तोटकच्छन्दः
लक्षणम्
सम्पादयतु- वद तोटकमब्धिसकारयुतम्
प्रत्येकम् अपि पादे यदा सगणचतुष्टयं भवति तदा तोटकं वद ।
उदाहरणम्
सम्पादयतु- यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् ।
- मुदितोऽट कलेरपनेतुमघं यदि चेच्छसि जन्म निजं सफलम्।।
अर्थः
सम्पादयतुयदि कलेरघमपनेतुमिच्छसि, तथा च यदि निजं जन्म सफलीकर्तुम् इच्छसि तर्हि श्रीकृष्णस्य नृत्यकलया शोभायमानचरणकमलस्य सम्पर्केण वर्धिता कान्तिर्यस्य यमुनातटस्य वर्तते, तत्र मुदितः सन् अट।