एतत् महाराष्ट्रराज्ये स्थितं वैभवोपेतं प्रवासिधूमशकटयानमस्ति । अस्य निर्माणे आफ्रिकाखण्डे स्थितं ब्लूट्रेन् Blue train (South Africa) युरोपखण्डे स्थितम् ओरियण्ट एक्स्प्रेस् (Orient Express ) इत्यादीनि प्रेरकाणि सन्ति । बहिर्भागतः सामान्यधूमशकटमिव दृश्यते । किन्तु अन्तः वैभवयुक्तम् अस्ति । उत्तमाहारपूरकभवनं, सभाभवनं, मादकपेयस्थानानि, सौन्दर्यवर्धनसौलभ्यं , दूरदर्शनं, दूरभाषा, फ्याक्स्, अन्तर्जालः, प्लास्मा टि.वि, अन्ताराष्ट्रियदूरभाषा सौलभ्यानि च अत्र सन्ति । सम्पूर्णधूमशकटयानं वातानुकूलितम् अस्ति । शयनाय प्रत्येकप्रकोष्ठाः सन्ति । धूमशकटयानं कलामयम् उत्तमप्रकाशयुक्तम् आधुनिकसौलभ्ययुक्तं चास्ति । मुम्बयीतः रत्नागिरि, सिन्धुदुर्गं, गोवा, पुणे औरङ्गाबाद् नाशिक अजन्ता, एल्लोरा क्षेत्राणां दर्शनं कारयति । अनेन यात्रा कृतवन्तः अतीवम् आनन्दम् अनुभवन्ति । धूमशकटयानानां राज्ञी इव अस्ति एतत् यानम् ।

"https://sa.wikipedia.org/w/index.php?title=डेक्कन्_ओडिस्सी&oldid=369329" इत्यस्माद् प्रतिप्राप्तम्