ताजिकशास्त्रं ज्योतिषशास्त्रस्य कश्चन भागत्वेन परिगण्यते। यथा हि जातकं होराशास्त्रस्य प्रथमो भागस्तथैव ताजिकमस्यापरो भागः । किं तत्ताजिकमित्यपेक्षायामुच्यते ताजिकं नाम वार्षिकादिनानाविधफलादेशफलकशास्त्रमेव । यथोक्तं हायनरत्ने -

‘यवनाचार्येण पारसीकभाषायां प्रणीतं ज्योतिषशास्त्रैकदेशरूपं वाषिकादिनानाविधफलादेशफलकशास्त्रं ताजिकशब्दवाच्यं तदनन्तरभूतैः समरसिंहाः दिभिः••••••••"ब्राह्मणैस्तदेव शास्त्र संस्कृतशब्दोपनिबद्धं ताजिकशब्दवाच्यम् । अत एव तैस्ता एव इक्कबालदियो यावन्यः संज्ञा उपनिबद्धाः ।' यथा वा ताजिकभूषणपद्धतौ--

'गर्गाचैर्यवनैश्च रोमकमुखेः सत्यादिभिः कीर्तित

शास्त्रं ताजिकसंज्ञक: •••••••••••••• ।'

तदेतत्सिद्धं यत्ताजिक हि तदेव शास्त्रं यत्र वर्षप्रवेशकालीनलग्नमाश्रित्य फलादेशः क्रियते । ताजिकं हि ताजकशब्देनाप्युच्यते । इदं हि तार्तीयकपदेनाऽप्युच्यते यत्र कुत्र । तार्तीयकपदं हि ताजिकपदस्य संस्कृतरूपमेव सम्भवति यद्वा होराशास्त्रस्य जातकप्रश्नताजिकाख्यभेदेषु तृतीयत्वेनापि तथोक्तं स्यात् ।।

एतत्तु स्पष्टमेव यत्ताजिकशास्त्रं हि यवनागतं यद्वा यवनशास्त्रसम्बद्धं कि वा यवनाचाराविष्कृतम् । किन्त्वेतावता नावधेयं यद्भारतीयपरम्परायां वर्षफलस्य ज्ञानमेव नासीदिति । गणेशाचार्यों हि ताजिकप्रसङ्ग गर्गप्रभृतिमुनीन् सत्यप्रभृतीनाचार्यांश्च स्मरति । शास्त्रस्यास्य यावनत्वमेतावदेव यदिदं यावनविषयेऽधिकं प्रचलितं यतो हि पश्चाद्वतिग्रन्थेषु संज्ञाद्या यावना एव गृहीता इति । न हि भारताद् बहिरेवाधिक प्रचलितस्य बौद्धधर्मस्य भारतीयत्वं विहन्यते । यदुच्यते शङ्करबालकृष्णेन शकानन्तरद्वादशशतकमभितः मौसलराज्यस्थापनानन्तरमेव ताजिकशास्त्रमत्र प्रवर्ततमिति । तद्गणेशदैवज्ञस्योपर्युक्तकथनेन न संवृदते न च परम्परया । गोचरफलादेशोऽस्माकमेव विषयः । मध्यकाले यत्र भारतीयाचणां दृष्टिः सिद्धान्तप्रणयने प्रवृत्ताऽऽसीत्तदा यवनेषु ताजिकविषयं समनोयोगं विकासितम् । तदेव सौकर्यादस्माभिर्यत्र कुत्रानुदितमात्रम् ।

गर्गादिमुनिप्रणीतं ताजिकशास्त्रं सत्याचार्यप्रोक्तताजिकग्रन्थाश्च यद्यपि सम्प्रति स्वरूपेण नैवोपलभ्यन्ते, तथापि ततो गृहीतान्युद्धरणानि तु यत्र तत्र दृश्यन्त एव । सत्याचार्यों हि वराहेणापि सादरं स्मृतः । सोऽपि ताजिक स्वग्रन्थे निरूपितवानिति कथङ्कारमुच्यते भारते ताजिकशास्त्रं शकानन्तरद्वादशशतकमुभिंतंः प्रविष्टमितिं । स्वयंमेव ताजिकशब्दः तात्कालिकांख्दस्य विकृतिरिति तेन विदुषा नैव विचारितम् । ग्रहाणां हि जन्मलग्नवशाद्यत्फलं यच्च तात्कालिकराशिवशात् फलमुझे एव फलितज्योतिषस्य दक्षिणवामलोचने ।

सामान्यतस्ताजिकशास्त्रे संज्ञातन्त्रं वर्षतन्त्र प्रश्नतन्त्रञ्चेति त्रीणि विषयाणि निरूपितानि दृश्यन्ते । वस्तुतस्तु वाषिकतन्त्रमेवास्य विषयः प्राधान्येन । संज्ञाप्रश्नतन्त्रे तु पूरके एव ।।

सत्याचार्यानन्तरं ये हि ताजिकग्रन्था अस्माभिः श्रुता दृष्टाश्च तेषां । सक्षिप्त परिचयोऽत्रोपस्थाप्यते ।

ताजिकतन्त्रसारः

सम्पादयतु

समरसिंहप्रणीतोऽयं ग्रन्थः । अस्य १३५६ शके लिखित प्रतिलिपिर्लभ्यते । इति तस्य ततोऽपि प्राग्वतित्व सिध्यति । असावेव हायनरत्नकारेण स्मृतः । अतोऽस्य सङ्ग्रहकालः १२५० शकाब्दमभितः ।

दैज्ञालङ्कृतिः

सम्पादयतु

ग्रन्थोऽयं तेजःसिंहाख्येन दैवज्ञेन १३०० मितशकाब्दमभितः ( भाण्डारकरसाक्ष्येण ) प्रणीतः । ग्रन्थेऽस्मिन्नपि त एव विषया निरूपिता विशेषेण वाषिकतन्त्रम् ।

केशवीयताजिकपद्धतिः

सम्पादयतु

ग्रन्थोऽयं केशवाख्येन नन्दिग्रामवास्तव्येन विदुषा १४१५ भितशकाब्दमभितः प्रणीतः । ग्रन्थस्यास्य मल्लारिणा विश्वनाथेन च टीकाः कृताः । ग्रन्थकर्तुरस्यैव जातकपद्धतिरप्यतीव लब्धप्रसरा ।।

ताजकतारः

सम्पादयतु

ग्रन्थोऽयं १४४५ भितशकाब्दमभितो हरिभट्टाख्यदैवज्ञेन प्रणीतः । अत्र हि प्राधान्येन वर्षतन्त्र निरूपितम् ।।

ताजिकभूषणपद्धतिः

सम्पादयतु

ग्रन्थोऽयं जातकभरणस्य कर्तुः ढुण्डिराजस्य सुतेन गणेशेन १४८० मितशकाब्दमभितः प्रणीतः । अत्र हि सर्वाण्यपि ताजिकसम्बद्धतन्त्राणि विवेचितानि ।

सिहलताजिकम्

सम्पादयतु

सिंहलताजिकस्यास्तित्वं तु ग्रन्थान्तरादपि सिध्यति । सिंहलताजिकोक्ताः षोडशयोगाः' इति ग्रन्थः सारस्वतसुषमायां (ज्येष्ठपूर्णिमा २०२१) प्रकाशितः । ग्रन्थेऽस्मिन् ये खलु योगा उक्तास्ते ताजिकनीलकण्ठीवर्णितयोगेभ्यो विलक्षणा एव । यथा षोडशयोगाः सिंहलताजिकोक्ताः--

‘गुलाला गुलाली खुशाला खुशाली फलासा फलूसी वदारा वदारी ।

तमाला तमाली तगीतेगतेगा नमीसावसजीरसञ्जीवयोगाः ।।

ताजिकनीलकण्ठ्यां तु-

‘प्रागिक्कबालोऽपर इन्दुवारस्तथेत्थशालोऽपर ईसराफः ।

नक्तं ततः स्याद्यमया मणाऊ कब्बूलतो गैरिकबूलमुक्तम् ।।

खल्लासरं रद्दमथो दुकालिकृत्यञ्च दुत्थोत्थदिवीरनामा ।

तम्बीरकुत्थौ दुरफश्च योगाः स्युः षोडशेषां कथयामि लक्ष्म ॥' इति ।

यवनोक्तास्तु यथा -

‘मुकाविल्लकाविल्ललालीललत्ताऽरिहन् दोशनागोशना चीनकोशाः ।

कलावारवारासमाशल्यदिल्ला तथा बादला सन्दला चेति योगाः ॥' इति ।

योगा न केवलं नामत एव भिन्ना अपितु स्वरूपतोऽपि । सिंहलशब्दो देशवाचको व्यक्तिवाचको वेति नाधुनाऽपि निर्णीतः । अस्माकं मते तु सिंहलाख्यः कश्चिदाचार्य एव किन्तु न हि किञ्चिदत्र प्रबलं प्रमाणम् । न चास्य प्रणयनकाल एव ज्ञातः ।।

हायनरत्नम्

सम्पादयतु

ग्रन्थोऽयं १५०० मितशकाब्दे दामोदरपुत्रेण कान्यकुब्जवासिना बलभद्रमिश्रेण प्रणीतः । यथोक्तं तदारम्भे -

'गणाधिपं रामगुरोः पदाब्जं दामोदराख्यं पितरञ्च नत्वा ।

प्राचीनपौर्बलभद्रनामा करोति सद्धायनरत्नसंज्ञम् ॥

ग्रन्थमिमं नीलकण्ठो बहुशः स्मरति ।

ताजिकनीलकण्ठी

सम्पादयतु

ग्रन्थोऽयं १५०९ मितशकाब्दमभितः चिन्तामणिपौत्रेण अनन्तपुत्रेण नीलकण्ठेन रामदैवज्ञाग्रजेन प्रणीतः । अत्र हि संज्ञा-वर्ष-प्रश्नभेदेन त्रीणि तन्त्राणि सन्ति । ग्रन्थान्ते यथोक्तम् -

'शाके नन्दाभ्रबाणेन्दुमिते आश्विनमासके ।

शुक्लेऽष्टम्यां समातन्त्रं नीलकण्ठबुधोऽकरोत् ।।' इति ।

अस्य प्रारम्भवाक्यं यथा-

‘प्रणम्य हेरम्बमथो दिवाकरं गुरोरनन्तस्य तथा पदाम्बुजम् ।

श्रीनीलकण्ठो विविनक्ति सूक्तिभिस्तत्ताजिकं सुरिमनःप्रसादकृत् ॥ १।। इति ।

ग्रन्थोऽयं समरसिंहग्रन्थं शतशोऽनुवदति । तत्र हायनसुन्दरग्रन्थोऽपि स्मृतो नीलकण्ठेन । तदैतिथं नैव ज्ञातमस्माकम् । सत्स्वपि ग्रन्थेष्वन्येषु विषयेऽस्मिन् ताजिकनीलकण्ठी प्रामाणिको ग्रन्थः । अस्योपरि नीलकण्ठपुत्रस्य गोविन्दस्य रसालाख्या ( १५४४ श० ) तत्पुत्रस्य माधवस्य (१५५५ श० ) विश्वनाथस्य च टीकाः सन्ति ।

ताजिककौस्तुभः

सम्पादयतु

ग्रन्थोऽयं बालकृष्णाख्येन विदुषा १५७१ शकाब्दे प्रणीतः ।।

ताजिकभूषानिधिः

सम्पादयतु

ग्रन्थोऽयं नारायणाख्येन विदुषा १६६० शकाब्दे प्रणीतः । असौ स्वप्रकृतिकग्रन्थान्तरापेक्षया सुविस्तृतो ग्रन्थः । ।

एते हि कतिपये ताजिकग्रन्थाः समासतो निदिष्टाः । जातकग्रन्थानामिव ताजिकग्रन्थानामपि अस्त्यानन्त्यम् । तेषामनुसन्धानं समुल्लेखनञ्च भाविविपश्चितामेव कार्यम् ।

प्रश्नतन्त्रम्

सम्पादयतु

प्रश्नतन्त्रं हि होराशास्त्रस्यापरमङ्गम् । प्रश्नलग्नमाधारीकृत्य फलादेशकशास्त्रमेव प्रश्नशास्त्रमित्युच्यते । वस्तुतस्त्वयं तात्कालिकशास्त्रम् ।

एकतः प्रश्नतन्त्रं हि जातकशास्त्रे ताजिकशास्त्रे च परिशिष्टरूपेणापि विवेचितं दृश्यतेऽपरतः सन्त्यस्यापि स्वतन्त्रग्रन्था अपि ।

प्रश्नशास्त्रं हि वस्ततो न जातकस्कन्धस्य न वा ताजकस्कन्धस्यैवाङ्गमपित होराशास्त्रस्य तदुभयविलक्षणमेवाङ्गम् । अस्योत्पत्तिमादाय ताजिकनीलकण्ठ्यामुक्तम् -

'दैवज्ञस्य हि दैवेन सदसत्फलवाञ्छया ।

अवश्यं गोचरे मर्त्यः सर्वः समुपनीयते ।।

अश्रौषीच्च पुरा विष्णोर्शानाय समुपस्थितः ।

वचनं लोकनाथोऽपि ब्रह्मा प्रश्नादिनिर्णयम् ॥” इति ।

विषयस्यास्यार्षग्रन्थत्वेन प्रश्ननादी गृह्यते । अथैतद्विषयस्य कतिपये ग्रन्था अत्र सारतः स्मर्यन्ते ।

प्रश्ननारदी

सम्पादयतु

प्रश्ननारदी हि नारदप्रणीतत्वेन ख्याता । सन्त्यत्र द्वात्रिच्छ्लोकाः ।। कथ्यते ह्यसौ नारदसंहिताया अङ्गमिति किन्तु तस्य साम्प्रतिकस्वरूपे भागोऽयं न लभ्यते ।

प्रश्नज्ञानम्

सम्पादयतु

ग्रन्थोऽयं भट्टोत्पलप्रणीतः । असो हि विषयस्यास्य नातेषुषलब्धेषु च पौरुषेयग्रन्थेषु प्रथमः । अत्र हि सन्ति द्विसप्ततिमिता आर्याः । ग्रन्थमिमं षटपञ्चाशिका टीकायां भट्टोत्पल एवोद्धरति ।

प्रश्नसारः

सम्पादयतु

ग्रन्थोऽयं नृसिंहाख्येन विदुषा १५५० मितशकाब्दमभितः प्रणीतः । असौ हि रघुनाथस्य पुत्रः । अत्र हि गर्भ विचारः, विद्याविवाहविचारः, गृह-युद्ध-, विचारः, जयपराजयविचारः, यात्राविचारः, क्रयविक्रयविचार इत्यादिविषयाः निरूपिताः । ग्रन्थान्ते प्रोक्तम्--

‘श्रीमत्समस्तावनिमण्डलायः कृपाकराचार्यनुताङ्घ्रिपद्मः ।

श्रीरङ्गनाथस्तनुजेन तस्य नृसिंहनाम्नाऽतिकृतं हि सारम् ॥' इति ।

प्रश्नमाणिक्यमाला

सम्पादयतु

ग्रन्थोऽयं परमानन्दपाठकेन प्रणीतः । भागचतुष्टयात्मकः । अस्य हि चरमो भागस्तत्सुतेन उमापतिना पूरितः । अस्य हि १६७० मितशकाब्दमभितः स्थितिकालः ।

एतदतिरिक्तमपि सन्त्यन्येऽपि प्रश्नविषयकग्रन्थाः येषामनुसन्धानं प्रचारश्वापेक्षितः ।

केरलमतम्

सम्पादयतु

जातकेषु हि केरलमतं किञ्चिद्विलक्षणमेव वैशिष्टयमावहति जातकान्तरापेक्षया । सन्ति बहुशः केरलमतविषयकग्रन्थाः । केरलमतं हि केरलिप्रोक्तम् । यथोक्तं केरलप्रश्नसङ्ग्रहे-

‘त्रैलोक्यफलबोधाय येन दिव्येन चक्षुषा ।

त्रिकालविषयाः प्रोक्तास्तस्मै केरलये नमः ॥' इति ।

केरलमतमाश्रित्य प्रणीतेषु ग्रन्थेषु केरलप्रश्नसङ्ग्रहः सर्वत्र लब्धप्रसरो ग्रन्थः । असौ हि पूर्वोत्तरभागात्मकः । तत्र पूर्वंभागे ६८ मिता उत्तरार्द्ध ७५ मिताः श्लोकाः सन्ति । केरलमतविषये समधिकं ज्ञानमपेक्षितम् ।

सामुद्रिकशास्त्रम्

सम्पादयतु

सामुद्रिकशास्त्रमपि होराशास्त्रस्य प्रसिद्धमङ्गान्तरम् । अस्य हि प्राचीनत्वं वराहमिहिरोऽधिवक्ति कथनेनानेन -

'उन्मानमानगतिसंहतिसारवर्णं स्नेहखरप्रकृतिसत्त्वमनूकमादौ ।

क्षेत्रं भुजाञ्च विधिवत्कुशलोऽवलोक्य सामुद्रविद्वदति यातमनागतञ्च ।'[]

यत्र हि नराणामङ्गादिवशात् फलादेशः क्रियते तत्सामुद्रिकमिति । समुद्रे प्रोक्तं लक्षणं सामुदमिति भट्टोत्पलः । आर्षेषु महाभारते सामुद्रसम्बद्धवचनानि लम्यन्ते दुर्योधनादिवर्णने । ततश्च विषयोऽयं क्रमेण संहिताऽङ्गत्वेन विकसितः पश्चाद्धोराशास्त्राङ्गतां प्राप्तः । सम्प्रत्युपलब्धस्वतन्त्रग्रन्थेषु मेधाविजयगणिनो हस्तसञ्जीवनं सर्वतः प्रसिद्धम् । तत्रोक्तं यज्ज्ञानमिदं श्रीमती सामुद्रेण मुनिना प्रवततं नारदगर्गपराशरादिभिव्यख्यातं विस्तारितञ्च । यथोक्तम् -

सर्वाङ्गलक्षणप्रेक्षाव्याकुलानां नृणां मुदे ।

श्रीसामुद्रेण मुनिना तेन. हस्तः प्रकाशितः ॥' इति ।

तथैव तत्रोक्तम् -

'अङ्गविद्या निमित्तानामष्टानामपि गीयते ।।

मुख्या शुभाशुभज्ञाने नारदादिनिवेदिता ।'

अष्टौ निमित्तानि च यथा -

'अङ्गं स्वप्नः स्वरश्चैव भौमं व्यञ्जनलक्षणे ।।

उत्पाता अन्तरिक्षञ्च निमित्तं स्मृतमष्टकम् ।।' इति ।

हस्तसञ्जीवनं हि प्रबोधिनीटीकया समलङ्कृत्य गणेशदत्तेन प्रकाशितम् । ग्रन्थोऽयं १६०२ मितशकाब्दमभितः प्रणीतः ।

रमलशास्त्रम्

सम्पादयतु

रमलशास्त्रं हि पाशकविद्याऽप्युच्यते । निर्दिष्टकोष्ठकेष्वन्यतमस्य स्पर्शे वा वरणे या स्थितिघंटते तदनुसारेण फलकथनमेव रमलशास्त्रविषयः ।

रमलशास्त्रमपि प्रश्नविद्याङ्गत्वेन, प्राक्काले समुदितं यवनेषु विकसितमिति यावनपरिचयरूपेण रमलशब्देन छोत्यते । रमते इति रमः पचाद्यच् लाति इति लः ज्ञवत् । रमस्य लः रमलः इत्यप्यपरे ।

रमलशास्त्रस्य सिद्धेऽपि प्राचीनत्वे पौरुषेयग्रन्थेषु भट्टोत्पलस्य, रमलग्रन्थ एव प्रथमत्वेन गृह्यते । एतदेवाधिकं सम्भाव्यते यद भट्टोत्पलंस्य प्रश्नशाने एव रमलविषयोऽपि समावेशितः स्यात् । भट्टोत्पलप्रणीतो रमलग्रन्थ असीदिति आफेचसूच्यां दृश्यते किन्तु सुधाकरस्तदुपेक्षते ।। | श्रीपतेरपि रमलविषयकग्रन्थ असीदिति आफ्रेंचसूचीतो ज्ञायते । सम्भवतः सोऽपि रत्नावल्यामेव समावेशितं स्यायेन हि सुधाकरस्तमप्युपेक्षते ।

चिन्तामणिसंशकेन दैवज्ञेन रमलचिन्तामणिः प्रणीता। अंत्र हि श्लोकानां सप्तशती विद्यते । ग्रन्थोऽयं १६०० मितशकाब्दात् प्रागेव प्रणीत इति तस्य १६५३ मिताकाब्दे कृतेन पुनर्लेखनेन ज्ञायते ।।

जयरामारूयेन विदुषा १६६७ मितशकाब्दमभितः रमलामृताख्यो अन्थः । प्रणीतो यस्य सङ्ख्या अष्टशती श्लोकानाम् । ।

परमसुखोपाध्यायस्य रमलनवरत्नमेव सर्वत्र लब्धप्रसरं रमलग्रन्थेषु । ग्रन्थोऽयं १७२२ मितशकाब्दे प्रणीतः । यथोक्तं तत्रावसाने

'नवरसवसुचड़े वत्सरे वैक्रमीये त्रितयतिथिसुचन्दे फाल्गुने शुक्लपक्षे।' इति ।

ग्रन्थकर्तुः परिचयो यथा ग्रन्थारम्भे -

'सनाढ्योपाध्यायद्विजकुलवरे मे जनिरभू

पिता सीतारामो वरमतिरनूपा च जननी ।'

ग्रन्थेऽस्मिन् संज्ञा-बलाबल-प्रश्नापकरण-प्रश्नकथन-अवधिकथन-मुष्टिकथन: मूकप्रश्न-चौरनामकथन-वर्षपत्रकथनेति नवरत्नानि निरूपितानि सन्ति । | इत्थं हि रमलशास्त्रमपि शास्त्रान्तरवत् समृद्धं लोकोपकारि च ।

स्वप्नशास्त्रम्

सम्पादयतु

सुप्तस्य मनसश्चेष्टा स्वप्नः । स्वप्नमादाय फलादेशकं हि स्वप्नशास्त्रम् । स्वप्नशास्त्रं हि शास्त्रान्तराङ्गत्वेन बहुधा विकसितं दृश्यते स्वतन्त्ररूपेण च ।

इत्थं हि होराशास्त्रमनेकभेदेन समृद्धं यदाश्रित्य जना भूतभविष्यज्ज्ञानेन कृतार्थाः भवितुमर्हन्ति ।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. ( बृहत्संहिता ६७।१ )
"https://sa.wikipedia.org/w/index.php?title=ताजिकशास्त्रम्&oldid=457953" इत्यस्माद् प्रतिप्राप्तम्