प्रमुखा विकल्पसूचिः उद्घाट्यताम्
जलबिन्दुः

जलम् ( /ˈələm/) (हिन्दी: जल, आङ्ग्ल: Water) एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः (Blue Planet ) इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।[१]

अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते ।[२]

अन्तर्विषयाः

जलीयचक्रम्सम्पाद्यताम्

जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते । किन्तु केषुचित् क्षेत्रेषु अल्पमात्रायाम् एव प्राप्यते । पृथिव्यां पातुं योग्यं जलम् अल्पमात्रायाम् एव अस्ति । जलस्य आवश्यकता सर्वत्र अधिका वर्तते । अतः सर्वत्र जलसमस्या उत्पद्यते । नदीनां जलं प्रदूषितं भवति । तेन समस्याः उत्पद्यन्ते ।[३]

जलस्य वितरणम्सम्पाद्यताम्

पृथिव्याः ७५% भागः जलेन आच्छादितः वर्तते । यद्यपि पृथिव्यां स्थलस्य अपेक्षया जलस्य मात्रा अधिका वर्तते, तथापि अनेकेषु देशेषु जलसमस्या अस्ति । किन्तु पृथिव्याः सम्पूर्णं जलं पातुं योग्यं नास्ति ।

पृथिव्याः ९७.३०% जलं महासागरेषु विद्यते । हिमाच्छादितं जलं २%, भूमिगतं जलं ०.६८%, तडागानाम् (lake) अलावणं जलं ०.००९%, स्थलीयसमुद्राणां, लवणीयतडागानां जलं ०.००९%, वायुमण्डले जलं ०.००१९%, नदीषु जलं ०.०००१% वर्तते ।[४]

आधुनिके काले नाल-कूपमाध्यमेन जलसिञ्चनं क्रियते । जनाः तेन माध्यमेन जलसङ्ग्रहणं कुर्वन्ति । तज्जलस्य वितरणम् अपि कुर्वन्ति । सर्वकारः जनेभ्यः जलवितरणाय नगरे महाभाण्डानां रचनां करोति[५] । तदनन्तरं तेषु महाभाण्डेषु नाल-कूपमाध्यमेन जलं प्रपूर्य जनेभ्यः जलवितरणं करोति । तज्जलं प्रतिगृहं प्राप्यते । किन्तु साम्प्रतं सर्वत्र जलस्य अशुद्धिः दृश्यते । तेन कारणेन बहवः रोगाः समुद्भवन्ति । वर्तमानकाले सर्वकारेण जलवितरणस्य व्यवस्था प्रचाल्यते । प्राचीनकाले जलस्य प्राप्तेः स्थानानि परिवर्तितानि । तेन जलस्य गुणदोषेषु अपि परिवर्तनं दृश्यते [६]

जलस्य विभिन्ननामानिसम्पाद्यताम्

  • यदा वर्षा भवति, तदा वर्षाजलं एकत्रितं भवति । एकीभूय प्रवाहेण तज्जलं पर्वतान् अपि उल्लङ्घयति । तदनन्तरं तज्जलं विशालक्षेत्रं प्राप्य नदीस्वरूपं धरति । तज्जलं नादेयम् इति कथ्यते[७]
  • यज्जलं भूमिम् उद्भिद्य धारारूपेण प्रवहति, तज्जलम् उद्भिजम् इति कथ्यते ।
  • यज्जलं पर्वतस्य उन्न्तप्रदेशात् अधः पतति, तत् निर्झरः भवति । तदा तज्जलं नैर्झरम् इति कथ्यते ।
  • यत्र जलं पर्वतैः अवरुध्यते तत्र सरोवराः जलाशयाः वा भवन्ति । तज्जलं सारसम् इति उच्यते ।
  • भूमिम् उद्भिद्य पाषाणैः गहनकूपस्य रचना क्रियते । यस्मिन् कूपे बहुजलराशेः सङ्ग्रहः भवति । तज्जलम् कौपम् इति कथ्यते [८]
  • यत्र सोपानानि निर्मीय चतुष्कोणाकृतौ जलसङ्ग्रहः भवति, तत् स्थानं वापीः उच्यते । वाप्याः जलं वाप्यम् इति कथ्यते ।
  • लघुतडागः वा लघुसरोवरः पल्वम् कथ्यते । तज्जलं पाल्वम् इति कथ्यते ।

इत्थं पुरा स्थानानुसारं जलनामानि भवन्ति स्म । जलस्य गुणाः अपि नामानुसारं भिन्नाः भवन्ति स्म[९]

वायुमण्डले जलम्सम्पाद्यताम्

वायौ जलबाष्पः प्राप्यते । ऋतूनां परिघटनायाम् अस्य महत्वपूर्णं योगदानं वर्तते । वायुमण्डले जलं तिसृषु अवस्थासु प्राप्यते । वायुः, द्रवमयं, कठोरं च । जलाशयेभ्यः बाष्पीकरणेन, पादपेषु बाष्पोत्सर्जनेन च वायुमण्डले आर्द्रता प्राप्यते । अतः एव बाष्पीकरणस्य, बाष्पोत्सर्जनस्य, सङ्घननस्य, वर्षायाः च प्रक्रियया वायुमण्डलस्य, महासागरस्य, महाद्वीपस्य च मध्ये जलस्य परस्परम् आदान-प्रदानं च भवति ।[१०]

वायौ उपस्थितः जलबाष्पः आर्द्रता कथ्यते । वायुमण्डले स्थितस्य जलबाष्पस्य वास्तविकमात्रा निरपेक्षार्द्रता कथ्यते ।

बाष्पीकरणं सङ्घननञ्चसम्पाद्यताम्

बाष्पीकरणेन, सङ्घननेन च वायुमण्डले जलबाष्पस्य मात्रा अल्पाधिका भवति । बाष्पीकरणप्रक्रियया जलं द्रवरूपात् बाष्पावस्थायां परिवर्तते । ताप एव बाष्पीकरणस्य मुख्यकारणं वर्तते । यावत् वायोः गतिः तीव्रा भवेत् तावत् बाष्पीकरणस्य तीव्रता भवति ।

जलबाष्पस्य जलरूपे परिवर्तनं सङ्घननं कथ्यते । ऊष्मायाः ह्रासः एव सङ्घननस्य कारणं वर्तते । यदा आर्द्रवायुः शीतलः भवति, तदा तस्य जलबाष्पधारणस्य क्षमता नष्टा भवति । ततः अतिरिक्तः जलबाष्पः द्रवे सङ्घनितः भवति । यदा सः जलबाष्पः कठोररूपे परिवर्तते, तदा ऊर्ध्वपातनम् इति कथ्यते । सङ्घनने लघुकणाः सङ्घननकेन्द्रकाः कथ्यन्ते । वायुमण्डले तापमानस्य न्यूनता सङ्घननाय सु-अवस्था वर्तते ।

सङ्घननात् परं वायुमण्डलस्य जलबाष्पः, आर्द्रता च अवश्यायस्य (Dew), खबाष्पस्य (Mist), हिमस्य, मेघस्य च स्वरूपे परिवर्तते । स्थितेः तापमानस्य आधारेण सङ्घननस्य प्रकाराः वर्गीकृताः ।[११]

अवश्यायः (Dew)सम्पाद्यताम्

यदा आर्द्रता धरातले, पाषाणेषु, तृणेषु, पादपानां पत्रेषु च जलबिन्दु एव स्थिता भवति, तदा इयम् आर्द्रता अवश्यायः कथ्यते । अस्य निर्माणे सर्वोपयुक्तायाः अवस्थायाः, स्वच्छाकाशस्य, शान्तवायोः आवश्यकता वर्तते ।[१२]

हिमःसम्पाद्यताम्

यदा सङ्घननं तापमानस्य ० º सेल्सीयस् इत्यतः अपि अधः गच्छति, तदा शीतलस्तरेषु हिमस्य निर्माणं भवति । शेषाः जलबिन्दवः लघुहिमकणेषु परिवर्तन्ते । [१३]

खबाष्पः(Mist)सम्पाद्यताम्

यदा अधिकमात्रायां जलबाष्पयुतः वायुः सहसा अधः पतति, तदा लघुकणेषु एव सङ्घननप्रक्रिया भवति । अतः खबाष्पः भवति । अस्य आधारः भूस्तरः वा भूस्तरस्य समीपे भवति । खबाष्पेन दृश्यता न्यूनं भवति । नगरीयकेन्द्रेषु, औद्योगिककेन्द्रेषु च धूमस्य अधिकतायाः कारणेन केन्द्रकानाम् अपि आधिक्यं भवति । तेन खबाष्पनिर्माणे साहाय्यं भवति । केन्द्राणां परितः सङ्घननप्रक्रिया भवति ।[१४]

मेघःसम्पाद्यताम्

जलस्य लघुबिन्दुभिः, हिमस्य लघुकणैः मेघस्य निर्माणं भवति । सः अधिकोच्चतायां स्वतन्त्रवायौ जलबाष्पस्य सङ्घननेन निर्मीयते । मेघस्य निर्माणं भूस्तरात् अल्पोच्चतायाम् एव भवति । अतः मेघाः विभिन्नाकारेषु दृश्यन्ते । उच्चतायाः, विस्तारस्य, घनत्वस्य, पारदर्शितायाः, अपारदर्शितायाः च आधारेण मेघानां चतुर्षु रूपेषु विभाजनं कृतम् अस्ति । पक्षाभमेघः, कार्पासीयमेघाः, स्तरीयमेघः, वर्षामेघः च ।[१५]

पक्षाभमेघःसम्पाद्यताम्

८,००० तः १२,००० मी. पर्यन्तम् औन्नत्ये पक्षाभमेघस्य निर्माणं भवति । यदा आकाशे अयं प्रशोचते, तदा इमे पक्षाः इव दृश्यन्ते । इमे सदैव श्वेतवर्णीयाः एव विद्यन्ते ।

कार्पासीयमेघःसम्पाद्यताम्

कार्पासीयमेघः कार्पासमिव दृश्यते । इमे प्रायः ४,००० तः ७,००० मी. पर्यन्तम् औन्नत्ये निर्मीयन्ते । एतेषाम् आधारः समतलः भवति ।

स्तरीयमेघःसम्पाद्यताम्

नाम्ना एव ज्ञायते यत् इमे स्तरयुताः मेघाः सन्ति । एतेषां निर्माणम् उष्मायाः ह्रासेन वा तापमाने वायूनां परस्परमेलने भवति ।

वर्षामेघःसम्पाद्यताम्

वर्षामेघः कृष्णवर्णीयः वर्तते । अयं भूतलस्य समीपे भवति । सूर्यकिरणेभ्यः इमे अपारदर्शिनः भवन्ति । कदाचित् वर्षामेघाः अल्पौन्नत्ये भवन्ति, तेन भूस्तलं स्पृशन्ति इति भासते । वर्षामेघानां बृहद्जलबाष्पस्य आकृतिविहीनाः समूहाः वर्तन्ते ।[१६]

वर्षणम्सम्पाद्यताम्

 
वर्षायाः स्थितिः

स्वतन्त्रवायौ सङ्घननप्रक्रियया सङ्घनितकणानां स्वरूपं बृहत् भवति । यदा गुरुत्वाकर्षणबलेन वायोः प्रतिरोधकक्षमता न्यूना भवति, तदा ते कणाः भूस्तरेषु पतन्ति । अतः जलबाष्पस्य सङ्घननप्रक्रियायाः आर्द्रतायाः मुक्तिः वर्षणं कथ्यते । अयं द्रवावस्थायां वा कठोरावस्थायां भवति । यदा जलरूपे वर्षणं भवति, तदा वर्षा कथ्यते, यदा तापमानं ० º सेल्सीयस् इत्यतः अपि अधः गच्छति, तदा हिमशिलारूपे वर्षणं भवति । सः हिमपातः कथ्यते । [१७]

वर्षायाः प्रकाराःसम्पाद्यताम्

उत्पत्त्याधारेण वर्षा त्रिषु प्रकारेषु विभक्ता अस्ति । संवहनीयवर्षा, पर्वतीयवर्षा, चक्रवातीयवर्षा च ।

१. संवहनीयवर्षासम्पाद्यताम्

उष्णवायुः अल्पभारेण संवहनधारारूपे उपरि गच्छति । वायुमण्डलस्य उपरिस्तरं प्राप्य अयं विस्तीर्यते । अनन्तरं तापमाने न्यूने सति जलं शीतलं भवति । तस्य परिणामेण सङ्घननप्रक्रिया भवति । तया कार्पासीमेघानां निर्माणं भवति । मेघगर्जनेन वर्षौघः भवति । किन्तु अयम् अल्पकालीनः एव वर्तते । इयं वर्षा प्रायः ग्रीष्मर्तौ, उष्णदिनेषु च भवति । इयं विषुवतीयक्षेत्रेषु, उत्तरीयगोलार्धस्य महाद्वीपानाम् आन्तरिकभागेषु च भवति ।

२. पर्वतीयवर्षासम्पाद्यताम्

यदा सन्तृप्तवायूनां समूहः पर्वतीयक्षेत्रं प्राप्नोति, तदा ऊर्ध्वगमने बाधा भवति । वायुमण्डलस्य बाह्यस्तरं प्राप्य वायुः विस्तीर्यते । न्यूनतापमानेन आर्द्रता सङ्घनिता भवति । तेन कारणेन वर्षा भवति । पवनाभिमुखपर्वतानाम् उपह्वरे (declivity) अधिकवर्षा भवति । अस्मिन् उपह्वरे वर्षणानन्तरं सः अपरम् उपह्वरं (declivity) प्राप्नोति । अनन्तरम् अधः गमने तापमानस्य वृद्धिर्भवति । तदा तस्य आर्द्रताधारणस्य क्षमतायाम् अपि वृद्धिर्भवति । तेन कारणेन पवनविमुखम् उपह्वरं (declivity) शुष्कं, वर्षाविहीनं च विद्यते । पवनविमुखं क्षेत्रं वृष्टिच्छायाक्षेत्रं कथ्यते । इयं पर्वतीयवर्षा, स्थलकृतवर्षा वा इति अपि कथ्यते ।[१८]

३. चक्रवातीयवर्षासम्पाद्यताम्

इयं वर्षा चक्रवातेन, अवदाबेन सह भवति । शीतलवायौ आर्द्रवायोः प्रवाहेन आर्द्रवायुः सङ्घनितः भवति, तेन चक्रवातीयवर्षा भवति । शीतोष्णकटीबन्धीयक्षेत्रेषु वर्षा चक्रवातैः एव भवन्ति । यदा चक्रवातस्य शीतवाताग्रे शीतलवायुः उष्णवायुं तीव्रतया ऊर्ध्वं क्षिपति, तदा सङ्घननप्रक्रिया अपि तीव्रतया भवति । तेन कारणेन मेघा गर्जनां कुर्वन्ति । मेघगर्जनया सह तीव्रवर्षा भवति । वर्षायां हिमखण्डानि अपि आपतन्ति । यदा उष्णवायुः वक्रीभूयः मन्दगतिना ऊर्ध्वं गच्छति, तदा सङ्घननम् अपि मन्दं मन्दं भवति । तेन वर्षा विस्तृतक्षेत्रेषु भवति । उष्णकटिबन्धीयचक्रवातैः ग्रीष्मकाले पर्याप्तवर्षा जायते [१९]

संसारे वर्षायाः वितरणम्सम्पाद्यताम्

एकस्मिन् वर्षे पृथिव्यां विभिन्नक्षेत्रेषु विभिन्नमात्रायां वर्षा भवति । सा विभिन्न्तायाम् अपि भवति । यदा वयं विषुवत्-वृत्ततः ध्रुवं प्रति गच्छामः, तदा वर्षायाः मात्रा न्यूना भवति । महाद्वीपानाम् आन्तरिकभागानाम् अपेक्षया विश्वस्य तटीयक्षेत्रेषु अधिका वर्षा भवति । विश्वस्य स्थलीयभागानाम् अपेक्षया महासागरेषु अधिका वर्षा भवति । कारणं तत्र जलस्य आधिक्येन बाष्पीकरणप्रक्रिया सततं प्रचलति । विषुवत्-वृत्ततः ३५ º तः ४० º उत्तरे, दक्षिणाक्षांशानां मध्य-पूर्वीतटेषु अत्यधिकं वर्षा भवति ।

वार्षिकवर्षणस्य मात्रायाः आधारेण विश्वस्य मुख्यवर्षणप्रवृत्तिः अधो लिखितरूपेण ज्ञायते ।

विषुवतीयपट्टिकायां, शीतोष्णप्रदेशेषु पश्चिमीतटीयपर्वतानां वायोः उपह्वरेषु वर्षा अत्यधिका भवति । महाद्वीपानाम् आन्तरिकेषु भागेषु १०० तः २०० से. मी. वर्षा भवति । महाद्वीपानां तटीयक्षेत्रेषु मध्यमवर्षा भवति । उष्णकटिबन्धीयक्षेत्रस्य केन्द्रीयभागेषु, शीतोष्णक्षेत्राणां पूर्वी-आन्तरिकभागेषु प्रतिवर्षं ५० तः १०० से. मी. वर्षा भवति । महाद्वीपानाम् आन्तरिकभागस्य वृष्टिच्छायाक्षेत्रेषु, उच्चाक्षांशानां क्षेत्रेषु प्रतिवर्षं ५० से. मी. इत्यस्मात् अपि न्यूना वर्षा भवति । विषुवतीयपट्टिकायां, शीतलसमशीतोष्णप्रदेशेषु आवर्षं वर्षा भवति ।[२०]

महासागरीयं जलम्सम्पाद्यताम्

महासागरीयं जलं सदैव गतिमत् भवति । किन्तु तडागानां जलं शान्तं भवति । भौतिकविशेषताभिः, बाह्यबलस्य प्रभावेण च महासागरीयजलं गतिं प्राप्नोति । महासागरीयजले द्विप्रकारके गती स्तः । क्षैतिजा, ऊर्ध्वाधरा च । महासागरीयधाराणां क्षैतिजगतिः अस्ति । ज्वार-भाटा ऊर्ध्वाधरगतिः वर्तते । तरङ्गः जलस्य क्षैतिजगतिः अस्ति । धारासु जलम् एकस्मात् स्थलात् अन्यत्र गच्छति । किन्तु तरङ्गेषु जलस्य गतिः न भवति। सूर्यचन्द्रमसोः आकर्षणेन जलस्य उच्चैः अधश्च गतिः भवति । अधस्थलात् शीतलजलस्य उत्प्रवाहः अवप्रवाहः महासागरीयजलस्य ऊर्ध्वाधरगतेः प्रकारौ स्तः । महासागरस्य गतीनाम् अपि विभाजनं कृतम् अस्ति यत् – तरङ्गः, ज्वार-भाटा, धाराः च ।[२१]

तरङ्गःसम्पाद्यताम्

 
जलतरङ्गः

महासागरीयं जलं सततम् उच्चैरधश्च पतति । सा स्थितिः तरङ्गः कथ्यते । वास्तविकत्वेन तरङ्गाः ऊर्जा वर्तते, जलं न । वायोः जलम् ऊर्जां प्राप्नोति । तेन तरङ्गाः उत्पद्यन्ते । महावाते वायुना विशालाः तरङ्गाः उत्पद्यन्ते । तैः अत्यधिकः विनाशः भवितुं शक्नोति । भूकम्पेन, ज्वालामुखिना, भूस्खलनेन च महासागरीयं जलम् अत्यधिकं विस्थापितं भवति । तेन कारणेन १५ मी. उन्नताः विशालाः ज्वारीयाः तरङ्गाः भवितुं शक्नुवन्ति । ते तरङ्गाः सुनामी इति कथ्यते । एतेषां तरङ्गानां गतिः ७०० कि. मी. प्रति घण्टा भवति ।[२२] वायोः तीव्रतया तरङ्गस्य उच्चतमस्य बिन्दोः ज्ञानं भवति । गुरुत्वाकर्षणबलं तरङ्गानां शिखराणि अधः आकर्षयति । तरङ्गस्य अधः जलस्य गतिः वृत्ताकारा भवति ।[२३]

ज्वार-भाटासम्पाद्यताम्

प्रतिदिनं महासागरेषु जलस्य स्तरं वर्धते, न्यूनीभवति च । तत् ज्वार-भाटा इति कथ्यते । यदा जलैः समुद्रतटं जलमग्नं भवति, तदा ज्वार इति कथ्यते । ज्वार इत्यस्य विपरीतस्थितिः भाटा इति कथ्यते ।

सूर्यचन्द्रसोः गुरुत्वाकर्षणबलेन पृथिव्यां ज्वार-भाटा उत्पद्यते । यदा पृथिव्याः जलं चन्द्रमसः समीपम् आगच्छति, तदा चन्द्रसः गुरुत्वाकर्षणबलेन जलम् अभिकर्षितं भवति । तेन ज्वार भवति । पूर्णिमायां, अमावास्यायां च दिवसे पृथिविः, सूर्यः, चन्द्रमा च एकस्यां रेखायां भवति । तदानीं सर्वोच्चाः ज्वार उत्पद्यन्ते । सः बृहत् ज्वार इति कथ्यते । यदा चन्द्रमा स्वस्य प्रथमे वा अन्तिमे चतुर्थांशे भवति, तदा पृथिव्याः, सूर्यस्य च गुरुत्वाकर्षणबलं विपरीतदिक्षु भवति । तेन निम्न ज्वार भवति । सः लघु-ज्वार इति कथ्यते ।

उच्च-ज्वार नौकाचालने सहायकः भवति । मत्स्योद्योगे अपि उच्च-ज्वार साहाय्यं करोति । ज्वार-भाटा इत्यस्य उपयोगः विद्युदुत्पादनाय अपि क्रियते ।[२४]

ज्वार-भाटा इत्यस्य प्रकाराःसम्पाद्यताम्

ज्वार इत्यस्य आवृत्त्यां, दिशि, गतौ च स्थानीयसामयिकी भिन्नता प्राप्यते । ज्वार-भाटा इत्यस्य विभिन्नेषु प्रकारेषु वर्गीकरणं तेषां प्रतिदिनम् उन्नतायाः वा आधारेण क्रियते ।

अर्ध-दैनिकः ज्वार (Semi-diurnal)सम्पाद्यताम्

इयं सर्वसामान्यप्रक्रिया वर्तते । तस्यान्तर्गतं प्रतिदिनम् उच्चद्वयं, निम्नद्वयं च ज्वार इति अयम् उत्पद्यते । अस्य औन्नत्यं समानं भवति ।

दैनिकः ज्वार (Diurnal tide)सम्पाद्यताम्

अस्यां प्रक्रियायां प्रतिदिनम् एकः उच्चः, एकः निम्नः ज्वार उत्पद्यते । तयोः औन्नत्यं समानं भवति ।

मिश्रितः ज्वार (Mixed tides)सम्पाद्यताम्

यस्य ज्वार-भाटा इत्यस्य औन्नत्ये भिन्नता वर्तते सः मिश्रितः ज्वार-भाटा इति कथ्यते । अयं सामान्यतः उत्तर-अमेरिकामहाद्वीपस्य पश्चिमतटे, प्रशान्तमहासागरस्य बहुषु द्वीपसमूहेषु च उत्पद्यते ।

सूर्यचन्द्रपृथिवीनां स्थित्याधारितः ज्वार-भाटा (Spring tides)सम्पाद्यताम्

उच्चज्वार इत्यस्य औन्नत्ये भिन्नता पृथिव्याः सापेक्षयोः सूर्यचन्द्रमसोः स्थित्या निर्भरा भवति । बृहत् ज्वार, निम्न ज्वार अस्मिन् वर्गे एव अस्ति ।

बृहत् ज्वार (Sring tides)सम्पाद्यताम्

पृथिव्याः सन्दर्भे सूर्यचन्द्रमसोः स्थितिः ज्वार इत्यस्य औन्नत्यं प्रत्यक्षत्वेन प्रभावितं करोति । यदा त्रयः एकस्मिन् रेखायां स्थिताः भवन्ति, तदा ज्वार इत्यस्य उच्चता अधिकं भवति । सः बृहत् ज्वार इति कथ्यते । एताद्शी स्थितिः मासे वारद्वयं भवति । पूर्णिमायाम्, अमावास्यायां च ।

निम्नः ज्वार(Neap tides)सम्पाद्यताम्

बृहत् ज्वार, निम्न ज्वार इत्येतयोः मध्ये सामान्यतः सप्तदिवसानाम् अन्तरं भवति । तस्मिन् समये चन्द्रमा, सूर्यश्च परस्परं समकोणे स्थितौ भवतः । तदा सूर्यचन्द्रमसोः गुरुत्वबलं परस्परं विरूद्धं कार्यं करोति ।[२५]

ज्वार-भाटा इत्यस्य महत्त्वम्सम्पाद्यताम्

यद्यपि पृथिव्याः, सूर्यस्य, चन्द्रमसः च स्थितिः ज्वार इत्यस्य उत्पत्तेः कारणम् अस्ति । तेन कारणेन एतासां स्थितीनाम् अनुसारेण ज्वार-भाटा इत्यस्य पूर्वानुमानं कर्तुं शक्यम् अस्ति । अनेन नौकाचालकानां, धीवराणां (fisherman) च साहाय्यं भवति । नौकाचालने प्रवाहस्य अत्यधिकं महत्वं वर्तते । ज्वार इत्यस्य उच्चता अधिका महत्वपूर्णा वर्तते । ज्वार इत्यस्य उपयोगः विद्युतः उत्पादने अपि क्रियते ।[२६]

महासागरीयाः धाराःसम्पाद्यताम्

महासागरीयधाराः महासागरेषु नदीनां प्रवाह इव वर्तन्ते । महासागरीयस्तरेषु नियमितरूपेण निश्चितदिशि जलधाराः प्रवहन्ति । ताः जलधाराः महासागरीयजलधाराः कथ्यन्ते । ताः उष्णाः, शीतलाः च भवन्ति । उष्णजलधाराः भूमध्यरेखायाः समीपे उत्पद्यन्ते । ताः धाराः ध्रुवान् प्रति प्रवहन्ति । शीतलजलधाराः निम्न-अक्षांशान् प्रति प्रवहन्ति । लेब्राडोर् महासागरीयजलधाराः शीतलजलधाराः सन्ति । गल्फस्ट्रीम् महासागरीयजलधाराः उष्णजलधाराः भवन्ति । उष्णजलधाराभिः स्थलस्य तापमानम् उष्णं भवति । यत्र उष्णशीतलाः जलधाराः प्राप्यन्ते तत्र मत्स्योद्योगः सर्वोत्तमः वर्तते । यदा शीतलाः उष्णाः जलधाराः परस्परं मिलन्ति, तदा नौकाचालने बाधा उत्पद्यते ।[२७] महासागरीयजलधाराणां द्वे प्रकारके बले स्तः याभ्यां सा प्रभाविता भवति । प्राथमिकबलं, द्वितीयकबलं च । प्राथमिकबलं जलस्य गतिं वर्धयति । द्वितीयकबलं धाराणां प्रवाहस्य नियन्त्रणं करोति ।

जलस्य घनत्वे अन्तरं महासागरीयजलधाराणाम् ऊर्ध्वाधरगतिं प्रभावयति । अधिकलावणजलं निम्लावणजलस्य अपेक्षया अधिकं सघनं भवति । तदेव शीतलजलम् उष्णजलस्य अपेक्षया अधिकं सघनं वर्तते ।[२८]

महासागरीयधाराणां प्रकाराःसम्पाद्यताम्

महासागरीयाः जलधाराः द्वयोः भागयोः विभक्ताः सन्ति । ऊर्ध्वजलधारा, गहनजलधारा च । महासागरीयजलस्य १०% भागः ऊर्ध्वजलधारा वर्तते । इमाः जलधाराः महासागरेषु ४०० मी. पर्यन्तम् सन्ति । महासागरीयजलस्य ९०% भागः गहनजलधारा वर्तते । महासागरेषु घनत्वस्य, गुरुत्वस्य च भिन्नतायाः कारणेन इमाः जलधाराः प्रवहन्ति । उच्चाक्षांशीयक्षेत्रेषु गहनधाराः प्रवहन्ति । कारणं तत्र न्यूनतापमानेन घनत्वम् अधिकं भवति ।[२९]

महासागरीयजलस्य तापमानम्सम्पाद्यताम्

महासागरीयजलं भूमिः इव सूर्यस्य ऊर्जया उष्णं भवति । स्थलस्य तुलनायां जलस्य तापनशीतलनप्रक्रिया मन्दं वर्तते ।

बहवः कारकाः महासागरीयजलं प्रभावितं कुर्वन्ति । यथा – अक्षांशः, स्थलस्य, जलस्य च असमान वितरणं, सनातनवायुः, महासागरीयधाराः इति ।

एते सर्वे कारकाः महासागरीयधाराणां तापमानं स्थानिकरूपेण प्रभावितं कुर्वन्ति । निम्नाक्षांशेषु स्थितानां समुद्राणां तापमानम् अन्यसमुद्राणाम् अपेक्षया अधिकं भवति । किन्तु उच्चाक्षांशेषु स्थितानां समुद्राणां तापमानम् अन्यसमुद्राणाम् अपेक्षया न्यूनं भवति ।[३०]

महासागरीयजलस्य लवणतासम्पाद्यताम्

सर्वेषु जलेषु खनिजलवणं मिश्रितं भवति । समुद्रजलेषु लवणस्य मात्रायाः निर्धारणं लवणता कथ्यते । लवणतायाः निर्धारणं १००० ग्रा. समुद्रजले मिश्रितस्य जलस्य मात्रया भवति । इयं PPT इति साङ्केतिकभाषायां गण्यते । लवणता समुद्रजलस्य महत्वपूर्णः गुणः वर्तते ।[३१]

महासागरीयलवणतायाः प्रभावकाःसम्पाद्यताम्

  1. महासागराणां स्तरस्य जलस्य लवणता मुख्यतः बाष्पीकरणे, वर्षणे च निर्भरा भवति ।
  2. वायुः जलस्य एकस्थलात् अन्यत्र स्थानपरिवर्तनं कृत्वा लवणतां प्रभाविता करोति ।
  3. महासागरीयधाराः अपि लवणतायां भिन्नानाम् उत्पादयन्ति ।

जलस्य लवणता तापमानं, घनत्वं च परस्परं सम्बद्धं भवति । अतः तापमानस्य, घनत्वस्य च परिवर्तनं कस्यचित् क्षेत्रस्य लवणतां प्रभावितां करोति ।[३२]

जलस्य उपयुक्तमात्रासम्पाद्यताम्

मनुष्यजीवनं पञ्चमहाभूतानां संयोगेन एव सम्भवति । पञ्चमहाभूतेषु जलस्य महत्त्वम् अधिकं वर्तते । जले विशिष्टं नाविन्यं भवति । तन्नाविन्यम् अन्येषु महाभूतेषु नास्ति । जलं शीतलं भवति । अतः यत्र यत्र प्राप्यते तत्र शीतलता एव अनुभूयते । जलस्य प्रभावेण मरुस्थले अपि वृक्षाः उद्भवन्ति । मृदुता, पवित्रता, गतिशीलता, चञ्चलता इत्यादयः जलस्य स्वभावाः सन्ति[३३] । किन्तु पृथिव्याः ७५% स्थलं जलयुक्तं वर्तते । तथापि तत् सम्पूर्णं जलं पानार्थं योग्यं नास्ति । तस्य जलस्य केवलं १% जलमेव पानार्थम् अस्ति । अतः यत्र पेयजलं प्राप्यते । तत्र जनैः स्वस्य आवासव्यवस्था कृता अस्ति । नद्याः तटे बहवः तीर्थस्थानानि सन्ति । अतः तत्र जलस्य महत्त्वं भवति । किन्तु जनाः जलस्य अधिकमात्रायां दुरुपयोगं कुर्वन्ति । तेन कुत्रचित् स्थले जलाभावः अपि भवति [३४]। तेन जनैः जलस्य सदुपयोगः संयमेन करणीयः इति आवश्यकम् । जलस्य नैकधा उपयोगः भवति । प्रायः प्रतिदिनं ‘प्रतिव्यक्तति’ २०० ली. जलस्य आवश्यकता भवति । तस्य अपि विभागाः भवन्ति ।

  1. पानाय, भोजनाय, भोजननिर्माणाय च ५० ली. जलस्य आवश्यकता भवति ।
  2. स्नानाय, वस्त्रप्रक्षालनाय, गृहस्वच्छतायै च ५० ली. जलस्य आवश्यकता भवति ।
  3. शौचालयस्वच्छतायै २५ ली. जलस्य आवश्यकता भवति ।
  4. नगरस्वच्छतायै २५ ली. जलस्य आवश्यकता भवति ।
  5. उद्योगाय २५ ली. जलस्य आवश्यकता भवति ।
  6. पशुपालनाय २५ ली. जलस्य आवश्यकता भवति[३५]

इदम् अनुमानं वर्तमानसमये असम्भवम् एव । कारणं साम्प्रतं जलस्य उपयोगः विचारं विना एव क्रियते ।

आयुर्वेदे भगवता आत्रेयेण जलस्य बहवः भेदाः प्रदर्शिताः सन्ति । तेन लिखितं यत् – आकाशात् जलं पतति । पतनकाले तज्जलं वायुसूर्यौ संस्पृशति । तदा जलस्य गुणे परिवर्तनं भवति । पृथिवीं स्पृष्ट्वा जलं शीतोष्णस्निग्धरुक्षगुणयुक्तं भवति [३६]। तज्जलस्य प्रकारद्वयम् अस्ति ।

  • दिव्यजलम्, अन्तरीक्षजलं वा
  • ऐन्द्रजलम्

दिव्यजलम्, अन्तरीक्षजलं वासम्पाद्यताम्

आकाशात् पतितस्य जलस्य यदि भूमेः स्पर्शात् पूर्वमेव सङ्ग्रहः भवति तर्हि तज्जलं दिव्यजलम् इत्युच्यते । शीतलता, पवित्रता, कल्याणकारिता, सुस्वादुता, स्वच्छता इत्यादयः दिव्यजलस्य गुणाः सन्ति इति चरकाचार्येण उक्तम् अस्ति[३७]

इदं दिव्यजलं तर्पणकारकं, हृदयरहितं, आनन्दप्रदं, मेधावर्धकं, अव्यक्तरसयुक्तं, शीतलं, लघुः, अमृततुल्यं, प्राणधारकं, मूर्च्छावस्थायां शरीरसन्धायकं, श्रेष्ठतमं च वर्तते[३८]

दिव्यजलस्य प्रकाराःसम्पाद्यताम्

आयुर्वेदे दिव्यजलस्य चत्वारः प्रकाराः दृश्यन्ते । “तत्रान्तरीक्षं चतुर्विधं तद्यथा धारं कारं तौषारं हैममिति” [३९]

१ धारम्, २ कारम्, ३ तौषारम्, ४ हैमम् इति चत्वारः सन्ति [४०]

चतुर्षु प्रकारेषु धारं मुख्यम् अस्ति । तत् लघुत्वेन गुणाधिक्येन च उत्तमं कथ्यते । यज्जलं स्थूलवस्त्रे, सुवर्णपात्रे, रजतपात्रे, ताम्रपात्रे, स्फटिकपात्रे, मृद्पात्रे वा संगृहीतं भवति तज्जलं धारजजलं कथ्यते । धाराजजलस्य प्रकारद्वयं भवति [४१]

  1. गाङ्गजलम् – यज्जलं गङ्गायाः जलवत् पवित्रं शुद्धं वा भवेत् तज्जलं गाङ्गजलम् इति कथ्यते । साम्प्रतं काशीक्षेत्रे, औद्योगिकक्षेत्रेषु च गङ्गाजलं पवित्रं तु अस्ति किन्तु शुद्धं नास्ति । कारणं तस्मिन् जले बह्व्यः अशुद्धयः सन्ति । तज्जलं पेयम् अपि नास्ति[४२]
  2. सामुद्रजलम् – समुद्राणां जलं सामुद्रजलम् इति कथ्यते । समुद्रजले लवणस्य आधिक्यं भवति । अतः तज्जलं स्वास्थ्याय हितकरं न भवति । समुद्रस्य १ ली. जले ३५ ग्रा. लवणं भवति । तेन कारणेन तज्जलं रोगवर्धकः भवति [४३]

ऐन्द्रजलम्सम्पाद्यताम्

मेघात् वर्षारूपेण यज्जलं शुद्धपात्रे संगृहीतं भवति, तदन्तरीक्षजलमेव ऐन्द्रजलमुच्यते । वृष्टेः जलं यस्मिन् पात्रे संगृह्यते, तदनुसारम् एव तस्य जलस्य गुणपरिवर्तनं भवति । अर्थात् सुवर्णपात्रं, रजतपात्रं, ताम्रपात्रं, मृत्पात्रं इत्यादीनां पात्राणामनुसारं जलस्य गुणधर्मः भवति [४४]

जलस्य गुणधर्मःसम्पाद्यताम्

किन्तु वर्तमाने काले प्लास्टिक्-इत्यस्य अधिकः प्रयोगः भवति । महाभाण्डानां निर्माणाय अपि सिमेण्ट्-इत्यस्य उपयोगः क्रियते । तेन कारणेन जलस्य स्वभावः अपि परिवर्तते [४५]। जलस्य गुणदोषेषु अपि परिवर्तनं भवति । पृथिव्यां विभिन्नप्रकारकाः प्रदेशाः सन्ति । तेषामनुसारमेव जलस्य गुणाः परिवर्त्यन्ते । यदि जले पृथ्वीतत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं लवणाम्लरसयुक्तं भवति । यदि जले जलतत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं मधुररसयुक्तं भवति । यदि जले अग्नितत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं कषायरसयुक्तं भवति । यदि जले आकाशतत्त्वस्य आधिक्यं भवति, तर्हि तज्जलं अव्यक्तगुणयुक्तं भवति [४६]

भूमेः वर्णानाम् अनुसारमपि जलस्य रसनिर्माणं भवति इति चरकाचार्येण उक्तम् । जलस्य श्वेतभूमौ कषायरसः, पाण्डुभूमौ तिक्तरसः, कपिलभूमौ क्षारयुक्तरसः, उषरभूमौ लवणरसः, पर्वतीयभूमौ कटुरसः, कृष्णभूमौ मधुररसः, नीलभूमौ कषायमधुररसः च भवति । कृष्णश्वेतभूमौ वायुसूर्याभ्यां यज्जलं प्रभावितं भवति, तज्जलं पवित्रं भवति इति आयुर्वेदाचार्येण उक्तम् [४७]। किन्तु आधुनिके काले अनया रीत्या जलपरीक्षा, स्वादानुभूतिः च कठिना भवति । साम्प्रतं वयं पात्रे संगृहीतस्य जलस्य एव स्वादम् अनुभवामः ।

जलस्य मृदुत्वं, कठिनं चसम्पाद्यताम्

  • मृदुजलम् (Soft water) - मृदुजले लवणस्य मात्रा अल्पा भवति ।
  • कठिनजलम् (Hard water) – जले बहूनि तत्त्वानि भवन्ति । यथा – केल्शियम्, मेग्नेशीयम्, कार्बोनेट्स् इत्यादीनि तत्त्वानि भवन्ति । रासायनिककार्येषु कठिनजलं वर्ज्यम् अस्ति । कठिनजलस्य प्रयोगेण ज्वलनशीलपदार्थानां व्ययः वर्धते [४८]

जलस्य शुद्धिः, अशुद्धयः चसम्पाद्यताम्

वर्तमाने काले जलस्य प्राकृतिकस्रोतांसि प्रदूषितानि जातानि सन्ति । प्राकृतिकाशुद्धेः अपेक्षया मानवीयाशुद्धयः अधिकाः सन्ति । तेन कारणेन मानवानां स्वास्थ्योपरि प्रभावः दृश्यते । ग्रीष्मर्तौ, वर्षर्तौ च अनेकाः रोगाः समुद्भवन्ति । मनुष्याः रोगिणः भवन्ति, तेषु केचन मृत्युमपि प्राप्नुवन्ति च[४९]

शुद्धजलस्य लक्षणम्सम्पाद्यताम्

यस्य जलस्य पानेन कष्टं न अनुभूयते, रोगाः न भवन्ति च तज्जलं शुद्धं कथ्यते । यस्य पानेन शीतलता अनुभूयते, उत्साहः वर्धते, ऊर्जा उत्पद्यते च, तज्जलं शुद्धं, पवित्रं च भवति इति ज्ञातव्यम्[५०]

अशुद्धजलस्य लक्षणम्सम्पाद्यताम्

यज्जलं पिच्छलं, फेनिलं, सान्द्रं, घट्टं, दुर्गन्धितं, विकृतवर्णं, मलीनम्, अस्वच्छं च भवति तज्जलम् अशुद्धं ज्ञातव्यम् ।

  1. कृमियुक्तं सूक्ष्मजन्तुयुक्तं च जलम् अशुद्धं कथ्यते ।
  2. सोमसूर्यांशुमारुतैः रहितं जलम् अशुद्धं कथ्यते ।
  3. शैवालपर्णङ्कतृणाविलं जलम् अशुद्धं कथ्यते ।
  4. अतिशीतोष्णेन दन्तग्राहिजलम् अशुद्धं कथ्यते[५१]

आयुर्वेदे अपि षड्प्रकारकस्य अशुद्धजलस्य वर्णनं कृतमस्ति [५२]

  1. स्पर्शदोषः – यज्जलं पिच्छिलं, उष्णं, दन्तग्राही भवति । तज्जलं स्पर्शदोषयुक्तं भवति ।
  2. रूपदोषः – यज्जलं शैवालयुक्तं, पर्णयुक्तं, पङ्कयुक्तं, वर्णयुक्तं, तृणयुक्तं च भवति तज्जलं रूपदोषयुक्तं भवति ।
  3. रसदोषः – जले रसः अव्यक्तः भवति । अतः यज्जले रसः व्यक्तः स्यात्, तज्जलं अशुद्धं ज्ञातव्यम् ।
  4. गन्धदोषः – यज्जलं दुर्गन्धयुक्तं भवेत्, तज्जलं गन्धदोषयुक्तं भवति ।
  5. वीर्यदोषः – यस्य जलस्य पानेन तृष्णायाः आधिक्यं भवति । तज्जलम् अशुद्धं ज्ञायते ।
  6. विपाकदोषः – यस्य जलस्य पानेन यकृतदोषः उद्भवति, तज्जलम् अशुद्धं कथ्यते[५३]

आधुनिकविज्ञानस्य अनुसारं जलस्य द्विविधा अशुद्धिः वर्तते ।

१ विलीनाशुद्धयः (Dissolved Impurities) – जले या अशुद्धिः विलीयते सा विलीना इति कथ्यते [५४]

  • यदा वृष्टिः भवति तदा ऑक्सीजन्, कार्बन्-डाई-ऑक्साइड्, नाइट्रोजन्, एमोनिया, हाइड्रोजन् सल्फाइड् इत्यादयः पदार्थाः वायवः वा वृष्टिजले मिलन्ति । तदनन्तरं ते पदार्थाः वायवः वा वृष्टिजलेन सह भूमौ आपतन्ति । एते कार्बनिकपदार्थाः कथ्यन्ते । ते विलीनशीलाः भवन्ति ।
  • भूमौ यदा लवणं पतति, तदा केल्शीयम्, मेग्नेशीयम्, सोडियम्, लोह, मेङ्गनीज् इत्यादयः भूमिस्थविलीनशीलपदार्थाः जले विलीयन्ते ।

२ तलस्थाशुद्धयः (Suspended Impurities) – रजोमृत्तिकापङ्कादीभिः या अशुद्धिः स्यात्, सा तलस्थाशुद्धिः । याः कार्बनिकाशुद्धयः सन्ति ताः – प्राणीजन्याः, वनस्पतिजन्याः च[५५]

  • प्राणीजन्या अशुद्धिः – ये जन्तवः बहुसूक्ष्माः भवन्ति, येषां दर्शने सूक्ष्मदर्शकयन्त्रस्य आवश्यकता भवति । ते सर्वे प्राणिनः अशुद्धिं कुर्वन्ति । यथा – बेक्टेरिया, वायरस्, कीटः च ।
  • वनस्पतिजन्या अशुद्धिः – शैवालः, पर्णानि, तृणानि इत्यादयः वनस्पतयः सन्ति ।

अनेन प्रकारेण यत्र जलस्य उद्गमः भवति । तत्रापि अशुद्धयः भवन्ति एव । यत्र जलस्य सञ्चयः भवति तत्रापि अनेकाः अशुद्धयः भवन्ति [५६]। याः अशुद्धयः प्राकृतिकाः भवन्ति, ताभिः अधिका हानिः न जायते । किन्तु याः मानवसर्जिताः अशुद्धयः सन्ति, ताभिः तु महती हानिः जायते । ताः अशुद्धयः भयङ्कराः सन्ति । प्लास्टिक्, नलिका, उद्योगः इत्यादिभिः जलं प्रदूषितं भवति ।

  • रासायनिककृषिद्रव्येण
  • वस्त्रोद्योगेन
  • रासायणिकवर्गोद्योगेन
  • चर्मोद्योगेन
  • एटोमिक-अणु-ऊर्जोत्पादनेन
  • लोहोद्योगेन
  • शर्करोद्योगेन
  • कर्गदोग्योगेन

इत्यादिभिः उद्योगैः कार्बनिक-अकार्बनिकाशुद्धयः जायन्ते । ताभिः अशुद्धिभिः बहवः रोगाः उद्भवन्ति । उपर्युक्तानि सर्वाणि उद्योगानि मानवनिर्मितानि सन्ति [५७]। अतः मनुष्यः एव तासाम् अशुद्धीनाम् उत्तरदायी अस्ति ।

अशुद्धजलस्य दुष्प्रभावाःसम्पाद्यताम्

पुरा जलप्रदूषणानि अल्पानि एव भवन्ति स्म । तेषु प्रदूषणेषु मानवनिर्मितकारणानि अपि अल्पानि आसन् । तदा रोगाः अपि अल्पाः भवन्ति स्म । आयुर्वेदस्य मतानुसारं दूषितजलस्य प्रभावेण बहवः रोगाः समुद्भवन्ति[५८] । यथा – आध्मानः, ज्वरः, पाण्डुः, कण्डूः, शूलः, गुल्मः, अतिसारः इत्यादयः रोगाः दूषितजलेन समुद्भवन्ति । दूषितजलजन्यविकाराः आधुनिकतया विभिन्नाः सन्ति । ते विकाराः निम्नलिखिताः सन्ति –

१ जलस्थसङ्क्रामी-सङ्क्रमणजन्यविकाराः –

  • बेक्टेरीया-जन्यविकाराः – अतिसारः, प्रवाहिका, विसूचिका, टाइफोइड्, पेराटाइफोइड् च [५९]
  • वायरस्-जन्यविकाराः – पोलीयो, मायलायटीस्, बालपोलीयो, हेपेटाइटीस्, कामला च ।
  • कृमिजन्यविकाराः – जलस्थकृमि-अण्डजकृमयः, वृत्तकृमिः, इ कोलाइ च ।
  • प्रोटोजुआ-जन्यविकाराः – अमिबियासिस्, जियार्डियासिस् च ।
  • लेट्टोस्याइराजन्यविकाराः – लेप्टोस्याइरोसीस् ।

२ जलजप्राणिसंरभितकृमिजन्यविकाराः – गिनवर्म, टेपवर्म, सिस्टोसोमाइड् च [६०]

३ जलस्थविषजन्यविकाराः – सिलीनीयम्, केडमियम्, साइनाइड् च ।

पारदः इत्यादिभ्यः धातुभ्यः अपि जलम् अशुद्धं भवति । तेन जलेन अनेके विषजन्यरोगाः समुद्भवन्ति । यदि जले फ्लोराइड् तत्त्वस्य मात्रा अधिका भवेत् तर्हि अस्थिविकारः जायते । तेन फ्लोरोसिस् रोगाः भवन्ति[६१]

अनेन प्रकारेण दूषितजलेन मनुष्यः बहुभ्यः रोगेभ्यः ग्रस्तः अस्ति । जीवनपोषकत्वेन, रक्षकत्वेन च जलम् अस्ति । अतः यदि जलमेव दूषितं भवति तर्हि जलं स्वास्थ्याय हानिप्रदं भविष्यति [६२]। जलं प्रदूषितं न स्यात्, तादृशस्य वातावरणस्य आवश्यकता अस्ति ।

जलशोधनप्रकाराःसम्पाद्यताम्

जलस्य शुद्ध्यर्थं प्रकारद्वयम् अस्ति । भौतिकपद्धतिः, रासायनिकपद्धतिश्च ।

भौतिकपद्धतिःसम्पाद्यताम्

भौतिकपद्धतौ अपि चत्वारः प्रकाराः सन्ति । तद्यथा -

  1. वह्नौ उष्णीकरणम् – अग्निना सह सम्पर्केण जलस्य बेक्टेरीया-इत्ययं नश्यन्ति । तेन जलस्य शुद्धिर्भवति ।
  2. सूर्यतापतपनम् – सूर्यस्य तीक्ष्णकिरणैः जले स्थितानां जीवानां नाशः भवति ।
  3. ताप्तपिण्डम् – सुवर्णं, रजतं, लोहः, प्रस्तरः, सिकता इत्यादयः पदार्थाः जलं शुद्धीकुर्वन्ति । एतेषां पदार्थानाम् उष्णीकरणेन जले च सप्तवारं स्थापनेन जलस्य शुद्धिर्भवति[६३]
  4. वस्त्रगालितम् – पुरा जलस्य प्रदूषणं अधुना इव नासीत् । तस्मिन् समये जलं शुद्धं भवति स्म । यतः तदा प्रदूषकाः नासन् । किन्तु तथापि जलं वस्त्रेण निर्गाल्य एव उपयुज्यते स्म । साम्प्रतम् अपि ग्रामेषु नगरेषु वा वस्त्रेण निर्गाल्य एव जलस्य उपयोगं क्रियते[६४] । "वस्त्रपूताः पिबेदपः" इति मनुना उक्तम् ।

रासायणिकपद्धतिःसम्पाद्यताम्

भारतीयसंस्कृतौ स्वास्थ्यरक्षणाय आयुर्वेदः उत्तमोत्तमं शास्त्रं मन्यते । आयुर्वेदे विभिन्नद्रव्यैः जलस्य शुद्ध्यर्थं प्रयोगाः प्राप्यन्ते । पुरातनकाले गोमेदमण्या, कमलमूलेन, वस्त्रेण इत्यादिभिः जलस्य शुद्धिः क्रियते [६५]। शुद्धौ सत्यां जले द्रव्याणां गन्धः अपि सम्मिलति स्म । तस्मात् गन्धात् साम्प्रतं अस्याः पद्धत्याः प्रयोगः न क्रियते ।

सुश्रुतसंहितायाम् अपि जलस्य शुद्ध्यर्थं प्रयोगाः लिखिताः सन्ति । धातुपात्रे, मृत्तिकापात्रे वा जलं स्थापयित्वा पानं करणीयम् । इतोपि नागकेशरचम्पकादिभिः पुष्पैः जलं शुद्धीकृत्य प्रयोगः कर्त्तव्यः । उष्णजलं स्वास्थ्याय लाभकरं वर्तते[६६] । उष्णजलं शीतलीकृत्य पानेन अपि स्वारोग्यं प्राप्यते । विविधरोगेभ्यः मुक्त्यर्थं जनाः उष्णजलं शीतलीकृत्य पानं कुर्वन्ति । तज्जलं स्वास्थ्यकारकं भवति ।

जलस्य शुद्धये यान्त्रिकी पद्धतिः अपि क्रियते । साम्प्रतम् अधिकेषु नगरेषु यन्त्रपद्धतिः प्रवर्तमाना दॄश्यते । किन्तु पुरा त्रिघटानां यन्त्रं निर्माय जलस्य शुद्धीकरणं क्रियते[६७] । त्रीन् घटान् क्रमानुसारं संस्थाप्य ऊर्ध्वघटयोः छिद्रं कृत्वा मध्ये वस्त्रं स्थाप्यते । ततः परम् ऊर्ध्वस्थितस्य घटस्य मध्ये सिकताः स्थाप्यन्ते । पुनः तस्मिन् घटे जलं पूरणीयम् । छिद्रात् जलं बहिर्निष्कास्य शुद्धं करणीयम् । मध्यस्थे घटे अङ्गारान् संस्थाप्य तेषां मध्यतः जलं शुद्धं भवति । किन्तु अस्मिन् प्रयोगे सूक्ष्मजन्तवः विद्यन्ते । अनेन कारणेन वर्तमानकाले अस्य प्रयोगः न क्रियते [६८]। यतो हि साम्प्रतं जले बहवः जन्तवः भवन्ति । अतः वर्तमानकालिकैः यन्त्रैः जलस्य शुद्धीकरणं क्रियते । तैः यन्त्रैः कीटकानां नाशः भवति ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यानुबन्धःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 118. ISBN 8174505318. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 30. ISBN 8174507485. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 118. ISBN 8174505318. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 32. ISBN 8174507485. 
  5. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  6. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  7. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  8. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  9. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 103. ISBN 8174505318. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 103. ISBN 8174505318. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 104. ISBN 8174505318. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 104. ISBN 8174505318. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 104. ISBN 8174505318. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 104. ISBN 8174505318. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 104,105. ISBN 8174505318. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 105. ISBN 8174505318. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 106. ISBN 8174505318. 
  19. "चक्रवाती वर्षा (Cyclonic rainfall)". http://hindi.indiawaterportal.org/. Retrieved २०-१२-२०१४. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 106. ISBN 8174505318. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 127. ISBN 8174505318. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 34. ISBN 8174507485. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 127. ISBN 8174505318. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 35. ISBN 8174507485. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 129-130. ISBN 8174505318. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 130. ISBN 8174505318. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 36. ISBN 8174507485. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 130. ISBN 8174505318. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 131. ISBN 8174505318. 
  30. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 121. ISBN 8174505318. 
  31. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 123. ISBN 8174505318. 
  32. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 123. ISBN 8174505318. 
  33. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  34. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  35. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  36. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २९. 
  37. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  38. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  39. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  40. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  41. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  42. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  43. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  44. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  45. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  46. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  47. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  48. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३०. 
  49. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  50. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  51. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  52. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  53. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  54. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  55. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  56. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  57. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३१. 
  58. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  59. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  60. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  61. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  62. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  63. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  64. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  65. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३२. 
  66. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३३. 
  67. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३३. 
  68. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ३३. 
"https://sa.wikipedia.org/w/index.php?title=जलम्&oldid=444500" इत्यस्माद् पुनः प्राप्तिः