ज्यौतिषायुर्वेदौ
ज्यौतिषायुर्वेदयोः अङ्गाङ्गिभावः
सम्पादयतुकलिमलिनेस्मिन्नपि काले नवीनविद्याविलेपविलोपितप्रायः प्रत्नप्रबन्धरत्नसत्परम्पराजाले सहृदयहृदयहारिणी गीर्वाणी वाणी नरीनर्ति क्वचित् क्वचित् कविपण्डितधौरेयाणां विरलविरलानां वदनारविन्दनाट्यरङ्गेष्विति महदिदं प्रमोदस्थानम् अस्माकं वेदवेदाङ्गविदुषां सहृदयानाम्। तत्रापि वैदिकसाहित्यं नितरां सुश्लाघ्यं सार्वकालिकमित्यत्र नास्ति संशीतिलेशोऽपि प्राचामर्वाचां विपश्चिदपश्चिमानां मनस्सु । तन्मध्येऽपि
- वेदास्तावत्यज्ञकर्मप्रवृत्ताः यज्ञाः प्रोक्ताः तेतुकालाश्रयेण ।
- शास्त्रादस्मात् कालबोधो यतः स्यात् वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात् ॥
इति भास्कराचार्योक्त्यनुसारेण वेदनेत्रभूतायाः ज्योतिर्विद्यायाः परममुख्यवेदाङ्गत्वं एव न सिद्ध्यति, अपि तु -
- यो ज्योतिषां पुण्यं रहस्यं परमञ्च तत्वं वेत्ति नरः स सम्यक्धर्मार्थकामान्लभते इति परमरहस्यतत्वबोधकता धर्मादिद्वारा मोक्षोपयोगिशास्त्रत्वं च विज्ञातम्भवति । आयुर्वेदस्तावत् पञ्चभूतानाधारीकृत्य विरचितो वर्तते । पञ्चभूतानि च पृथिव्यप्तेजोवाय्वाकाशाः । आयुर्वेदे च दोषत्रयमाधारीकृत्य कस्यचन पुरुषस्य मानवस्य वा शरीरादिव्यवस्था चिन्त्यते। तेच दोषाः वात-पित्त-कफाः । तत्र वातः प्रधानतो आकाशवायुगुणकः । तथैव पित्तश्च जीर्णशक्तिं जीर्णकारिपद्धतिञ्च अधिकृत्य वर्तत इति कारणात्ज्ञायते यत् अस्मिन्दोषे अग्निजलगुणबहुत्वम् । कफोऽपि बहुजलगुणसम्पन्नः । एवमेव ज्योतिश्शास्त्रेऽपि राशीनां तत्सज्ञानां च विभागः पञ्चभूतान्यतममाश्रित्य क्रियते।
यथा – मेषसिंहधनूंषि - अग्निगुणकाः,
वृषभकन्याकर्कटाः - भूमिगुणकाः,
मिथुनतुलाकुम्भाः - वायुगुणकाः,
कर्कवृश्चिकमीनाः - जलगुणकाः,
सर्वेषाम् अवश्यम् शब्दगुणकत्वात् सर्वे आकाशगुणकाः एव इति न पृथगुक्तिः ।
ज्योतिश्शास्त्रानुगुणं व्यक्तेः जन्मराशितः अर्थात् यत्र चन्द्रः भवति, ततश्च गृहात् वयं तद्व्यक्तेः स्वभावं शरीरस्वरूपञ्च विज्ञातुं शक्नुमः । यद्यपि न हि वयं तद्व्यक्तिताव्यत्यासकरणे पारयेम तथापि तत्तद्व्यक्तिस्वभावपरिज्ञाने तथा तच्छरीरानुगुणाहारविहारादिविज्ञाने समर्था भवेम ।
यथा- यदि कश्चन सिंहराशौ जातः यस्मिन्सूर्यः वृश्चिकः च वर्तेयातां तर्हि अवश्यं वयं जानीमः यत्सः मानवः पित्तदोषजनितानि क्षतानि, ज्वालापट्टिकाः अम्लाजीर्णादयः तस्मिन्भवेयुरिति । तत्र तावत्द्वादश राशयः सन्तीति सर्वेऽपि जानन्त्येव । तत्र प्रत्येकः राशिः गृहं वा मनुष्यशरीरस्य प्रत्येकाङ्गं प्रतिनिधत्ते इति ज्ञातव्यमस्माभिः । यथा मेषः,प्रथमगृहं च शिरसः मुखस्य च प्रतिनिधिरस्ति । अर्थात्तेन राशिना शिरसः लक्षणं मुखलक्षणं वा तद्व्यक्तेर्विज्ञातुं सुशकाः भवेम । एवमेव कण्ठादीनां स्वभावान्द्वितीयादिना राशिना विजानीमः । न केवलं प्रथमगृहात्कस्यचन पुरुषस्य ज्योतिर्विद् आरोग्यविषयान् जानाति अपि तु षष्ठगृहात् च । तथैव अष्टमात् तत्पुरुषस्य चिरकालिकरोगांश्च सम्यग्विदितवान् भवति । द्वादशगृहपरिवीक्षणात् हि पूर्वदृष्टानां रोगाणां परिहारः साध्यो वा न वा, कथञ्च साध्यः इत्यादि विमृशति ज्योतिश्शास्त्रज्ञः । न केवलमेतावन्मात्रं किन्तु तद्तद्राशिगतभावानां नवांश-द्वादशांशादीनां च पर्यवेक्षणात् इतोऽपि स्पष्टं भवति यत्सः रोगः उन्मूलनयोग्यो वा आनुवंशिकत्वात् अनुन्मूलनस्वभावो वा इति ।
आयुर्वेदस्तु न केवलं रोगनियन्त्रणशास्त्रं, परन्तु आनुवंशिकरोगाणाम् अपहारिशास्त्रमपि । तथा च ज्योतिश्शास्त्रेण रोगिणां रोगस्वभावं, रोगोन्मूलनसाध्यतां सम्यक् विज्ञाय आयुर्वेदचिकित्सकः योग्यः समर्थो वा वैद्यः भवितुंप्रभवति । ज्योतिश्शास्त्रेण न केवलं रोगलक्षणानि विजानीम अपि तु रोगाणां तथागतकारणान्यपि । तेन ‘मूले कुठारः’ इति ख्यात्यनुसारेण रोगकारणोन्मूलने रोगकारणनिःसारणे वा वैद्याः प्रयतन्ते । वात-पित्त-कफादिदोषाणां समस्थितिरेव देहसुस्थितिः आरोग्यकरः परिसरः वा इति सर्वैः ज्ञातन्ननु ! दोषैस्सह रोग्यसहकारिगुणानां मेलनं देहे यदा भवति तदा सः नरः ‘स्वस्थः’ इति अभिधीयते। राशीनां, राश्यधिपतीनां च सम्यग्विज्ञानात् तादृशं समतोलनं साधयितुंप्रभवेम । राशिष्वपि शुष्काः, सिक्ताः, वायव्यश्चेति त्रैविध्यंवर्तते सूर्यः, शनिः, मङ्गलश्च - शुष्कराशयः गुरुः,चन्द्रः, शुक्रश्च - सिक्तराशयः शनिस्तुवायुगुणप्रभवश्चेति सर्वे एवं प्रकीर्तिताः । एवञ्च शुष्कराशिगतलग्नवान् पुरुषः अवश्यं शुष्कस्वभावदेहवानिति ज्ञायते। तेन तद्देहानुगुणाः ओषधयः आयुर्वेदविज्ञानिना उपयोक्तुं शक्यन्ते । एवमेव सामान्यतः जातके द्वितीयं गृहं आस्यं प्रतिनिधत्ते । कः पुरुषः कीदृशाहारस्वीकर्ता अथवा कीदृशाहारस्वीकरणाय योग्यः इति द्वितीयगृहपरिवीक्षणात्ज्योतिष्मान्ज्ञातुं प्रभवति । यदि शुष्काः राशयः द्वितीये गृहे बहुकालंयावत् तिष्ठेरन् तदा तेन तत्पुरुषेतेस्वरकर्कशतां, कण्ठशुष्कतां दर्दुरताञ्च जनयेयुरिति च विजानीयात् । कदाचित् वातसम्बन्धिरोगान् ततश्च मलबद्धताञ्च जनयेयुरिति च सुज्ञातवान्भवेत् । एवञ्च देहाङ्गपरिविज्ञानात् , देहस्थरोगज्ञानात् रोगिभ्यः ज्योतिश्शास्त्रं रोगोपशमनार्थम् अथवा अरुग्णतासम्पादनार्थं के च हारविहारव्यवहाराः मनुष्यैः पालनीयाः इति उपदिशति अथवा तद्विषये अस्मान्सम्यक् निबोधयति । एवञ्च ज्योतिश्शास्त्रं न केवलं कालनिर्णायकं होराशास्त्रमेव अपि तु योगक्षेमशास्त्रञ्च मुख्यतः । यतो हि ‘अप्राप्तस्य प्राप्तिरेव योगः’ तथा ‘प्राप्तस्य परिरक्षणं क्षेमः’ इति शास्त्रविहितलक्षणानुसारेण सकलसौभाग्यारोग्यादिप्रापकं, प्राप्तारोग्यभाग्यस्य संरक्षणोपायसूचकशास्त्रञ्च इति अहो वैशिष्ट्यमस्य लगध-वराहमिहिर-भास्करादिप्रणीतस्य वेदाङ्गशास्त्रस्य इति आस्तां तावत् पल्लवतल्लजकल्पानल्पकल्पनेन ॥
॥ श्रीकृष्णार्पणमस्तु॥