्राख्यस्य बलभद्रीय वित्तेश्वरस्य करणसारश्च तत्र तत्र स्मर्यन्ते ।।
मुञ्जालः बृहन्मानसं लघुमानसश्च
सम्पादयतुप्रसङ्गेऽस्मिन् स्मर्यते मुञ्जालस्य बृहन्मानसं यद्धि भास्कराचार्योऽपि भूरिशः स्मरति । मुञ्जालो हि ब्रह्मगुप्तवत् स्वतन्त्रान्वेषक आसीत् । तस्य स्थितिकालः ८५४ मितशकान्दमभित इति शङ्करबालकृष्णोऽनुमाति । कथ्यते हि मुजालो हि मनोबृहन्मानसाख्यस्य करणग्रन्थस्य सारसंक्षेपरूपेण ग्रन्थमेकं प्रणिनायेति । मुजालं हि भास्कराचार्यः सश्रद्धं स्मरति । यथा -
‘विषुवत्क्रान्तिवलययोः सम्पातः क्रान्तिपातः स्यात् ।
तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे ।।
अयनचलनं यदुक्तं मुजालाचैः स एवायम् ।
तत्पक्षे तद्भगणाः कल्पे गोङ्गर्तुनन्दगोचन्द्राः ।।
तत्सञ्जातं पातं क्षिप्त्वा खेटेऽयमः साध्यः ।
क्रान्तिवशाच्चरमुदयाच्चरदललग्नागमे ततः क्षेप्यः ॥'[२५]
मुञ्जालो यथा -
‘उत्तरतो याम्यदिशं याम्यान्तात्तदनु सौम्यदिग्भागम् ।
परिसरतां गगनसदां , चलनं किञ्चिद्भवेदपमे ।।
विषुवदपक्रममण्डलसम्पाते प्राचि मेषादिः ।
पश्चात्तूलादिरनयोरपक्रमासम्भवः प्रोक्तः ॥
राशियान्तरेऽस्मात् कर्कादिरनुक्रमान्मृगादिश्च । ।
तत्र च परमा क्रान्तिजनभागमिताऽथ तत्रैव ।।
निर्दष्टोऽयनसन्धिश्चलनं तत्रैव , सम्भवति ।
तद्भगणाः कल्पे स्युर्योरसरसगोङ्कचन्द्रमिताः ॥' इति ।
मुञ्जालस्य द्वौ ग्रन्थौ-मानसं नाम सिद्धान्त ग्रन्थों लघुमानस नाम करणग्रन्थः । आद्यो हि आर्याच्छन्दसि अपरश्चानुष्टुप्छन्दसि विद्यते । लघुमानसारम्भे स कथयति -
‘प्रकाशादित्यवख्यांतो भारद्वाजो द्विजोत्तमः ।।
लघुपूर्वं स्फुटोपायं वक्ष्येऽन्यल्लघुमानसम् ॥' इति ।
लघुमानसे हि सन्ति षष्टिमिताः श्लोकाः । अत्र ८५४ शकाब्दस्य चैत्रशुक्लप्रतिपदायाः रविवासराया मध्याह्नस्य क्षेपकानि दत्तानि । अतोऽयमेव ग्रन्थप्रणयनसमय इति तज्ज्ञाः । अत्र सन्ति अष्टावधिकाराः मध्यमस्पष्टतिथित्रिप्रश्नसूर्यग्रहणग्रहयुतिचन्द्रग्रहणशृङ्गोन्नत्याख्याः । इतःपरं न हि कस्मिश्चिदपि पौरुषेयग्रन्थेऽयनचलनविषये किमपि विचिन्तितमासीत्. । प्रथमं तन्मुजालेनैवोन्नीतमिति तदस्य गौरवधायकम् । अनेन हि चन्द्रस्पष्टेऽपि विशेषसंस्कार आधापितो यदन्यत्र नैव दृष्टः आसीत् । लघुमानस्य भट्टोत्पलकृता टीका विद्यते, १४९४ मितशकाब्दे प्रणीता ।।
मुजालेन हि ८५४ शकाब्दे ६॥५० अयनांशास्तद्वार्षिकगतिश्च विकलैका दत्ता । तदनुसारेण ४४४ मितशकवर्षं हि शून्यायनांशवर्षम् । मुनीश्वरोऽपि स्वग्रन्थे मरीच्यां मुञ्जालं स्मरति ।।
द्वितीय-आर्यभटः महासिद्धान्तश्च
सम्पादयतुब्रह्मगुप्तभास्कराचार्ययोरन्तकालवर्ती कश्चिदार्यभटो नाम ज्योतिषिकः । एष हि ऐतिहासिकैद्वितीयार्यभट इति ख्यापितः । तस्य दृक्काणोदयसिद्धान्तं भास्कराचार्यः स्मरतीति तस्य भास्कराचार्यंपूर्ववतित्वं स्पष्टमेव । दृक्कोण हि राशेस्तृतीयांशः । प्रथमो ह्यार्यभटो लग्नं त्रिशदंशवत्वेन गृह्णाति न तु दशस्वंशेषु । अयं द्वितीय आर्यभटो यो हि लग्नं तथा गृह्णाति । तेन भास्करीयम् ‘आर्यभटादिभिः सूक्ष्मतत्त्वार्थं दुक्काणोदयाः पठिता' इति कथनं द्वितीयमार्यभटमेव सङ्केतयति । आर्य सिद्धान्ते ब्रह्मगुप्तेन लल्लेनापि ये दोषाः प्रख्यापितास्तेषां निराकरणपूर्वक द्वितीयार्यभटेन स्वकीयः सिद्धान्तः प्रख्यापितः । यथा स कथयति ग्रन्थारम्भे--
‘विविधखगागमपाटीकुट्टकबीजादिदृष्टशास्त्रेण ।
आर्यभटेन क्रियते सिद्धान्तो रुचिर आर्याभिः ॥' इति ।
एष हि ब्रह्मगुप्त इव अयनचलनं स्थिरं मन्यते । तस्य हि स्थितिकालः शङ्करबालकृष्णेन ८७५ शकाब्दानभितोऽनुमितः । अस्य . सिद्धान्तग्रन्थो महासिद्धान्तनाम्ना प्रसिद्धः । सन्त्यत्र अष्टादशाध्यायाः । सर्वेऽप्यधिकाराः पाटीगणितमङ्कगणितं क्षेत्रफ़लघनफलादिकच्चास्य प्रतिपाद्यविषयाः । अष्टादशेऽध्याये बीजगणितं । निरूपितं यद्धि कतिपयैः पौर्ब्रह्मगुप्तनिरूपितसंस्कारापेक्षया विशिष्यते । असावपि वर्णसाहाय्येन अङ्कान् निर्दिशति किन्तु गणनाक्रम आर्यसिद्धान्ताद्भिन्न एव । स हि सप्तर्षीणामपि गति मन्यते प्रस्तौति च तेषां कल्पभगणाश्च । पुराणेष्वपि सप्तर्षीणां गतिरुक्ता दृश्यते किन्तु केचित्तन्न मन्यन्ते । सप्तर्षयो हि एकस्मिन्नक्षत्रे शृतं वर्षाणां तिष्ठन्ति । स हि पाराशरसिद्धान्तमपि स्मरति । यथाऽऽह सः -
‘पाराशयाँ दिविचरयोगे नेच्छन्ति दृष्टिफलम् ।' ( ११।१ )
‘फलिसंज्ञे युगपादे पाराशर्यमतं प्रशस्तमतः ॥
वक्ष्ये तदहं'••••••• •••••••••••••••।' ( २/१ )
पाराशरसिद्धान्तोऽपि यथावणतो महासिद्धान्तो कतिपयपक्षेषु महासिद्धान्त संवादी । उभयोरेव वर्षमानं बीजसंस्कृतब्रह्मगुप्तमानस्य नैकट्यं भजते ।
पृथूदकः
सम्पादयतुप्रकरणेऽस्मिन् पृथूदकस्वामी ब्राह्मस्फुटसिद्धान्तस्य व्याख्यातृत्वेन स्वतन्त्रग्रन्थप्रणेतृत्वेन च स्मर्यते, किन्तु तस्य स्वतन्त्रो ग्रन्थः सम्प्रति नैवोपलभ्यते । तस्य स्थितिकालः शकानन्तर ८५० मितवर्षमभितोऽनुमीयते तज्ज्ञैः ।
भट्टोत्पलः
सम्पादयतुखण्डखाद्य-बृहत्संहिता-बृहज्जातकाद्यनेकग्रन्थानां व्याख्याता भट्टोत्पलः काश्मीर आसीत् । तस्य स्थितिकालः शकानन्तरनवमशतकोत्तरार्धभागमभितोऽनुमितः । तस्य कश्चित्करणग्रन्थोऽप्यासीदिति विश्वस्यते । स हि त्रिष्वेव स्कन्धेषु प्रकाण्डपण्डित आसीत् । काव्यजगति मल्लिनाथस्य यत्स्थानं तदेवास्य ज्योतिषक्षेत्रे ।
विजयनन्दी करणतिलकम्
सम्पादयतुएवमेव विजयनन्दिनः करणतिलकाख्यो ग्रन्थोऽपि विपश्चिद्भिः स्मर्यते यो हि ८८८ मितशकाब्दानभितः प्रणीत आसीद्यत्र हि अहर्गणानयनपद्धतिर्मध्यमग्रहानयनविधिग्रहणोपयोगि रविचन्द्रबिम्बसाधनं महापातगणितञ्चेत्यादिविषयाः सप्रपञ्चं निरूपिता आसन् ।
भानुभट्टः रसायनतन्त्रम्
सम्पादयतुऐतिहासिकः भानुभट्टाख्यस्य रसायनतन्त्रख्यस्तन्त्रग्रन्थस्तिलकाख्यो हि करणग्रन्थश्च स्मर्यते । खण्डखाद्यटीकाकृद्वरुणाचार्यः रसायनतन्त्रतः कतिपय श्लोकानप्युद्धरति । अस्य हि स्थितिकालः ९०० शकाब्दमभितोऽनुमितः ।
व्यवहारप्रदीपाल्यस्य संहितामुहूर्तग्रन्थस्य प्रणेतृत्वेन पद्मनाभमिश्रं सुधाकरदीक्षितः सादरं स्मरति ।
श्रीपतिः
सम्पादयतुसिद्धान्तशेखरस्य धीकोटिदकरणस्य च प्रणेता रत्नमाला जातकपद्धतिग्रन्थानाञ्च रचयिता श्रीपतिः भास्कराचार्येण सिद्धान्तशिरोमणी सश्रद्धं स्मर्यंते । वासनावातिककृद्यथा तमुद्धरति--
"ज्योतिर्ग्रहाणां विधिवासरादौ सृष्टिर्लयस्तद्दिवसावसाने ।
यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मतं नः खलु कल्प एव ।।' इति ।
वासनावातके एवान्यत्र 'लल्लश्रीपतिप्रणीतशास्त्राद् बालावबोधम्' इति श्रीपतेः सिद्धान्तकृत्त्वं ख्यापितम् । तस्य. बीजगणितादुद्धरणं यथा मुनीश्वरेण लीलावतीटीकायां कृतम् -
‘दोःकोटिभागरहिताभिहता खनाग-
चन्द्रास्तदीयचरणोनशरार्कदिग्भिः ।
ते व्यासखण्डगुणिता विहृता फलं तु ।
ज्याभिविनाऽपि भवतो भजकोटिजीवा ।।' इति ।
अस्य हि ९६० शकाब्दानभितोऽनुमितः स्थितिकालः । त्रिस्कन्धस्यैव पण्डितोऽयं सिद्धान्तपक्षे आर्यसिद्धान्तानुयायी ग्रन्थप्रणयने लल्लानुगामीति तज्ज्ञैरनुमीयते ।
वरुणाचार्यः
सम्पादयतुएवमेव खण्डखाद्यस्य टीकाकृद्वरुणाचार्यः सश्रद्धं स्मर्यते कालविद्भिः । अस्य स्थितिकालः कैश्चित् ९६० मितशकाब्दमभितः कैश्चित्तु तत्र सिद्धान्तशिरोमणिग्रन्थस्योल्लेखात् १०७२ मितशकाब्दानन्तर एवेत्यप्यनुमितः ।।
भोजदेवः राजमृगाः ‘भोजदेवस्य राजमृगाङ्को ब्रह्मगुप्तसिद्धान्तस्य करणग्रन्थः । ग्रन्थेऽस्मिन् मध्यमस्पष्टाख्यौ द्वावेवाधिकारी सम्प्रति ज्ञायेते, यत्र ६९ श्लोकाः सन्ति । अनेन हि ब्रह्मगुप्तसिद्धान्ते बीजसंस्कार आहितः । ग्रन्थान्ते लिखितमस्ति-- .
‘इत्युर्वीपतिवृन्दवन्दितपदद्वन्द्वेन सद्बुद्धिना।।
श्रीभोजेन कृतं मृगाङ्ककरणं ज्योतिर्वदां प्रीतये ॥' इति ।
ग्रन्थेऽस्मिन् केरणारम्भकालीनमन्दोच्चपाता हि ब्रह्मसिद्धान्तगा एव । ब्रीजसंस्कारो ह्यस्यैव मौलिककल्पना प्रतिभाति इतः पूर्वं तददृष्टेः । तदानयनप्रकारश्च यथा तत्रोक्तः--
'नन्दाद्रीन्द्वग्निसंयुक्तान ( ३१७९ ) भजेत् खभ्रिाभ्रभानुभिः ।
शाकाब्दानविनष्टं तु भाजकाच्छेषमुत्सृजेत् ॥
तयोरपं द्विशत्याप्तं बीजं लिप्तादिकं पृथक् ।
त्रिभिः शरैर्भुवा द्वयक्षैर्बाणैस्तिथिभिरब्धिभिः ।
द्विकेन यमलेनैव गुण्यमर्कादिषु क्रमात् ।
स्वं शशीधे धरासूनौ सूर्यपुत्रे परेष्वृणम् ॥' इति ।[२६]
अयनांशानयनविधिर्यथा--
‘शकः पञ्चाब्धिवेदोनः षष्टिभक्तोऽयनांशकाः ।' ( १।२५ )
'श्रीसूर्यतुल्यात्करणोत्तमाद्वा स्पष्टा ग्रहा राजमृगाङ्कतो वा ।' इति । अत्रत्यानि क्षेपकाणि ९६३ मितशकाब्दसम्बद्धनीति ग्रन्थस्यास्य प्रणयनकालः ९६४ मितशकाब्द, इति तज्ज्ञाः । भोजदेवेन कृतो वा कारितोऽपि कि न स्याद् ग्रन्थोऽयं भोजस्यैव ज्योतिषविज्ञत्वं प्रसाधयति नामर्मज्ञः कर्तुं कारयितुं वा प्रभवतीति ।
दशबलस्य करणकमलमार्तण्डः
सम्पादयतुएवमेव राज्ञो दशबलस्य करणकमलमार्तण्डश्च क्षेत्रेऽस्मिन् स्मर्यते । यथोक्तं तदन्ते
"वल्लभान्वयसञ्जातो विरोचनसुतः सुधीः ।।
इदं दशबलः श्रीमान् चक्रे करणममृतम् ॥' इति ।
ग्रन्थोऽयं राजमृगाङ्मनुसरति स्वसाधनाय । अस्य मन्दोच्चनक्षत्रध्रुवपातादयो राजमृगाइसंस्कृतब्रह्मसिद्धान्तसम्मताः । अत्र हि ग्रहसाधनं वर्षंगणद्वारा निर्दिष्टम् । इतः पूर्वं तदहर्गणमाध्यमेन निर्दिष्टमासीद्यद्धि गणिते गौरवं भजते स्म । अत्र तत्साधककोष्ठकान्यपि दत्तानि सन्ति येन तत्साधने सौकर्य। भवति । अत्र हि अयनांशशून्यवर्षत्वेन ४४४ शकब्दिाः अयनांशस्य बाषिकी गतिश्च कलैका निर्दिष्टा । सन्त्यत्र मध्यमस्पष्टत्रिप्रश्नचन्द्रसूर्यग्रहणोदयास्तशृङ्गोन्नतिमहापातग्रहयुतिस्फुटाधिमासवत्सरानयनेति दशाधिकाराः २७९ श्लोकाश्च । अस्य प्रणयनकालस्तु ९८० मितशकाब्दः । वर्षगणद्वारा मध्यमग्नहसाधनमेवास्य वैशिष्ट्यम् ।
ब्रह्मदेवः करणप्रकाशः
सम्पादयतुब्रह्मदेवस्य करणप्रकाशो हि आर्यसिद्धान्तानुगामी करणग्रन्थः । यथोक्तं ग्रन्थकृतैव -
‘नत्वामार्यभटशास्त्रसमं करोमि श्रीब्रह्मदेवगणकः करणप्रकाशम् ।' इति ।
ग्रन्थोऽयं लल्लाहिंतबीजसंस्कारमार्यंसिद्धान्तमंनुयाति इति तद्व्यवहृतः । क्षेपकाज्ज्ञायते । क्षेपकान्यस्य १०१४ शकाब्दसम्बद्धानि । अत्र त्वहर्गणमाध्यमेनैव मध्यमग्रहानयनमुक्तम् । मध्यमस्पष्टपञ्चतारास्पष्टीकरणच्छायाचन्द्रसूर्यग्रहणो. दयास्तशृङ्गोन्नतिग्रहयुतीति नवाधिकारी अत्र सप्रपञ्चं निरूपिताः । अत्र शून्यायनांशवत्वेन ४४५ मितशकाब्दी गृहीतोऽयनांशगतिश्च प्रतिवर्षमेककलामानेन ।
शतानन्दः भास्थल शतानन्दप्रणीता भास्वती वराहसंस्कृतसूर्यसिद्धान्तसम्बद्धकरणग्रन्थः । अस्योपक्रमवर्षः १०२१ मितशकाब्दः । तत्रोक्तम् -
‘अथ प्रवक्ष्ये मिहिरोपदेशात्तत्सूर्यसिद्धान्तसमं समासात् ।' इति ।
अत्रापि मध्यमग्रहसाधनमहर्गणस्थाने वर्षगणद्वारा निरूपितमस्ति । आरम्भश्चात्र स्पष्टमेषसङ्क्रान्तित एव न तु मध्यममेषसङ्क्रान्तितो यथाऽन्यत्र । अत्र क्षेपकग्रहगतीनां गुणकभाजकानि शतांशपद्धत्या . लिखितानि सन्ति । तत्रापि सूर्याचन्द्रमसोर्गतिस्थितिः नक्षत्रात्मिका भौमादिग्रहाणां तु राश्यात्मिकैव । अत्राष्टावधिकाराः तिथिधूवाधिकारो ग्रहधुवाधिकारः स्फुटतिथ्यधिकारः ग्रहस्फुटाधिकारः त्रिप्रश्नाधिकारः चन्द्रग्रहणाधिकारः सूर्यग्रहणाधिकारः परिलेखश्चेति । अत्र शून्यायनांशवर्षः ४५० शकाब्दाः वार्षिकी अयनगतिश्च कलैका । अस्योपरि बलभद्रस्य बालबोधिनी ( १३३० शा० ) अनिरुद्धस्य ( १४१७ शा० ) माधवस्य ( १४४२ शा० ) गङ्गाधरस्य ( १६०७ ) भास्वतीकरणपद्धतिः रामकृष्णस्य तत्त्वप्रकाशिका वृन्दावनस्योदाहरणञ्च केचन श्रुताष्टीकाग्रन्थाः ।
करणोत्तमकरणम्
सम्पादयतुअज्ञातकर्तृकस्य करणोत्तमाख्यग्रन्थस्यवस्थितिह रत्नमालायाः महादेवकृतटीकातो ज्ञायते । अस्य प्रणयनकाल: १०३८ मितशकाब्दो मतः । अत्र हि शून्यायनांशवर्षत्वेन ४३८ मितशकाब्दो गृहीतः अयनांशस्य वार्षिकी कलैका गतिः । असौ आर्यपक्षीयः करणग्रन्थ असीदिति तज्ज्ञा अनुमान्ति ।
महेश्वरः शेखरः
सम्पादयतुमहेश्वरस्य शकानन्तरैकादशशतकपूर्वार्द्धमभितः स्थितिमतः शेखराख्यः करणग्रन्थ आसीत् । ।
सोमेश्वरः
सम्पादयतुसोमेश्वरस्य मानसोल्लासः करणग्रन्थत्वेनापि गृहीतः । अस्यारम्भकालस्तु १०५१ मितशकाब्दो मतः । अत्र हि ग्रहसाधनमहर्गणसाधनेन निदिष्टम् ।
माधवः
सम्पादयतुएवञ्च माधवप्रणीतः सिद्धान्तशिरोमणिः सम्प्रति दुर्लभोऽपि भास्कराचार्यसाक्ष्येन स्मर्यंते । एवमेव तत्साक्ष्येणैव ब्रह्मदेवप्रणीतं बीजगणितं विष्णुदैवज्ञ• अणीतं बीजगणितञ्च स्मर्यते नाममात्रतः ।।
भास्कराचार्यस्य सिद्धान्तशिरोमणिः
सम्पादयतुततश्चोदेति भास्कराचार्यों ज्योतिषभास्करः । तस्य हि सिद्धान्तशिरोमणिनामकः सिद्धान्तग्रन्थः करणकुतूहलसंज्ञकः करणग्रन्थश्च सर्वानपि अतिशय्य ज्योतिषजगति स्वविजयपताकामुल्लासयन्तः स्तो नवशतवर्षेभ्यः । भास्कराचार्यः १०३६ मितशकाब्दे समुत्पन्न इति तस्यैव -
‘रसगुणपूर्णमही ( १०३६ ) समशकनृपसमयेऽभवन्मयोत्पत्तिः ।
रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचिता ।'[२७]
इति कथनाज्ज्ञायते । अनेन सिद्धान्तशिरोमणेः प्रणयनकालः १०७२ मितशकाब्द इत्यपि ज्ञायते । तस्य करणग्रन्थश्च ११०५ समशकाब्दे प्रणीत इति तदारम्भवर्षाज्ज्ञायते ।
महादेवीसारिणी
सम्पादयतुमहादेवीसारिणी या महादेवकृता ग्रहसिद्धिज्रह्मसिद्धान्तपक्षीयः करणग्रन्थः । सन्त्यत्र ४३ श्लोकाः । केवलमत्र मध्यमस्पष्टग्रहसाधनविधिरेव निदिष्टः । अत्र क्षेपकानि मध्यममेषसङ्क्रान्तिकालीनानि । अत्र मध्यमग्रहसाधनं हि वर्षगणतः कृतमस्ति ।।
बोपदेवात्मजस्य महादेवस्य ब्राह्मार्योभयपक्षसाधकं कामधेनुकरणं प्रसिद्धमस्ति । अस्य प्रणयनकाल: १२८९ मितशकाब्दः । सन्त्यत्र पञ्चत्रिशच्छ्लोकाः । अत्रोक्तं यद् द्वाविंशन्तिकोष्ठकपटेन तिथिसिद्धिर्भवतीति ।
यन्त्ररत्नावली
सम्पादयतुएवमेव पद्मनाभस्य यत्नरत्नावली ( १३२० शा० ) दामोदरस्य भटतुल्यं करणम् (१३३९ शा० ), गङ्गाधरस्य सूर्यसिद्धान्तानुसारी चान्द्रमानं ( १३५६ शा०) च सश्रद्धं स्मर्यन्ते ।
मकरन्दः
सम्पादयतुमकरन्दस्य पञ्चाङ्गसाधकः सूर्यसिद्धान्तानुसारी ग्रन्थः १४०० मितशकाब्दमभितः प्रणीतः । तत्रोक्तम् ।
'श्रीसूर्यसिद्धान्तमतेन सम्यग्विश्वोपकाराय गुरुप्रसादात् ।
तिथ्यादिपत्रं वितनोति काश्यामानन्दकन्दो मकरन्दनामा ॥' इति ।
अस्य हि दिवाकरेण १५४० मितशकाब्दमभितः मकरन्दविवरणनाम्नी टीका प्रणीतास्ति ।
केशवः ग्रहकौतुकम् केशवस्य ग्रहकौतुक करणं ज्योतिषशास्त्रेतिहासे स्वकीयं वैशिष्टयमावहति । इदं हि १४१८' मितशकाब्दे प्रणीतमिति तदात्रारम्भवतो ज्ञायते । सं हि कमलाख्यज्योतिर्विदः पुत्रो नन्दिंग्रामवास्तव्य आसीत् । स हि सफलो वेधकश्वासीत् । करणस्यास्य स्वोपज्ञटीकायां स कथयति -
ब्राह्मार्यभटसौराद्येषु'"""ग्रहकरणेषु बुधशुक्रयोर्महदन्तरमक्कतया दृश्यते । मन्दे आकाशे नक्षत्रग्रहयोगे उदयेऽस्ते च पञ्चभागा अधिकाः प्रत्यक्षमन्तरं दृश्यते ।"""एवं क्षेप्येष्वन्तरं वर्षभोगेष्वपि अन्तरमस्ति । एवं बहुकाले बह्वन्तरं भविष्यति ।' इति ।
स हि भाविनो गणकान् सन्दिशति -
‘एवं बह्वन्तरं भविष्यैः सुगणकैर्नक्षत्रयोगग्रहयोगोदयास्तादिभिर्वर्तमानघटनामवलोक्य न्यूनाधिकभगणाचैग्रहगणितानि कार्याणि । यद्वा तत्कालक्षेपकवर्षभोगान् प्रकल्प्य लघुकरणानि कार्याणि ।. स्वचेष्टितं विज्ञापयति–एवं मया परमफलस्थाने चन्द्रग्रहणतिथ्यन्ताद्विलोमविधिना मध्यश्चन्दो ज्ञातस्तत्र फलह्रासयभावातु । केन्द्रगोलादिस्थाने ग्रहणतिथ्यन्ताद्विलोमविधिना चन्द्रोच्चमाकलितं तत्र फलस्य परमहासवृद्धित्वात् । तत्र चन्द्रः सूर्यपक्षात्पञ्चकलीनो दृष्टः । उच्च ब्रह्मपक्षाश्रितम् । सूर्यः सर्वपक्षेऽपीषदन्तरः स सौरो गृहीतः । अन्ये ग्रह नक्षत्रग्रहयोग-ग्रहयोगास्तोदयादिभिर्वर्तमानघटनामवलोक्य साधिताः ।
स्वबेधस्य परिणाममाह -
‘तत्रेदानीं भौमेज्यौ ब्राह्मपक्षाश्रितो घटतः । ब्राह्मो बुधः । ब्राह्मार्यमध्ये शुक्रः । शनिः पक्षत्रयात्पञ्चभागाधिको दृष्टः । एवं वर्तमानघटनामवलोक्य लघुकर्मणाऽहर्गणितं कृतम् ।' इति ।
केशवस्य हि जातकपद्धतिः ताजिकपद्धतिः मुहूर्ततत्त्वञ्च प्रसिद्धा ग्रन्थाः । ग्रहकौतुक इव जातकपद्धतावप्यस्य स्वोपज्ञा टीका लभ्यते । एवमेवास्य वर्षग्रहसिद्धिः तिथिसिद्धिः ग्रहचालनगणितदीपिका आचारपद्धतिः कुण्डाष्टलक्षणञ्च श्रुता ग्रन्थाः ।
केशवो हि महान् गणक आसीत् । नापि आर्यभटब्रह्मगुप्ताभ्यां तुलना सम्भवेत्किन्त्वान्येभ्यस्तस्य श्रेठ्यं न कोऽपि तिरोधातुं प्रभवति ।
गणेशः ग्रहलाघवम्
सम्पादयतुगणेशदैवज्ञस्य ग्रहलाघवं करणं लोकप्रियो बहुप्रयुक्तश्च ग्रन्थः । गणेशो हि केशवदैवज्ञसुतः । गणेशस्य सन्त्यन्येऽपि दशाधिका ग्रन्थाः, परं तेषां ग्रहलाघवं हि सर्वातिशायि । गणेशो हि शास्त्रज्ञो बेधकृच्चासीत् । तस्य हि करणग्रन्थे प्रयासो लाघवायैव न तु ज्ञानमदेन । यथा स एवाह'यद्यप्यकार्षरुरवः करणानि धीरास्तेषु ज्यकाधनूरपास्य न सिद्धिरस्मात । ज्याचापकर्मरहितं सुलघुप्रकारं कर्तुं ग्रहप्रकरणं स्फुटमुद्यतोऽस्मि ।'[२८] इति ।
अस्योपक्रमवर्षः १४४२ मितशकाब्दसमः । ग्रहाणां दृक्तुल्यतायै स संयोगवियोगराशिमपि सन्दिशति । ज्याचापसम्बन्धं विनैव ग्रहानयनं सूक्ष्मतररीत्या एकादशवर्षान्तर्गताहर्गणचक्रमानेन ध्रुवाङ्केन (४०१६ ) मध्यमग्रहानयनं मानसंयोजनाय संयोगवियोगराशिनिर्देशश्च गणेशस्य वैशिष्ट्येषु समुल्लेखनीयः पक्षः । ग्रहलाघवे हि मध्यमस्पष्टपञ्चतारात्रिप्रश्नचन्द्र सूर्यग्रहणमासग्रहणस्थूलग्रह: साधनोदयास्तछायानक्षत्रच्छायाशृङ्गोन्नतिग्रहयुतिमहापाताख्याः सन्ति चतुर्दशाधिकाराः । केचित्पञ्चाङ्गग्रहणाधिकारमपि पञ्चदशाधिकारत्वेन संयोजयन्ति तत्र । ग्रहलाघवस्य गङ्गाधरकृती ( १५०८ शा० ) मल्लारिकृती ( १५२४ शा० ) विश्वनाथकृती ( १५३४ शा० ) सीतारामकृता च टीकाः प्रसिद्धाः ।
ज्ञानराजः सिद्धान्तशेखरः
सम्पादयतुज्ञानराजेन हि वर्तमानसूर्यसिद्धान्तानुसारी सिद्धान्तसुन्दराख्यः सिद्धान्त-ग्रन्थः प्रणीतः । अत्र क्षेपकादि १४२५ मितशकाब्दस्य दत्तमित्ययमेव कालोऽस्य प्रणयनस्य । ग्रन्थेऽस्मिन् न हि किञ्चिद्वैशिष्टयं ग्रन्थान्तरापेक्षया । सामयिकबीजसंस्काराधानमेवास्य वैशिष्ट्यम् ।
नृसिंहः
सम्पादयतुशकानन्तरं १४८०मितवषण्यभितः स्थितिमता नृसिंहेन महादेवस्य ग्रहसिद्धिमाश्रित्य मध्यमग्रह सिद्धिः प्रणीतः ।
रघुनाथः सुधामञ्जरी
सम्पादयतुरघुनाथस्य सुधामञ्जरी ब्राह्मपक्षीयः करणग्रन्थः । अस्यारम्भंवर्षः १४८४. मितशकाब्दसमः । सोमभट्टात्मजस्य रघुनाथस्यापि मणिप्रदीपः सूर्यसिद्धान्तानुसारी करणग्रन्थः । दिनकरस्य खेटकसिद्धिः चन्द्राकौं च राजमृगाङ्कानुगामिनी ग्रन्थौ । रामभटस्य रामविनोदः (१५१२ शा० ) वर्तमानसूर्यसिद्धान्तानुसार करणम् । मुहूर्तचिन्तामणिरस्यातीव लोकप्रियो ग्रन्थः । श्रीनाथस्य ‘ग्रहचिन्तामणिः' ( सम्भवतः ) ब्राह्मसिद्धान्तीयकरणग्रन्थः । अत्र वर्षगणमाध्यमेन ग्रहानंयनं निर्दिष्टम् । विष्णुनाम्नो गणकस्य करणग्रन्थः सौरपक्षीयः । मल्लारेः १५४७ मितशकाब्दे ग्रहलाघवस्य सयुक्तिकोपपत्तिः प्रसिद्धाः। विश्वनाथो हि । भट्टोत्पल इव महांष्टीकाकारः । तेन हि सिद्धान्तशिरोमणिप्रभृत्यष्टादशाधिकग्रन्थेषु टीकाग्रन्थाः प्रणीताः । नृसिंहस्य (१५०८ शा० ) सौरभाष्यं वासनावातकञ्च प्रसिद्ध ग्रन्थौ।।
रङ्गनाथस्य सूर्यसिद्धान्तस्य गूढार्थप्रकाशिका टीका प्रसिद्धाः । सा १५२५ मितशकाब्दे प्रणीता । टीकायमस्यां सर्वत्रोपपत्तयो निहिताः ।
नागेशः ग्रहप्रबोधः
सम्पादयतुनागेशाख्यस्य ग्रहप्रबोधः ग्रहलांघवानुसारीः करणग्रन्थः । अस्यारम्भवर्षः १५४१ भितशकाब्दसमः । केवलं ग्रहस्पष्टाधिकारः एवात्र वर्णितः। अस्य हि यादवप्रणीतमुदाहरणं लभ्यते ।::.: ::. :::.::.. ।
मुनीश्वरः सिद्धान्तसार्वभौमः
सम्पादयतुसिद्धान्तसार्वभौमो हि १५५८ मितेशकाब्दमभितो मुनीश्वरेण प्रणीतः सिद्धान्तग्रन्थः । तेन हि लीलावत्या निसृष्टदूत्याख्या गणितगोलाध्याययोः भास्करीययोर्मरीव्याख्या टीकोऽपि प्रणीता। पाटीसारश्च तस्य ग्रन्थः । अनेन स्वग्रन्थस्य टीकाऽपि प्रणीता १८७२ मितशकाब्दे । ग्रन्थोऽयं चापीयक्षेत्रपञ्चरहितः क्षेत्रसजातीयविचाररहितश्चेति न बक्कादृत्तः । अस्यैव नामान्तरं विश्वरूप इति ।
दिवाकरः मकरन्दविवरणम्
सम्पादयतुदिवाकरेण, विदुषा मकरन्दस्य मकरन्दविवरणाख्यटीका प्रणीता । स हि १५२८ मितशकाब्दभवः । तेन हि पद्मज्ञातकमपि १५४७ शकाब्दे प्रणीतम् ।
कमलाकरः सिद्धान्ततत्त्वविवेकः
सम्पादयतुकमलाकरस्य सिद्धान्ततत्त्वविवेको हि बहुचर्चितो ग्रन्थः । १५८० मितशकाब्दे प्रणीतः सर्वाङ्गपूर्ण ग्रन्थेऽस्मिन् सर्वेऽपि ज्योतिषविषयाः सप्रपञ्चे निरूपिताः । ग्रन्थोऽयं सर्वथा सौरसिद्धान्तमालिङ्गति । ग्रन्थप्रयोजनं यथोक्तं तत्र
'अस्ति चाद्यमपरम्परयाऽनैनशितं सदपि सौरमतं तत् । ।
तत्कृतेरनवबोधत एवे'••••••••• ••••••••• ॥
सदगोलवासनाबाह्यः करणग्रन्थियुक्तितः । ।
सुस्थूलव्यवहारार्थं त्वाचार्यत्वप्रसिद्धये ।।
वस्तुतत्त्वमबुद्धवैवस्वार्षीः साकं विरोधतः ।
बहुभिर्बहुधा पूर्वं सिद्धान्ताः स्वधिया कृताः ॥ इत्यादि । ।
सम्भवतः तथाकथनेनायं मुनीश्वरं सिद्धान्तसार्वभौमस्य स्वसमानकालमपि समाक्षिपति । मुनीश्वरो हि देवरातगोत्रो वैदर्भो ब्राह्मणः शुक्लयजुर्वेदाध्यायी, यदा कमलाकरस्तु भारद्वाजगोत्रो महाराष्ट्रियस्तैत्तिरीयशाखाध्यायी। श्रूयते हि तयोः परम्परागत एव विरोध आसीत् । सम्भवति तेनैव कमलाकरो भास्कराचार्यस्य उदयान्तरसंस्कारमपि दूषयति ।
कमलाकरो हि न केवलं सूर्य सिद्धान्तस्याधिवक्ताऽपितु महानन्वेषकश्च । तस्य हि सन्ति कतिपयानि वैशिष्टयान्यपि यैः स श्रद्धीयते सर्वैः । सम्पातस्य गंतिमत्त्वेन ध्रुवनक्षत्रस्यास्थिरत्वं साम्प्रतिक दृश्यमानध्रुवस्य ध्रुवस्थानात्किञ्चिदपसरणं पूर्वोत्तररात्र्योस्तस्य स्थानवैभिन्यं चास्याविष्कारेषुल्लेखनीयविषयाः । अनेन तुरीयमन्त्रेण वेधस्य विस्तृतो विधिनिर्दिष्टः, त्रिप्रश्नाधिकारे ग्रहणाधिकारे च अनेका नवीना रीतयो निर्दिष्टाः, मेघभूकम्पोल्कापातकरकादीनां कारणान्यपि निर्दिष्टानि, कामं नैव पूर्णतः सत्यानि तथापि नैव नितान्तमेव वितथ्यानि । अनेन गणितेऽपि सरलो विधिनिर्दिष्टः । ३४३८ त्रिज्यास्थाने ६० त्रिज्या कल्पिता । ग्रहभोगेन विषुवांशानयनसारिण्यपि प्रणीताऽनेन ।
असौ हि मकरन्दविवरणस्य कर्तुंदिवाकरस्य भ्राता शिष्यश्च, वासनावातकस्य कर्तुनृसिंहस्य पुत्रः ।।
रङ्गनाथः
सम्पादयतुकमलाकरस्य कनिष्ठो भ्राता रङ्गनाथः १५३४ मितशकाब्दमभितो जातः ।
अनेन १५६५ मितशकाब्दमभितः सिद्धान्तचूडामणिसंज्ञककरणग्रन्थः प्रणीतः । भङ्गीविभङ्गी लोहगोलखण्डनं पलभाखण्डनञ्चेति त्रयोऽस्य मुनीश्वरकृतसिद्धान्तसार्वभौमखण्डनपरकलघुग्रन्थाः । सिद्धान्तचूडामणिहि करणग्रन्थः सिद्धान्ततत्त्वविवेकपक्षधरः । सन्त्यत्र मध्यमाधिकारादिद्वादशाधिकाराः । स्पष्टाधिकारे मन्दशीघ्रफलसाधनायाधिकखण्डकल्पनाऽस्य वैशिष्टयम् । अन्यत् सर्वं पूर्वग्रन्थेभ्यः समानमेव । ग्रन्थोऽयं सारस्वतसुषमायां भागशः प्रकाशितो दृश्यते। हिम्मतरामात्मजमीठालालशास्त्रिसम्पादितः । मुनीश्वरप्रोक्तलोहगोलस्य रङ्गनाथेन खण्डनं कृतं गदाधरेण तन्मण्डनञ्च ।
खण्डनं यथा -
'अगणितगणितज्ञसार्वभौमं सकलगुरुं कमलाकरं प्रणम्य ।।
कृतमवरमुनीश्वरेण गोलं तमहमपाकरवाणि लोहजातम् ॥ १॥
मण्डनं यथा -
‘ध्यानासक्तमुनीश्वरस्य नियम छेत्तुं नृसिंहार्भक
स्वायान्तं नियतं विलोक्य तमपाकर्तुं सुधीरुद्यतः ॥'
भङ्गीविभङ्गीकरणस्योपक्रमो यथा--
‘दिवाकरादीनभिवन्द्य बन्धुं वन्द्यं गुरु श्रीकमलाकरञ्च ।
मुनीश्वरस्याननभञ्जनार्थं भङ्गीविभङ्गीकरणोद्यतोऽस्मि’ ॥ १ ॥
पलभागखण्डनं यथा---
'अभिन्नकालोदितधिष्ण्यदेशपलांशसंसाधनमभ्यधायि ।
अखर्वगर्वेश मुनीश्वरेण तत्खण्डनं चारुतरं करोमि ॥ १ ॥ इति ।
नित्यानन्दः सर्वसिद्धान्तराजः
सम्पादयतु१५६१ मितशकाब्दे नित्यानन्देन 'सर्वसिद्धान्तराजः' प्रणीतः । ग्रन्थेऽस्मिन् प्राधान्येन द्वावेवाधिकारी गणिताध्यायौ गोलाध्यायश्च । तयोराद्ये मीमांसामध्यमस्पष्टत्रिप्रश्नचन्द्र सूर्यग्रहणशृङ्गोन्नतिभग्रहयुतिछायाख्याः नवैवाधिकाराः, द्वितीये भुवनकोषगोलबन्धयन्त्राधिकाराश्च निरूपिताः । सत्स्वपि सर्वेष्वेव विषयेषु समानेषु सावनमानमस्य वैशिष्ट्यम् । मीमांसाधिकारे एव स स्पष्ट कथयति यत्सावनमानमेव मुख्यं देवर्षिसम्मतञ्च । सिद्धान्तोऽयं कल्पारम्भात् सृष्टद्युत्पत्तिपर्यन्तं ९०४१० वर्षाणि गणयति । एतदनुसारेण सूक्ष्मसायनवर्षमानं हि १५६१ मितशकाब्दे ३६५॥१४॥३१॥५३॥४२ । तेन ग्रहेषु बीजसंस्कारोऽप्याधापितः । स्पष्टमेव यदेतत्सम्मतं मानं हि प्रचलितमानाद्भिन्नमेव । से स्वयमेव कथयति---
‘दृष्ट्वा रोमकसिद्धान्तं सौरञ्च ब्रह्मगुप्तकम् ।
पृथक् स्पष्टान् ग्रहान् ज्ञात्वा सिद्धान्तं निर्ममे स्फुटम् ॥' इति ।
कृष्णः करणकौस्तुभः
सम्पादयतुमहादेवात्मजेन कृष्णाख्येन १५७५ मितशकाब्दे करणकौस्तुभसंज्ञकः करणग्रन्थः प्रणीतः । ग्रन्थोऽयं ग्रहकौतुकं ग्रहलाघवञ्चानुसरति प्रणमति च केशवाचार्यम् । ग्रन्थेऽस्मिन् मध्यमग्रहसाधनं वर्षगणैः कृतमस्ति । एतद्धि ४५० मितशकाब्दं. शून्यायनांशं मन्यते अयनांशस्य वाषिक गतिञ्च ६० विपलामिताम् । ग्रहलाघवविपरीतमेव ज्याचापस्योपयोगः कृतः । तस्य तन्त्ररत्नमपि प्रसिद्धो ग्रन्थः । तस्यायमादिमः श्लोकः -
‘प्रकुरु तत्करणं ग्रहसिद्धये सुगमदृग्गणितैक्यविधायि यत्
इति नृपेन्द्रशिवाभिधनोदितः प्रकुरुते कृतिकृष्णविधिज्ञराट् ॥' इति ।
रेत्नकण्ठः पञ्चाङ्गकौतुकम्
सम्पादयतुरत्नकण्ठेन १५८० मितशकाब्दे पञ्चाङ्गकौतुकं नाम खण्डखाद्यानुसारी • पञ्चाङ्गसारिणी ग्रन्थः प्रणीतः । कथ्यते ह्यस्य प्रयोगेण द्वाभ्यामेव दिनाभ्यां पञ्चाङ्ग निर्मातुं शक्यते ।।
विहणाख्येन गणकेन वार्षिकतन्त्राख्यों ग्रन्थः प्रणीतः । अस्य प्रणयनकालो नाधुनापि ज्ञातः । ग्रन्थोऽयं सूर्यसिद्धान्तानुसारी । अत्रत्यं वर्षमानं ग्रहभगणादि च वर्तमानसूर्यसिद्धान्तसंवादि । तत्र बीजसंस्कार आहितः । मकरन्दे हि बीजसंस्कार ऋणात्मको यदाऽत्र धनात्मकः । आद्ये भौमे बीज़संस्कारो नैव दत्तः, किन्त्वत्र २३ भगणा धनत्वेन संयोजिताः । अत्र हि टीकैकाऽपि लभ्यते कस्यचित् । शङ्करबालकृष्णानुसारेण ग्रन्थोऽयं शकानन्तरचतुर्दशशतकादनन्तरवर्येव । अस्यैव ग्रहणमुकुराख्यो ग्रन्थोऽपि स्मर्यते ।
जटाधरः फतेशाहप्रकाशः
सम्पादयतुजटाधराख्येन गणकेन १६२७ मितशकाब्दे गढवालशासकस्य फत्तेशाहस्याज्ञया फत्तेशाहप्रकाशाख्यः करणग्रन्थः प्रणीतः । अस्य हि करणारम्भवर्षः १६२६ मितशकाब्दसमः । ग्रन्थोऽयं ग्रन्थान्तरसदृश एव ।
दादाभदः
सम्पादयतु१६४१ मितशकाब्दमभितः स्थितिमंता दादाभटेन सूर्यसिद्धान्तस्य किरणावली टीका प्रणीता।
जयसिंहः जगन्नाथश्च सियान्तसम्राट्
सम्पादयतुमत्स्यदेशाधिपतेर्जयसिंहस्याविर्भावो ज्योतिषशास्त्रे सुमहदवसरः । तेन हि दृक्तुल्यग्रहानयनाय वेधः कारितः । काश्यादिविविधस्थलेषु तेन वेधशाला अपि निर्मापिताः, नवीनानि दृढानि च वेधयन्त्राणि कारितानि । तस्य सभायां बहवो ज्योतिषिकाः कार्यरता आसन, वैषु जगन्नाथपण्डितनयनसुखोपाध्यायौ नाम्नाऽपि गृह्येते । तेन हि वेधमाश्रित्य सिद्धान्तसम्राट' संज्ञको ग्रन्थराजः १६५३ मितशकवर्षे जगन्नाथपण्डितेन लेखापितः । ग्रन्थोऽयं सुविस्तृतः । तत्रोपक्रमे द्वाभ्यामध्यायाभ्यां खगोलभूगोले वणिते स्तः सामान्यतः । प्रथमाध्याये चतुर्दश प्रकरणानि षोडश क्षेत्राणि द्वितीयाध्याये त्रयोदशप्रकरणानि पञ्चविंशतिक्षेत्राणि च सन्ति । एतदतिरिक्तमपि यन्त्र-ज्याचापादिरेखागणितसाध्यत्रिप्रश्न-मध्यम-स्पष्टाध्यायी अपि सप्रपञ्चं निरूपिताः । अत्र सायनं वर्षमानं गृहीतमस्ति यत्र अयनांशवाषकगतिः ५१.४ मता । सिद्धान्तपक्षे ग्रन्थोऽयं सबीजसंस्कारं सूर्यसिद्धान्तमनुसरति । जयसिंहस्याज्ञया नयनसुखोपाध्यायेन कटराख्यग्रन्थः प्रणीतो यत्र सन्ति त्रयोऽध्यायाः एकोनषष्टिक्षेत्राणि च । अनेन 'जिजमहम्मद' संज्ञकोऽपि ग्रन्थः अरबीभाषायां लेखापितः । जयसिंहपद्धत्या ग्रहाणां सूक्ष्मतमगतिज्ञतुं शक्यते । सिद्धान्तसम्राजः प्रारम्भे कथितमस्ति--
‘राजाधिराज जयदेवसिंहः श्रीमत्स्यदेशाधिपतिश्च सम्राट् ।
श्रीरामपादाम्बुजदत्तचित्तो यज्वा सदा दानपरः सुशीलः ।।
गोलादियन्त्रेषु नवीनयुक्तिप्रचारदक्षो गणितागमज्ञः ।
सत्यप्रियः सत्यरतः कृपालुस्तिग्मप्रताप जयति क्षमायाम् ।।
स धर्मपालो गणितप्रवीणान् ज्योतिर्विदो गोलविचारदक्षान् ।
कारूस्तथाहूय चकार वेधं गोलादियन्त्रद्युसदाञ्च भानाम् ।।
ग्रन्थं सिद्धान्तसम्राजं सम्राट् रचयति स्फुटम् ।
तुष्टचै श्रीजयसिंहस्य जगन्नाथाह्वयः कृती ॥
अरबीभाषया ग्रन्थो मिजास्तीनामकः स्थितः ।
गणकानां सुबोधाय गीर्वाण्या प्रकटीकृतः ॥ इति ।
ग्रन्थोऽयं जगन्नाथस्यादेशेन लोकमणिनाम्ना लेखकेन १६४९ शकाब्दे लिखितमासीदिति -
‘युगवसुनगभूवर्षे शुचिशुक्ले युगतिथौ रवेवरे।।
व्यलिखल्लोकमणिः किल सम्राजामाज्ञया पुस्तम् । ।
रेखागणितावसानवद्याज्ज्ञायते । जगन्नाथो हि दक्षिणप्रदेशाज्जयसिंहेन स्वपुरमानीय ससम्मानं रक्षितः । स हि १५७४ मितशकाब्दे जात आसीत् । लोकमणिहि तस्य शिष्यः सम्भवति । | जयसिंहेनः हि गणितागतग्रहवास्तवग्रहयोरैक्यसाधनार्थं वेधेन गणितोपकरणानां शुद्धि विधातुं जयपुरे वाराणस्यां मथुरायामिन्द्रप्रस्थे उज्जयिन्याञ्च वेधशालाः स्थापिताः । वेधेन गणितोपकरणानामपि शोधनमेषां मुख्य प्रयोजनमासीत् । तत्र संस्थापितानि यन्त्राणि कानिचित्प्रतिसंस्कृतानि कानिचित्तू नूतनीन्यप्यासन् । यन्त्ररचनायामारबीयज्योतिषिकयन्त्राणां तद्विदांचे साहाय्यमासीदिति तु सत्यमेव किन्तु न हि यन्त्राणि आरवीयप्रतिकृतय एव न तु सिद्धान्तसम्राडेव मिजास्त्या अनुवादमात्रम् । तत्र तत्र तत्तत्प्रभावस्तु स्वयं ग्रन्थप्रणेत्राऽपि स्वीकृत एव । यथोक्तम् -
‘एवं सत्यपि व्यवहारार्थं प्राचीनोक्ता मध्यमक्रिया कथ्यते । अथ च तेषु बीजं दत्त्वा फलसंस्कारेण यथा दृक्तुल्यतां यान्ति तथाऽत्र ग्रहाः साधिताः' । इति।
तेन ये खलु जयसिंहप्रयत्नमारवीयानुकृतिमात्रं कथयन्ति, यथा जी० आर० के० महोदयाः; ते भ्रान्ता एव । वेधालयस्य प्रयोजनं यथोक्तं तत्र -
‘यदा इन्द्रप्रस्थेऽभ्रं जातं तस्मिन् दिने सवाईजयपुरे वेधो दृष्टः । सवाईजयपुरे.यदा अभ्रादिकं जातं तस्मिन् दिने इन्द्रप्रस्थे वेधः कृतो दृष्टश्च । एवमवन्त्यां मथुरायां काश्याञ्च सर्वत्र निश्चयः कृतः । एवम्प्रकारैर्ग्रहशोधने देशाधिपेन राज्ञा देशे-देशे यन्त्ररचनां कृत्वा निश्चयः कार्य' इति ।
जयसिंहेन न केवलं स्वदेश एवापितु दूरवतिदेशेष्वपि तज्ज्ञान् सम्प्रेष्य तत्रत्यावस्था अपि ज्ञानविषयीकृता आसन् । यथोक्तं सिद्धान्तसम्राजि
‘अन्यच्च फिरङ्गदेशे श्रीमहाराजाधिराजैर्महम्मदसरीफनामा यवनः प्रेषितः स्थितः । तेन महेलदेवद्वीप ( सम्भवति साम्प्रतिक मालदीप एव ) अक्षांशा ४।१२ निश्चिताः। ते दक्षिणाः । दक्षिणदेशे यत्राग्रे दक्षिणध्रुव उन्नतो दृष्टः तत्रत्यानां तारकाणामाकृतीर्दृष्ट्वा शुद्धाः कृत्वा आनीताः । इति ।
सम्प्रंत्यपि काश्यां दशाश्वमेधघट्टसमीपस्थमानमन्दिरपरिसरे स्थिता मृतप्राया वेधशाला जयसिहंस्य यशः उच्चैर्गायत्येव । तत्रत्यः यन्त्रादिविषये सारस्वतसुषमायाः चतुर्दशवर्षीयतृतीयेऽङ्के विभूतिभूषणभट्टाचार्यस्य काशीस्थमानमन्दिरवेधालयीययन्त्राणि' इति लेखो द्रष्टव्यः । सत्यमेव कथितं शङ्करबालकृष्णमहोदयेन यज्जयसिंहस्य वेधशाला-वेधपरिणाम-यन्त्र-ग्रन्थानां विस्तृतवर्णने एकः पृथगेव ग्रन्थः सम्पद्यत इति । दुर्भाग्यमिदमस्माकं यज्जयसिंहस्य सिद्धान्तदृक्प्रत्ययसमन्वयप्रयासस्तेनैव सहास्तङ्गतः । सम्प्रति जयपुरे एव सिद्धान्तसम्राट् नैव लभ्यते वेधशालायां मूषकाः क्रीडन्ति इति को वार्ताऽन्यत्रावस्थितेः । सिद्धान्तसम्राजा सायनग्रहः साधिताः सामयिकग्रहसाधनमपि कृतम्, किन्तु सम्प्रत्यपि पञ्चाङ्गेषु उत्तराषाढाया द्वितीयपादे एव रवेरुदगयनं लिख्यते, यद्धि वराहमिहिरसमये आसीत् । यद्यपि श्रीकृष्णमिश्रः स्पष्टमेव पूर्वाषाढायां रवौ उत्तरायणारम्भ निर्दिशति ( सा० सु० २००७ पृ० ३७ ) तथापि पञ्चाङ्गे .. न कोऽपि सुधारो दृश्यते । संशोधनमिदमादाय रधुनाथेनाजीवनं प्रयतितं किन्तु न कोऽपि परिणामो दृष्टः । सिद्धान्तसम्राजि अयनांशचलनस्य वार्षिकी गतिः ५१:४ विकला निर्दिष्टा तथापि सा प्रायः ५०.२ एव स्वीक्रियते । सिद्धान्तातिशयभक्तित एव सर्वत्र भ्रमः सम्भवति । वस्तुतस्तु सर्वमेवेदं जगत् कामं यथा प्रकृति गतिगतिभिद्यते । यत्र विन्दौ वराहमिहिरकाले वर्षस्य प्रथमः सूर्योदयो निश्चयमेव साम्प्रतिककाले न तत्रैवापितु किञ्चिदपसृत्यैव । 'सत्यमेवाह ब्रह्मगुप्तः -
'यदि भिन्नाः सिद्धान्ताः भास्करसङ्क्रान्तयोऽपि भेदसमाः ।
सः स्पष्टः पूर्वस्यां विषुवत्यर्कोदयो यस्य ।।'[२९]
आशास्महे कदाचित्तु सोऽपि समय आगमिष्यति यदा भारतीयविपश्चितोऽपि सिद्धान्तभक्तिमपहाय याथार्थ्यतो वास्तविकस्थिति स्वीकरिष्यन्तीति । शैव जीवनसखी ।
शङ्करस्य करणग्रन्थः
सम्पादयतुवसिष्ठगोत्रीयेण शङ्करेण विष्णुगुप्तमतानुसारी करणग्रन्थः १६८८ मितशकाब्दे प्रणीतः । अत्र हि ३०० श्लोकाः । ग्रन्थोऽयं भूयो भूयो भास्करमनुयाति । अस्य शून्यायनांशवर्षः ४४५ मितशकाब्दसमः । ख्यापितेऽपि ग्रहाणां दृक्तुल्यत्वे नास्त्यत्र किमपि नूतनं वैशिष्टयमत्र ।
मणिरामः
सम्पादयतुमणिरामाख्येन भारद्वाजगोत्रीयेण विपश्चिता १६९६ मितशकाब्दे अहगणितचिन्तामणिः प्रणीतः । ग्रन्थोऽयं ग्रहलाघववत् एकादशवर्षीयं चक्रं मन्यते । अत्र हि मध्यमग्रहेषु रेखान्तरसंस्कारो भुजान्तरचरयोः संस्कारश्च सर्वेषाम् । अत्र सूर्यसिद्धान्तानुसारेणायनांशाः ग्रहस्पष्टीकरणञ्च ग्रहलाघवानुसारेण । तत्र केवलं मन्दशीघ्राह्रा एव क्वचिद्भिन्नाः। तत्र मध्यम-रविचन्द्रस्पष्टीकरण-ग्रहस्पष्टीकरण-लग्नादिसाधन-चन्द्रग्रहण-सूर्यग्रहण-परिलेख-चन्द्रदर्शन-नलिका-बन्धादिशृङ्गोन्नति-उदयास्त-पातादिद्वादशाधिकाराः सन्ति ।।
ब्रह्मसिद्धान्तसारः
सम्पादयतुभुलाऽऽख्येन केनचिद्विदुषा १७०३ मितशकाब्दे ब्रह्मसिद्धान्तसाराख्यो ग्रन्थः प्रणीतः । सन्त्यत्र द्वादशाधिकाराः । अस्योपक्रमवर्षश्च १७०३ मितशकाब्दसमः । प्रथमाधिकारो हि सिद्धान्तशिरोमणेः सारसङ्क्षेप एव । अत्र ग्रहसाधनमहर्गणैः सम्पादितमस्ति । ग्रन्थोऽयं पद्धत्यर्थं ग्रहलाघवसंवादी ।
मथुरानाथः यन्त्रराजघटना
सम्पादयतुमथुरानाथेन १७०४ शकाब्दमभितः यन्त्रराजघटना करणग्रन्थः प्रणीतः । अन्वर्थनामा ग्रन्थोऽयं वेधार्थयन्त्रनिर्माणप्रयोगञ्चानुशास्ति । अनेनैव ज्योतिषसिद्धान्तसाराख्यग्रन्थोऽपि प्रणीतः । सन्त्यत्र ह्यष्टावध्यायाः ।
चिन्तामणिः गोलानन्दः
सम्पादयतुचिन्तामणिदीक्षितेन १७१३ शकाब्दे गोलानन्दाख्यो वेधयन्त्रविषयको ग्रन्थः प्रणीतः । अस्य यज्ञेश्वरप्रणीता टीकाऽपि लभ्यते । अनेन सूर्यसिद्धान्तसारिणी च प्रणीता ।
राघवः खेटकृतिः
सम्पादयतुपुण्यस्तम्भवास्तव्येन राघवाख्येन विदुषा १७३२ शकाब्दे खेटकृतिनमकः करणग्रन्थः प्रणीतः । ग्रन्थोऽयं ग्रहलाघवसंवादी । अत्र क्षेपकसंयोगवियोगादिना तिथ्यानयनविधिनिर्दिष्टा । अत्र मध्यमग्रहसाधनं वर्षगणैः कृतम् । अत्र केवलं मध्यमग्रहाधिकार एव निरूपितः । अनेन १७३९ मितशकाब्दे पञ्चाङ्गार्कः प्रणीतः । अस्यैव १७४० मितशकाब्दे प्रणीता पद्धतिचन्द्रिकाऽपि लभ्यते ।
शिवः तिथिपारिजातः
सम्पादयतुमहादेवाख्यसुतेन शिवाऽऽख्येन विदुषा १७३७ मितशकाब्दे तिथिपारिजातः प्रणीतः । ग्रन्थोऽयं ग्रहलाघवसंवादी ।
दिनकरः ग्रहविज्ञानसारिणी
सम्पादयतुदिनकराख्येन विदुषा ग्रहविज्ञानसारिणी ( १७३४ शा० ) मासप्रवेशसारिणी ( १७४४ शा० ) लग्नसारिणी क्रान्तिसारिणी ( १७५३ शा० ) चन्द्रोदयाङ्जाल: ( १७५७ शा० ) दृक्कमंसारिणी ( १७५८ शा० ) ग्रहणाङ्कजालः ( १७५५ शा० ) पातसारिणीटीका ( १७६१ शा० ) यन्त्रचिन्तामणिटीकाप्रभृति ग्रन्थाः प्रणीताः ।।
बापूदेवः
सम्पादयतुनृसिंहापराभिधेयस्य बापूदेवस्य बहुषु ग्रन्थेषु सरलत्रिकोणमितिः प्रसिद्धो ग्रन्थः । विपश्चिदसौ १७४३ मितशकाब्दे जात आसीत्, १८२२ मितशकाब्दे पञ्चत्वमाप्तश्च । अस्य हि सन्त्यन्ये लघुकाया बृहत्कायाश्च द्वादशाधिका ग्रन्थाः ।
नीलाम्बरः
सम्पादयतु१७४५ मितशकाब्दे जातेन नीलाम्बरेण गोलप्रकाशाख्यो ग्रन्थः प्रणीतः । तत्र सन्ति पञ्चाध्यायाः-ज्योत्पत्ति-त्रिकोणमिति-चापीयरेखागणित-चापीयत्रिकोणमितिप्रश्नविषयाख्याः ।
विनायकः
सम्पादयतुविनायकाख्येन विदुषा १७७२ मितशकाब्दे ग्रहसाधनकोष्ठकग्रन्थः प्रणीतः । अत्र सूर्यसिद्धान्तीयं वर्षमानं सायनाग्रहगतिस्थितिश्च गृहीता ।
रघुनाथः
सम्पादयतु१७४९ मितशकाब्दमभितः स्थितिमान् रघुनाथलेले: सायनपञ्चाङ्गस्य पक्षधर आसीत् । तेन हि साधनपञ्चाङ्गः प्रकाशितमपि ।
रघुनाथः ज्योतिषचिन्तामणिः
सम्पादयतु१७५० शकाब्दे लब्धजनुषा रघुनाथेन ज्योतिषचिन्तामणिः प्रणीत आसीत्। अस्यैव दृग्गणितपञ्चाङ्गमपि प्रसिद्धम् ।
कृष्णः ज्योतिषशास्त्रम्
सम्पादयतु१७५३ मितशकाब्दे जातेन कृष्णशास्त्रिणा ज्योतिःशास्त्राख्यो ग्रन्थः प्रणीत आसीत् । असौ हि मध्यमसूर्यचन्द्रस्थित्यो पञ्चाङ्गनिर्माणमतपोषक आसीत् ।।
पञ्चाङ्गसथनसारः
सम्पादयतुवामानकृष्णाख्येन विदुषा १७९१ मितशकाब्दे पञ्चाङ्गसायनसारः प्रणीतः ।
केतकरः ज्योतिर्गणितम्
सम्पादयतुवेङ्कटेश केतकरमहोदयेन १८१२ मितशकाब्दे ज्योतिर्गणितं प्रणीतम् । अत्र ३६५॥१५॥२२॥५३ वर्षमानं गृहीतं तथा अयनवार्षिकगतिस्तु ५०.२ विकलाः । कथ्यते ह्यनेन सूक्ष्मग्रहाः साध्यन्त इति । सन्त्यत्र चत्वारो भागाः यत्र प्रथमे पञ्चाङ्गगणितं द्वितीये ग्रहस्थानगणितं तृतीये ग्रहणयुतिशृङ्गोन्नत्यादिगणितं चतुर्थे तु त्रिप्रश्नाधिकारलग्नमानादिगणितञ्च । सर्वत्र मेषसङ्क्रान्तिकालीनक्षेपकस्पष्टाः गृहीताः । ग्रन्थोऽयं पञ्चाङ्गकर्तृणां नितान्तोपयोगी प्रयुञ्जन्ति च पञ्चाङ्गकर्तारः साकल्येन । अस्माभिरपि ग्रन्थोऽयं हिमालयपञ्चाङ्गस्य प्रणेतुः पद्मनाभत्रिपाठिनः प्राप्तः । मुद्रितोऽप्यसौ सर्वथा दुर्लभः पुनर्मुद्रणयोग्यः ।
सिद्धान्तसारः
सम्पादयतुविनायकपाण्डुरङ्गण १८३० मितशकाब्दमभितो ग्रन्थान्तरातिरिक्त सिद्धान्तसारः प्रणीतो यत्र आधुनिकमतानुकूल्येन पृथ्वादीनां गतयो विवेचिताः ।
सुधाकरः
सम्पादयतु१७८२ मितशकाब्दे गृहीतजनुः सुधाकरद्विवेदी प्रकरणेऽस्मिन् सश्रद्धं स्मर्यते । तत्प्रणीता सन्त्यनेके ग्रन्थाः, येषु दीर्घवृत्तलक्षणं ( १८०० शा० ) विचित्रप्रश्नः सभङ्गः ( १८०१ शा० ) वास्तवचन्द्रशृङ्गोन्नतिसाधनं ( १८०२ शा० ) चुचस्वारः ( १८०४ ) पिण्डप्रभाकरः (१८०७ शा० ) भामरेखानिरूपणम्, धराभ्रमः ग्रहणकरणम् गोलीयरेखागणितम्, प्रतिभाबोधकञ्च प्रसिद्धम् । अस्य गणकतरङ्गिणी ज्योतिषिकैतिह्यविषयो ग्रन्थः । अनेन पञ्चसिद्धान्तिकाप्रभृत्यनेके ग्रन्था व्याख्याय प्रकाशिताः ।
शङ्करबालकृष्णः भारतीयज्योतिषम्
सम्पादयतुशङ्करबालकृष्णदीक्षितस्य भारतीयज्योतिषं ज्योतिषशास्त्रतिह्यविषयको ग्रन्थः । असौ हि स्वप्रकृतिकः प्रथमो ग्रन्थ । ग्रन्थोऽयं १८१८ मितशकाब्दे प्रथमं प्रकाशितः । इतःपूर्वं बापूदेवेन ज्योतिषाचार्याशयवर्णनं सुधाकरेण गणकतरङ्गिणी च प्रणीता आसन्, किन्तु एतदपेक्षया ते एकाङ्गिन एव । ग्रन्थोऽयं भारतीयज्योतिषशास्त्रं साङ्गोपाङ्गं निरूपयति ।। | इत्थं हि वैदिकसंहिताकालादारभ्य साम्प्रतिकयुगपर्यन्तं जयसिंहपूर्वं स्वेनैव रूपेण जयसिंहतः आरबीयप्रभावसंयुक्तरूपेण नीलाम्बरतः आङ्गलप्रभावसिक्तरूपेण च भारतीय ज्योतिषशास्त्रं स्वयात्राक्रममनवरतरूपेण वर्तयदस्ति । तदित्थं सिद्धान्तगणितभेदेन द्वेऽस्य रूपे प्रथमम् सिद्धान्तस्यापि सिद्धान्ततन्त्रभेदेन द्वे रूपे यत्र कल्पादिमानविवेचकः सिद्धान्तः कलियुगादिमाननिरूपकस्तन्त्रम् । तत्रापि मध्यमस्थितिविवेचकः सिद्धान्तो वार्षिकी या स्थितिस्तद्विवेचकं करणम् । गणितञ्च पाटीबीजभेदेन द्विविधम् ।
अथाऽत्र पाठकानां सौकर्याय ग्रन्थेऽस्मिन् ये हि खलू सिद्धान्तग्रन्थाः करणग्रन्थाश्च समुल्लिखितास्तेषां सूची समुपस्थाप्यते ।
सिद्धान्तग्रन्थाः
सम्पादयतु१. लगधस्य वेदाङ्गज्योतिषम् ( १४०० शा० पू० )।
२. आर्यभटस्य आर्यभटीयम् ( ३९८ शा० ) आर्यसिद्धान्तप्रतिपादकम् ।
३. वराहमिहिरस्य पञ्चसिद्धान्तिका प्राचीनसूर्यपितामहवसिष्ठरोमकपुलिशसिद्धान्तप्रतिपादकम् ।
४. लल्लस्य शिष्यधीवृद्धिदतन्त्रम् आर्यसिद्धान्ते बीजाधायकम् ।
५. लाटसिंहस्य सूर्यसिद्धान्तः आधुनिकसूर्यसिद्धान्तव्याख्याता ।
६. श्रीषेणस्य रोमकसिद्धान्तः आधुनिकरोमकसिद्धान्तव्याख्याता ।
७. विष्णुचन्द्रस्य वासिष्ठसिद्धान्तः आधुनिकवासिष्ठसिद्धान्तव्याख्याता ।।
८. ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्तः (५४० शा० ) ब्रह्मसिद्धान्तव्याख्याता।
९. लल्लस्य धीवृद्धिदतन्त्रं सबजार्यमतव्याख्यातृ ।
१०. आर्यभटस्य महासिद्धान्तः ( ८७५ शा० )।
११. श्रीपतेः सिद्धान्तशेखरः ( ९६१ शा० )।
१२. भास्कराचार्यस्य सिद्धान्तशिरोमणिः (११०४ शा० ) ।
१३. मुनीश्वरस्य सिद्धान्तसार्वभौमः ( १५६८ शा० )।
१४. कमलाकरस्य सिद्धान्ततत्त्वविवेकः ( १५८० शा० ) ।।
१५. रङ्गनाथस्य सिद्धान्तचूडामणिः ( १५८० शा० ) करणप्रकृतिकः ।
१६. नित्यानन्दस्य सर्वसिद्धान्तराजः ( १५६१ शा० )।
१७. जयसिंहस्य सिद्धान्तसम्राट् ( १६५० शा० ) ।।
करणग्रन्थाः
सम्पादयतु१. आर्यभटीयकरणम् ( श० ४०० ) आर्यभटप्रणीतत्वेन मतम् ।
२. पञ्चसिद्धान्तिका ( श० ४३० ) वराहमिहिरप्रणीतम् ।
३. खण्डखाद्यकरणम् ( श० ५८७ ) ब्रह्मगुप्तप्रणीतम् ।।
४. लघुमानसम् ।।
५. धीकोटिकरणम् ( शक ९६१ ) श्रीपतिविरचितं मुद्रितम् ।
६. राजमृगाङ्ककरणम् ( शक ९६४ ) श्रीभोजराजविरचितममुद्रितमस्ति ।
७. करणकमलमार्तण्डः ( शक ९८० ) श्रीदशंबलराजविरचितः ।।
८. करणप्रकाशः ( शक १०१४ ) श्रीब्रह्मदेवविरचितो मुद्रितश्चार्यभटतन्त्रमनुवर्तते ।।
९. भास्वती ( शक १०२१ ) शतानन्दविरचिता मुद्रिता प्रसिद्धा चेयं सौरमतमनुवर्तते ।
१०. शेखरः ( शक १०३० ) श्रीमहेश्वरविरचितः ।
करणोत्तमः ( शक १०३८ ) लेखकस्य नाम न ज्ञायते ।
११. करणकुतूहलम् ( शक ११०५ ) श्रीभास्कराचार्यविरचितं ब्रह्मपक्षीयं
प्रसिद्धं मुद्रितं चास्ते ।
१२. करणकण्ठीरवम् ( शक ११६४ ) श्रीकेशवार्कविरचितमनुपलब्धम् ।
१३. वाविलालकोच्चनाकृतकरणम् ( शके १२२० ) अप्रसिद्धम् ।
१४. महादेवीसारिणी ( शक १२३८ ) महादेबविरचिता प्रसिद्धा ।
१५. कामधेनुः ( शक १२७९ ) महादेवविरचिता ब्रह्मार्यभटमतद्वयानुसारिणी।
१६. भटतुल्यम् ( शक १३३९ ) दामोदरकृतकरणम् ।
१७. मकरन्दसारिणी ( शक १४०० ) मकरन्दविरचिता सौरमतीया सर्वत्र लब्धप्रतिष्ठा बहसम्मता च वर्तते ।।
१८. ग्रहकौतुककरणम् ( शक १४१८ ) श्रीकेशवविरचितममुद्रितम् ।
१९. ग्रहलाघवम् । ( शक १४४२) श्रीगणेशदैवज्ञकृतमतिप्रसिद्धं सर्वत्र समादृतें वर्तते । अस्यैवाचार्यस्यान्यो द्वौ तादृशौ ग्रन्थौ लघुतिथिचिन्तामणिः बृहत्तिथिचिन्तामणिश्चेति वर्तेते । अस्मिन् ग्रहलाघवकरण उदिते केवलं मकरन्दग्रहलाघवाख्ये द्वे करणे सूर्यचन्द्राविव जगति प्रकाशेते । अन्यानि करणानि ग्रहतारका इव यथाकालं किञ्चित् किञ्चित् प्रकाशमानानि सन्ति ।।
२०. कल्पद्रुमकरणम्, श्रीरामचन्द्रकृतम् ।
२१. अनन्तसुधारसः ( शक १४४७ ) श्रीअनन्तदैवज्ञकृतः ( सौरमतावलम्बिनी सारणी ) ।।
२२. सुबोधमञ्जरी ( शक १४८४ ) श्रीरघुनाथकृता ।
२३. मणिप्रदीपः ( शक १४८७ ) श्रीरघुनाथशर्मकृतोऽप्रसिद्धः ।
२४. खेटकसिद्धिस्तथा चन्द्रार्की ( शक १५०० ) श्रीदिनकरदैवज्ञकृते द्वे करणेऽमुद्रिते स्तः ।।
२५. रामविनोदः ( शक १५१२ ) श्रीरामदैवज्ञविरचितः प्रसिद्धो वर्तते, राजस्थानादिप्रान्तेषु महान् प्रचारोऽस्य ।
२६. अहचिन्तामणिः ( शक १५१२) श्रीनाथकृतः ।
२७. विष्णुकरणम् ( शक १५३० ) सौरपक्षीयं करणमेतद् विष्णुदैवज्ञकृत ममुद्रितमप्रसिद्धं च ।।
२८. ग्रहप्रबोधः ( शक १५४१ ) श्रीनागेशकृतः ।
२९. सिद्धान्तचूडामणिः ( शक १५६५ ) श्रीरङ्गनाथविरचितः ।