तानहं द्विषतः क्रूरान्...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
- क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य नवदशः (१९) श्लोकः ।
पदच्छेदः
सम्पादयतुतान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥
अन्वयः
सम्पादयतुद्विषतः क्रूरान् अशुभान् तान् नराधमान् संसारेषु आसुरीषु योनिषु एव अजस्रम् अहं क्षिपामि ।
शब्दार्थः
सम्पादयतु- द्विषतः = शत्रून्
- क्रूरान् = उग्रान्
- अशुभान् = अपवित्रान्
- नराधमान् = नीचमानवान्
- संसारेषु = भवेषु
- आसुरीषु = राक्षसीषु
- अजस्त्रम् = सन्ततम्
- क्षिपामि = पातयामि ।
अर्थः
सम्पादयतुये मां द्विषन्ति, क्रूराः अशुभाश्च सन्ति आसुरगुणसम्पन्नाः तादृशान् नरापसदान् अहं सर्वदा संसारे एव पातयामि, तत्रापि आसुरस्वभावेषु एव जन्म कल्पयामि ।