तत्रैवं सति कर्तारम्...


श्लोकः सम्पादयतु

 
गीतोपदेशः
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः सम्पादयतु

तत्र एवं सति कर्तारम् आत्मानं केवलं तु यः पश्यति अकृतबुद्धित्वात् न सः पश्यति दुर्मतिः ॥

अन्वयः सम्पादयतु

देहभृता अशेषतः कर्माणि त्यक्तुं नहि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

शब्दार्थः सम्पादयतु

तत्र = तस्मिन् प्रसङ्गे
एवं सति = पञ्च हेतवः इति स्थितौ
कर्तारम् = आचरितारम्
आत्मानम् = स्वम्
केवलम् = शुद्धम्
अकृतबुद्धित्वात् = असंस्कृतबुद्धित्वात्
दुर्मतिः = दुष्टबुद्धिः ।

अर्थः सम्पादयतु

एवं सर्वकर्मसिद्धौ पञ्च कारणानि इति स्थितौ यः पुरुषः सर्वेषां कर्मणां कर्ता अहम् (आत्मा) इति चिन्तयति तस्य शास्त्रोपदेशेन बुद्धिरेव न संस्कृता इति निर्णयः । ततश्च सः जानन्नपि न जानाति इत्येव बोद्धव्यम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु