तापीमण्डलम्
तापीमण्डलम् (गुजराती: તાપી જિલ્લો, आङ्ग्ल: Tapi district) इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति व्यारा इति नगरम् ।
तापीमण्डलम् | |
---|---|
मण्डलम् | |
गुजरातराज्ये तापीमण्डलम् | |
Country | भारतम् |
States and territories of India | गुजरातराज्यम् |
Headquarters | व्यारा |
Area | |
• Total | ३,४३५ km२ |
Population (२०११) | |
• Total | ८,०६,४८९ |
Languages | |
• Official | गुजराती, हिन्दी |
Website | tapi.gujarat.gov.in |
भौगोलिकम्
सम्पादयतुतापीमण्डलस्य विस्तारः ३,४३५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे सुरतमण्डलम्, उत्तरे नर्मदामण्डलं, दक्षिणे डाङ्गमण्डलम् अस्ति । अस्मिन् मण्डले १९२६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- तापी, पूर्णा, अम्बिका ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं तापीमण्डलस्य जनसङ्ख्या ८,०६,४८९ अस्ति । अत्र ४,०२,३९८ पुरुषाः ४,०४,०९१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.०७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ६९.२३% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ वालोड २ व्यारा ३ सोनगढ ४ उच्छल ५ निझर
कृषिः वाणिज्यं च
सम्पादयतुतापीमण्डलं कृषिप्रधानम् अस्ति । धान्यानि, कलायः, कार्पासः, फलानि, शाकानि, गन्धद्रव्याणि च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । वस्त्रोत्पादनं, 'सिमेण्ट्', कर्गजोद्यमः, शर्करोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
वीक्षणीयस्थलानि
सम्पादयतुसोनगढ इत्यस्मिन् उपमण्डले स्थितः दुर्गः, गौमुखं, हिन्दूस्थानसेतुः, डोसवाडाजलबन्धः ('डोसवाडा ड्याम्'), उकाई-जलबन्धः ('उकाई ड्याम्'), रोकाडिया-हनुमानमन्दिरं, परशुरामजी, सूर्यतापेश्वरमन्दिरं, कल्याणरायजीमन्दिरं, गायत्रीमातामन्दिरं, साईबाबामन्दिरं, फिरङ्गीमाताजी-जलाराममन्दिरं, मारीमातामन्दिरं च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।