ततः स विस्मयाविष्टो...

(ततः स विस्मयां - 11.14 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकःसंपादित करें

 
गीतोपदेशः
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदःसंपादित करें

ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ॥ १४ ॥

अन्वयःसंपादित करें

ततः हृष्टरोमा सः धनञ्जयः विस्मयाविष्टः शिरसा देवं प्रणम्य कृताञ्जलिः अभाषत ।

शब्दार्थःसंपादित करें

ततः = अनन्तरम्
हृष्टरोमा = सरोमाञ्चः
सः धनञ्जयः = सः अर्जुनः
विस्मयाविष्टः = आश्चर्योपेतः
शिरसा = शीर्षेण
देवम् = विष्णुम्
प्रणम्य = नमस्कृत्य
कृताञ्जलिः = बद्धाञ्जलिः
अभाषत = अवदत् ।

अर्थःसंपादित करें

अनन्तरं सरोमहर्षः सः अर्जुनः विस्मितः शिरसा विष्णुं नमस्कृत्य कृताञ्जलिः अवदत् ।

सम्बद्धसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=ततः_स_विस्मयाविष्टो...&oldid=418559" इत्यस्माद् प्रतिप्राप्तम्