झाबुआमण्डलम्
झाबुआमण्डलम् ( ( शृणु) /ˈzɑːbʊɑːməndələm/) (हिन्दी: झाबुआ जिला, आङ्ग्ल: Jhabua district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति झाबुआ इति नगरम् ।
झाबुआमण्डलम् jhabua District | |
---|---|
झाबुआ जिला | |
झाबुआमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे झाबुआमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | झाबुआ, राणापुर, थान्दला, पेटलावद, मेघनगर |
विस्तारः | ३,६०० च. कि. मी. |
जनसङ्ख्या (२०११) | १०,२५,०४८ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६२.७०% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९.५% |
Website | http://jhabua.nic.in/ |
भौगोलिकम्
सम्पादयतुझाबुआमण्डलस्य विस्तारः ३,६०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे गुजरातराज्यं, दक्षिणे अलीराजपुरमण्डलम् अस्ति । अस्मिन् मण्डले माहीनदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं झाबुआमण्डलस्य जनसङ्ख्या १०,२५,०४८ अस्ति । अत्र ५,१५,०२३ पुरुषाः, ५,१०,०२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.७०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९० अस्ति । अत्र साक्षरता ४३.३०% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- झाबुआ, राणापुर, थान्दला, पेटलावद, मेघनगर ।
वीक्षणीयस्थलानि
सम्पादयतुरङ्गपुरा
सम्पादयतुरङ्गपुरा-ग्रामः झाबुआ-नगरस्य समीपे अस्ति । अस्मिन् ग्रामे रामपञ्चायत-मन्दिरं, जैन-मन्दिरं च अस्ति । अस्य नगरस्य समीपे एकं प्राचीनं शिवमन्दिरम् अपि अस्ति ।
देवझिरी
सम्पादयतुइदं स्थलं झाबुआ-नगरात् ८ कि. मी. दूरे स्थितमस्ति । अस्य स्थलस्य समीपे सुनारनदी प्रवहति । अस्मिन् स्थले भगवतः शिवस्य अनेकानि प्राचीनानि मन्दिराणि सन्ति । देवझिरी इत्यत्र एकः कुण्डः अपि अस्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये झाबुआमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://jhabua.nic.in/
http://www.census2011.co.in/census/district/331-jhabua.html
http://www.bharatbrand.com/english/mp/districts/Jhabua/Jhabua.html Archived २०१४-०६-०९ at the Wayback Machine