लक्षणश्लोकः सम्पादयतु

वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता ।
संकुचन्ति सरोजानि स्वैरिणी वदनानि च ॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥

विवरणम् सम्पादयतु

प्रस्तुतनामप्रस्तुतानां वा गुणक्रियारूपैकधर्मान्वयः तुल्ययोगिता । संकुचन्तीति प्रस्तुततुल्ययोगितायाः उदाहरणम् । तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभीरुस्वैरिणीवदनानां च संकोचनरूपैकक्रियान्वयो दर्शितः । उत्तरश्लोके नायिकासौकुमार्यवर्णने प्रस्तुते अप्रस्तुतानां मालत्यादीनां कठोरतारूपैकगुणान्वयः ।

उदाहरणान्तरम् सम्पादयतु

संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककराभिमर्शाद्दिनानि पद्मानि च वृद्धिमीयुः ॥

विवरणम् सम्पादयतु

अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्यानां चैकक्रियान्वयः । ऊरुवर्णने अप्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तुल्ययोगितालङ्कारः&oldid=419198" इत्यस्माद् प्रतिप्राप्तम्