प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तैत्तिरीयारण्यकं यजुर्वेदस्य भागरूपस्य कृष्णजुर्वेदस्य आरण्यकम् अस्ति। एतस्मिन् आरण्यके तैत्तरीयोपनिषद्, महानारयमीयोपनिषद् च अन्तर्भवतः।

स्वरूपम्सम्पाद्यताम्

एतस्मिन् दशपरिच्छेदाः अथवा प्रपाठकाः सन्ति । प्रपाठकोऽयं सामान्यतः ‘अरण' इति पदेन ज्ञायते । अस्य नामकरणम् अप्याद्यपदानुसारेण एव भवति । यथा प्रथमस्य नाम अस्ति — ‘भद्रः', द्वितीयस्य-‘सहर्वं', तृतीयस्य - ‘चितिः', चतुर्थस्य—‘युञ्जते', पञ्चमस्य—‘देव वै', षष्ठस्य-‘परे', सप्तमस्य- ‘शिक्षा', अष्टमस्य-‘ब्रह्मविद्या', नवमस्य-‘भृगुः', दशमस्य-‘नारायणीयः' इति ।

अस्मिन् सप्तम-अष्टम-नवम-प्रपाठकाः मिलित्वा ‘तैत्तिरीयोपनिषद्' इति कथ्यते । दशमप्रपाठकोऽपि महानारायणीयोपनिषदिति कथ्यते । प्रपाठकोऽयम् अस्यारण्यकस्य परिशिष्टं मन्यते । प्रपाठकानां विभाजनमनुवाकेष्वस्ति । नवमप्रपाठकपर्यन्तानुवाकसंख्या १०७ अस्ति । तैत्तिरीयब्राह्मणमिवात्रापि प्रत्येकस्मिन्ननुवाके दशवाक्यानामेकाङ्को भवति । प्रत्येकं दशकस्य अन्तिमं पदम् अनुवाकस्य अन्तिमे परिगणितम् अस्ति । अस्मिन् अारण्यके ऋग्वेदस्य ऋचामुद्धरणं सर्वत्र प्राप्यते।

विषयवस्तुसम्पाद्यताम्

प्रथमः प्रपाठकः आरुण-केतुकनामकस्य अग्नेरुपासना तथा तदर्थम् इष्टिकाचयनस्य वर्णनं करोति। द्वितीये प्रपाठके स्वाध्यायस्य तथा पञ्चमहायज्ञानां वर्णनमस्ति । अत्र गङ्गा-यमुनयोः मध्यदेशः पवित्रः प्रथितस्तथा मुनीनां निवासायोत्कृष्टभूमिः कथितोऽस्ति । तृतीयप्रपाठकः चातुर्होत्रचितेः उपयोगिनां मन्त्राणां सङ्ग्रहोऽस्ति । चतुर्थाध्याये प्रवर्ग्यस्योपयोगिनां मन्त्राणां सङ्ग्रहोऽस्ति । अत्र कुरुक्षेत्रस्य खाण्डवस्य च वर्णनं भौगोलिकस्थित्यनुसारेण एवाऽस्ति । अस्मिन् प्रपाठके अभिचारमन्त्राणामपि सत्ता वर्त्तते । आभिचारिकमन्त्राणां प्रयोगः शत्रु-मारणाय भवति। ४/२७ मन्त्रे तथा ४।३७ मन्त्रे 'छिन्धी भिन्धी हन्धी कट' एवंविधस्य मन्त्रस्य स्पष्टरूपेण अत्र सङ्केतो लभते। ४॥३८ मन्त्रे अथर्ववेदीयम् अभिचारिकमन्त्रं प्रति स्फुटरूपेण सङ्केतो भवति।

पञ्चमे प्रपाठके यज्ञीयसङ्केतानाम् उपलब्धिर्भवति । षष्ठे प्रपाठके पितृमेधसम्बन्धिनां मन्त्राणामुल्लेखोऽस्ति। सप्तम-अष्टम-नवमप्रपाठकेषु तैत्तिरीयोपनिषदस्ति । दशमे प्रपाठके नारायणीयोपनिषदस्ति । अस्य प्रपाठकसंख्याऽपि अस्तव्यस्तैवाऽस्ति । अस्मिन् आरण्यके स्थाने स्थाने कतिपया विशिष्टाः वार्ताः अपि प्राप्यन्ते। यथा-

(१) कश्यपस्यार्थो भवति सूर्यः । अस्य व्युत्पत्तिः पर्याप्तरूपेण वैज्ञानिकी वर्तते । ‘कश्यपः पश्यको भवति ॥ यत् सर्वं परिपश्यति सौक्ष्म्यात्'।[१] अर्थात् पश्यकशब्दात् वर्णव्यत्ययस्य नियमेन कश्यपशब्दः निष्पन्नो भवति । अनेन प्रकारेण वर्णव्यत्ययेन निष्पन्नशब्दस्य सुष्ठूदाहरणमिदमस्ति ।

(२) पाराशर्यव्यासस्य अप्युल्लेखोऽत्र प्राप्यते।[२]

(३) द्वितीयप्रपाठकस्य आरम्भे एव सन्ध्यायां प्रयुक्तस्य सूर्यस्यार्घ-जलस्य महिमा वर्णितः अस्ति। तेन जलप्रभावेण मन्देहनामकस्य दैत्यस्य सर्वथा विनाशो भवति।[३]

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. १॥८॥८
  2. ( १॥९॥|२ )
  3. २।२
"https://sa.wikipedia.org/w/index.php?title=तैत्तिरीयारण्यकम्&oldid=425135" इत्यस्माद् पुनः प्राप्तिः