तत्र सत्त्वं निर्मलत्वात्...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
- सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य शष्ठः(६) श्लोकः ।
पदच्छेदः
सम्पादयतुतत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च अनघ ॥ ६ ॥
अन्वयः
सम्पादयतुअनघ ! तत्र निर्मलत्वात् प्रकाशकम् अनामयं सत्त्वं सुखसेन ज्ञानसेन च बध्नाति ।
शब्दार्थः
सम्पादयतु- अनघ = पापरहित
- निर्मलत्वात् = स्वच्छत्वात्
- प्रकाशकम् = भासकम्
- अनामयम् = निरुपद्रवम्
- सुखसेन = सुखयोगेन
- ज्ञानसेन = ज्ञानयोगेन ।
अर्थः
सम्पादयतुहे पापरहित (अर्जुन) ! तेषु त्रिषु गुणेषु स्वच्छत्वात् भासकं निरुपद्रवं सत्त्वं सुखं जनयति ज्ञानं च ।