तेषामेवानुकम्पार्थम्...


श्लोकः सम्पादयतु

 
गीतोपदेशः
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः सम्पादयतु

तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजं तमः नाशयामि आत्मभावस्थः ज्ञानदीपेन भास्वता ॥ ११ ॥

अन्वयः सम्पादयतु

आत्मभावस्थः अहं तेषाम् एव अनुकम्पार्थं भास्वता ज्ञानदीपेन अज्ञानजं तमः नाशयामि ।

शब्दार्थः सम्पादयतु

आत्मभावस्थः = बुद्धौ वर्तमानः
अहम् = परमात्मा
तेषाम् एव = तादृशबुधानाम् एव
अनुकम्पार्थम् = दयाहेतोः
भास्वता = प्रकाशमानेन
ज्ञानदीपेन = विवेकदीपेन
अज्ञानजम् = मिथ्याज्ञानोत्पन्नम्
तमः = अन्धकारम्
नाशयामि = विध्वंसयामि ।

अर्थः सम्पादयतु

तादृशानां बुधानाम् अनुग्रहार्थम् अहं तेषाम् अन्तःकरणे तिन् तेषु अज्ञानेन जन्यं तमः प्रकाशमानेन ज्ञानरूपेण दीपेन नाशयामि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु