गुजराती(ગુજરાતી)(Gujarathi) भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । गुजरातराज्यस्य राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । महात्मा गान्धिः, सरदार् वल्लभभायी पटेलः, स्वामी दयानन्दसरस्वती, मोरारजी देसायी, जे.आर्.डि.टाटा, धीरूभाई अंबानी, महम्मद् आलि जिन्ना इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।

गुजरातीभाषा
विस्तारः फलकम्:Country data Country1
फलकम्:Country data Country2
प्रदेशः गुजरातराज्यम्
Ethnicity people for whom this is the ethnically native language; also good for the ethnic population if
भाषाकुटुम्बः
Default
  • गुजरातीभाषा
भाषा कोड्
ISO 639-3
गुजरातराज्यस्य मानचित्रम्

इतिहासः

सम्पादयतु

वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते गुजरात-राजस्थानराज्ययोः अस्याः लिपेः उपयोगः दृश्यते । इयं लिपिः महाजनी इति कथ्यते । अस्याः वर्णमाला संस्कृतजन्या विद्यते । अक्षराणाम् आकारः देवनागर्याः सदृश्यतां भजते ।

 
१८९२-कालावधौ लिखितस्य पुस्तकस्य कश्चन भागः

गुजरातीभाषा भारोपीयभाषापरिवारस्य भारतीय-इरानी-उपवर्गस्य भारतीय-आर्यशाखायाम् अन्तर्भूता भाषा । भारतीय-आर्यगणस्य प्रमुखशाखाद्वयं (उत्तरशाखा - पहाडि, पञ्जाबी, लहन्दा, सिन्धी, कच्छिभाषाश्च । पूर्वशाखा - वङ्ग, असम, ओरियाभाषाश्च ।) पृथक् यदा जातं तदा पश्चिमशाखा(गुजराती, राजस्थानी, भीली), दक्षिणशाखा(मराठी, कोङ्कणी), मध्यमशाखा(पश्चिमहिन्दी) च पृथक् जाताः । मध्यमशाखाभाषायां नामवाचिनः पुंलिङ्ग-एकवचनस्य रूपम् अकारान्तं भवति चेत् पश्चिमशाखाभाषासु ओकारान्तं रूपं दृश्यते । उदा - घोडा (अश्वः) इत्येतत् पदं गुजरातीभाषया घोडो जातमस्ति । पश्चिम-दक्षिणशाखाभाषासु नपुंसकलिङ्गं विद्यते ।

ध्वनिव्यवस्था

सम्पादयतु

गुजरातीभाषायाः ध्वनिव्यवस्थायाः वैशिष्ट्यम् -

अष्ट स्वराः
न-ण, ल-ळ इत्येतेषां स्पष्टध्वनिघतकाः
षट् स्वराः अनुनासिकाः अपि भवितुम् अर्हन्ति
सर्वे स्वराः घोषाः अर्धघोषाः च भवितुम् अर्हन्ति
ह्रस्वस्वराः विद्यन्ते चेदपि स्वरमात्रायाः अधिकं महत्त्वं न विद्यते
 
गुजरातीमातृका-गान्धेः कुटीरं प्रति गमनाय सङ्केतः

व्याकरणम्

सम्पादयतु

नामरूपेषु लिङ्गत्रयं, वचनद्वयञ्च विद्यते । विशेष्य-विशेषण-कृदन्तरूपाणि त्रिषु लिङ्गेषु एकवचने बहुवचने च प्राप्तुं शक्यानि । विभक्तित्रये रूपाणि स्पष्टतया प्राप्तुं शक्यानि - प्रत्यक्ष-एकवचनम्, प्रत्यक्ष-बहुवचनम्, परोक्षरूपञ्च । एवं पुंलिङ्गनामपदानि(दिक्रो) रूपद्वयं, नपुंसकलिङ्गनामपदानि(माथू) त्रीणि रूपाणि च प्राप्नुवन्ति । सबलनामपदानां (हाथि, मच्चर्) स्त्रीलिङ्गनामपदानाञ्च(दिक्रि, सत्ता, तमाखु) विभक्तिप्रत्ययाः न भविष्यन्ति ।

पुरुषवाचकम्

सम्पादयतु

पुरुषवाचकसर्वनामसु लिङ्गविवक्षा न भवति । उत्तमपुरुष-बहुवचनेषु समावेशि(आप्णे) असमावेशि(अमे) सर्वनाम्नां प्रत्येकं रूपाणि विद्यन्ते ।

क्रियापदरूपेषु पुरुष-वचनव्यवस्था विद्यते । परप्रत्ययानां योजनेन काल-अवस्था-विशेषाः निर्दिश्यन्ते । 'हो' इत्येतेन सहायकक्रियापदयुक्तैः बहुपदरचनानां द्वारा पूर्णकालाः सूचयिष्यन्ते । तात्कालिकवर्तमानकालिक-भूतकालिक-पूर्वकालिकरूपाणि कृदन्तानि भवन्ति । नामपदेभ्यः इव एतेभ्यः अपि विभक्तिप्रत्ययाः योजयितुं शक्याः । एकवचने द्वयं बहुवचने द्वयम् इव रूपचतुष्टयं स्पष्टतया प्राप्तुं शक्नुमः ।

बाह्यशृङ्खला

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=गुजरातीभाषा&oldid=486276" इत्यस्माद् प्रतिप्राप्तम्