तच्च संस्मृत्य संस्मृत्य...


श्लोकः सम्पादयतु

 
गीतोपदेशः
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ ७७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तसप्ततितमः(७७) श्लोकः ।

पदच्छेदः सम्पादयतु

तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतं हरेः विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥

अन्वयः सम्पादयतु

राजन् ! हरेः अत्यद्भुतं च तत् रूपं संस्मृत्य संस्मृत्य (स्थितस्य) मे महान् विस्मयः । पुनः पुनः च हृष्यामि।

शब्दार्थः सम्पादयतु

हरेः = विष्णोः
विस्मयः = आश्चर्यम् ।

अर्थः सम्पादयतु

राजन् ! हरेः अत्युतं च तत् रूपं स्मृत्वा स्मृत्वा (स्थितस्य) मम महत् आश्चर्यं भवति । पुनःपुनः सन्तुष्यामि च ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु