तुलसीकषायम्
तुलसीपत्रैः निर्मितं कषायम् एव तुलसीकषायम् । एषा तुलसी आङ्ग्लभाषायां Holy Basil (Ocimum tenuiflorum) इति वदन्ति ।
तुलसीकषायस्य प्रयोजनानि
सम्पादयतु- १ एतत् तुलसीकषायम् आरोग्यार्थं बहु उत्तमम् ।
- २ तुलसीकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना, कीटबाधा इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
- ३ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् तुलसीकषायम् पातुं शक्यते ।
- ४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् तुलसीकषायं दातव्यम् ।
अस्य तुलसीकषायस्य निर्माणम्
सम्पादयतुतुलसीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।