तन्त्रशास्त्रम् (Tantra) इत्येषः भारते विकसितेषु शास्त्रेषु अन्यतमम् । आदौ ’तन्त्र’इत्येतस्य शब्दस्य विशेषज्ञानं ज्ञानभण्डारः इति वा अर्थः स्यात् । कालक्रमेण इदं शक्त्युपासनशास्त्रत्वेन निर्दिष्टं जातम् । एतस्मिन् शास्त्रे धर्मशास्त्रस्य, तत्त्वदर्शनस्य, विविधोपासनमार्गिणां नियमाणां, खगोलविज्ञानस्य, ज्योतिश्शास्त्रस्य, वैद्यशास्त्रस्य, क्रान्तदर्शनशास्त्रस्य च विषयाः अन्तर्भूताः सन्ति ।

व्युत्पत्तिः मूलञ्च सम्पादयतु

पदरचनाशास्त्रानुगुणं ’तन्त्र’ इत्येतत् पदं तन् (प्रसारः) त्रै (रक्षणम्) इत्येताभ्यां धातुभ्यां निष्पन्नं विद्यते । तत्त्वस्य (मूलभूतनियमानां), मन्त्रस्य (पवित्रपदानाम् अक्षराणाम्) च ज्ञानप्रसाराय, अज्ञानात् साधकानां रक्षणाय च विद्यते इदं शास्त्रम् । तन्त्रशास्त्रे दृश्यमानं मोक्षविषयकं प्रामुख्यं, वर्णाश्रमधर्मविषयकं गौरवञ्च तदीयां वेदश्रद्धां द्योतयति । तस्मिन् विद्यमानं पञ्च-मकारसाधनं, शवसाधनम् इत्यादीनि अवैदिकसम्प्रदायेन सह तदीयम् आप्तसम्बन्धं द्योतयति ।

तान्त्रिकसाहित्यम् सम्पादयतु

तान्त्रिकग्रन्थानुसारं तन्त्राणि बहूनि । तन्त्राणां सङ्ख्या ६४ इति निर्दिश्यते चेदपि तस्मिन् विषये शास्त्रग्रन्थेषु सम्मतिः नास्ति ।

विभागः सम्पादयतु

  • १ सदाशिवः देव्या सह कृतानि सम्भाषणानि आगमः देवी सदाशिवेन सह कृतानि सम्भाषणानि निगमः इति निर्दिश्यते ।
  • २ दक्षिण-वाम-मध्यमाः
  • ३ दिव्य-कौल-वामाः
  • ४ यामल-डामरग्रन्थाः

देव्याः उपासनाप्रधानाः ग्रन्थाः सम्पादयतु

ईशानगुरुदेवपद्धतिः, कामकलाविलासः, कौलावलीनिर्णयः, कौलचूडामणितन्त्रम्, ललितासहस्रनाम, महानिर्वाणतन्त्रम्, मन्त्रमहोदधि, नित्याषोडशिकार्णव, पारानन्दसूत्रम्, प्रपञ्चसारः, शक्तिसङ्गमतन्त्रम्, शारदातिलकम्, सौन्दर्यलहरी, तन्त्राभिदानम्, तन्त्रराजतन्त्रम्, वरिवस्यारहस्यम्

यामलतन्त्राणि सम्पादयतु

ब्रह्मयामलः, विष्णुयामलः, रुद्रयामलः, लक्ष्मीयामलः, उमायामलः, स्कन्दयामलः, गणेशयामलः, आदित्यमामलः

डामरतन्त्राणि सम्पादयतु

योगडामरः, शिवडामरः, दुर्गाडामरः, सारस्वतडामरः, ब्रह्मडामरः, गन्धर्वडामरः

बौद्धपरम्परान्तर्गततन्त्राणि सम्पादयतु

मञ्जुश्रीमूलकल्पः, गुह्यसमाजतन्त्रम्

विषयस्वरूपम् सम्पादयतु

विविधाः आगमाः तन्त्राणि च विद्यन्ते चेदपि तेषु केचन सामान्यगुणधर्माः विद्यन्ते । एतानि वेदसम्बद्धानि एव किन्तु युगधर्मानुसारं व्याख्याने भेदः विद्यते इति अभिप्रायः श्रूयते । तन्त्राणाम् अभ्यासाय जाति-लिङ्गभेदाः न विद्यन्ते । तन्त्रेषु चर्चिताः विषयाः चतुर्षु पादेषु विभक्ताः सन्ति -

ज्ञानपादः सम्पादयतु

तन्त्राणि कस्य तत्त्वस्य दर्शनस्य वा आधरेण स्थितानि सन्ति इति विवृणोति ज्ञानपादः । तच्च तत्त्वं वेदान्तस्य साङ्ख्यदर्शनस्य सूत्राणां संयोजनरूपं विद्यते ।

योगपादः सम्पादयतु

जीवनस्य परमलक्ष्यरूपं परमात्मैक्यतां साधयितुं मुमुक्षुभिः अनुसर्तव्यः साधनमार्गः, अध्यात्मानुशासनं संयमः इत्येतेषां विवरणं ददाति अयं पादः ।

क्रियापादः सम्पादयतु

व्यक्तिः समाजस्य अविभाज्यम् अङ्गम् । तदीया उन्नतिः समाजस्य उन्नत्या स्म्मिलितं वर्तते । अतः तन्त्रेषु समाजस्य धर्मः, समाजेन अनुसरणीयः जीवनमार्गः, व्यक्ति-समाजयोः सामरस्यसाधनञ्च बोधितानि सन्ति ।
अस्यां दिशि देवालये आचर्यमाणा पूजा इव सामूहिकार्चनं, यज्ञयागादीनाम् आचरणं, तीर्थयात्रामहत्त्वञ्च बोधयति अस्मिन् क्रियापादे ।

चर्यापादः सम्पादयतु

व्यक्त्या स्वीये जीवने आचरणीयानि कर्माणि, विविधसाधनानि च चर्यापादे विवृतं वर्तते । साधकेन अनुसरणीयाः अनुशासनसंयमादयः प्रारम्भसाधकम्, निपुणसाधकञ्च उद्दिश्य उक्तानि सन्ति ।

अन्ये विषयाः सम्पादयतु

वेदानाम् आधारेण रचितानां तन्त्राणाम् आगमानाञ्च प्रामाण्यम्, जगतः सृष्टिः, वैखरी-वाक् वचसः आविर्भावः वा, वर्णमालायाः अक्षराणि, दीक्षासमये अनुसरणीयाः कर्मविधयः (उदा - वास्तुयागः), दीक्षाप्रकाराणि, होमविधिः, हिन्दूधर्मे विविधदेवतासम्बद्धाः मन्त्राः (उदा- सरस्वती, लक्ष्मीः, भुवनेश्वरी, दुर्गा, विष्णुः, गणपतिः, शिवः इत्यादीनां देवतामन्त्राः), उपरि निर्दिष्टानां देवतानां सम्बद्धानि यन्त्राणि, रेखाचित्राणि, कुण्डलिनी/षट्चक्र/अध्यात्मकेन्द्राणां विवरणयुक्तानि योगसाधनानि इत्यादीनि ।

"https://sa.wikipedia.org/w/index.php?title=तन्त्रशास्त्रम्&oldid=395396" इत्यस्माद् प्रतिप्राप्तम्