ज्वालामुखी (पठाणकोट्)
एतत् शक्तिपीठं भारतस्य हिमाचलप्रदेशे काङ्ग्रामण्डलस्य शिवालिकधर्मशालातः समीपे पठानकोट इत्यत्र अस्ति ।
सम्पर्कः
सम्पादयतुधर्मशाला, हिमाचलप्रदेशःतः ६०.की.मी. दूरे अस्ति । बसयानेन अपि आगन्तुं शक्यते ।
कालः
सम्पादयतुअत्र आगमनाय मार्चतः एप्रिल् पर्यन्तं तथा सप्टम्बरतः अक्टोबरपर्यन्तं सुकालः । अन्यदिनेषु एतत् स्थानं हिमाच्छादितं भवति । मार्गः विनष्टः भवति ।
वैशिष्ट्यम्
सम्पादयतुविग्रहस्थाने कश्चन गर्तः अस्ति । तत्र कस्याश्चित् शिलायाः छेदतः सर्वदा अग्निज्वालाः निर्गच्छन्ति । ”’महाकाल्याः मुखम्”’ इत्यपि एतत् स्थानं प्रसिद्धम् अस्ति । अत्र नवज्वालाः सन्ति । ताः सरस्वती अन्नपूर्णा, चण्डी, हिङ्ग्लाक्, विन्ध्यवासिनी , महालक्ष्मीः, महाकाली , अम्बिका , अञ्जना चेति। अत्र श्रीचक्रयन्त्रमेकम् उत्कीर्णम् अस्ति । किन्तु सर्वदा एतत् यन्त्रं पुष्पैः आच्छादितं भवति ।
कथा
सम्पादयतुकदाचित् अक्बरः अत्र आगतवान् आसीत् ।अत्रत्यां ज्वालां दृष्ट्वा आश्चर्यचकितः सः परीक्षार्थं ज्वालायाः उपरि जलं स्थापयितुम् आदिष्टवान् ।यावत् जलं पूरितं चेत् अपि ज्वाला निर्वापिता न अभवत् । ज्वालायाः वेगः अपि न्यूनः न अभवत् । देव्याः शक्तिम् अवगतवान् अक्बरः पादरक्षां विना अन्तः प्रविश्य देव्याः दर्शनं कृतवान् । अग्रे देव्यै सुवर्णछत्रमेकं समर्पितवान् । छत्रदानेन देवी सन्तुष्टा स्यात् इति अहम्भावेन् यदा परिवर्त्य दृष्टवान् तदा तद् छत्रं सामान्यं लोहमयम् अभवत् । ततः सः देव्याः शाश्वतभक्तः अभवत्। अत्रत्या देवी सिद्धिहा अथवा अम्बिका नाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः जिह्वाभागः पतितः इति विश्वासः । अत्रत्यशिवः उन्मत्तभैरवनाम्ना पूज्यते ।