धारमण्डलम् ( /ˈðɑːrəməndələm/) (हिन्दी: धार जिला, आङ्ग्ल: Dhar district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति धार इति नगरम् ।

धारमण्डलम्

Dhar District
धार जिला
धारमण्डलम्
धारमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे धारमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे धारमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि धार, बदनावर, सरदारपुर, गन्धवानी, कुक्शी, दाही, मनावर, धरमपुर
विस्तारः ८,१५३ च. कि. मी.
जनसङ्ख्या (२०११) २१,८५,७९६
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ५९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८%
Website http://dhar.nic.in/

भौगोलिकम् संपादित करें

धारमण्डलस्य विस्तारः ८,१५३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे इन्दौरमण्डलं, पश्चिमे झाबुआमण्डलम्, उत्तरे रतलाममण्डलं, दक्षिणे बडवानीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी, चम्बलनदी च प्रवहति ।

जनसङ्ख्या संपादित करें

२०११ जनगणनानुगुणं धारमण्डलस्य जनसङ्ख्या २१,८५,७९३ अस्ति । अत्र ११,१२,७२५ पुरुषाः, १०,७३,०६८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ५९% अस्ति ।

उपमण्डलानि संपादित करें

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- धार, बदनावर, सरदारपुर, गन्धवानी, कुक्शी, दाही, मनावर, धरमपुर ।

वीक्षणीयस्थलानि संपादित करें

धार-दुर्गः संपादित करें

धार-दुर्गः धार-नगरस्य उत्तरदिशि अस्ति । अयं दुर्गः एकस्मिन् उपशैले स्थितः अस्ति । अस्य निर्माणं रक्तपाषाणैः कृतम् अस्ति । अयं दुर्गः विशालः, विस्तृतः च अस्ति । अस्य निर्माणं सुल्तान मोहम्मद बिन तुगलक इत्यनेन चतुर्दशतमाशताब्द्यां कारितम् । अस्य दुर्गस्य निर्माणं हिन्दु-मुस्लिम-अफगान-शैलीषु कृतमस्ति । अयं दुर्गः पर्यटकानां आकर्षणकेन्द्रम् अस्ति ।

भोजशाला संपादित करें

भोजशाला इत्यत्र पुरा सरस्वतीमातुः सुन्दरा प्रतिमा आसीत् । राज्ञा भोजेन अस्य निर्माणं कारितम् । किन्तु यदा अलाउद्दीन खिलजी दिल्ली-साम्राज्यस्य शासकः अभवत् तदा तेन अस्मिन् स्थले ’मस्जिद’ इत्यस्य निर्माणं कारितम् । इदानीमपि भोजाशाला-’मस्जिद’ इत्यस्मिन् स्थले संस्कृतभाषायाम् अनेकाः अभिलेखाः सन्ति । ते अभिलेखाः प्राचीनमन्दिरस्य प्रमाणीभूताः सन्ति । माण्डु, जहाज-महल, हिण्डोला-महल, जामी ’मस्जिद’ इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः संपादित करें

http://dhar.nic.in/
http://www.census2011.co.in/census/district/305-dhar.html

"https://sa.wikipedia.org/w/index.php?title=धारमण्डलम्&oldid=463960" इत्यस्माद् प्रतिप्राप्तम्