श्लोकः सम्पादयतु

 
गीतोपदेशः
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः सम्पादयतु

त्रिविधं नरकस्य इदं द्वारं नाशनम् आत्मनःकामः क्रोधः तथा लोभः तस्मात् एतत् त्रयं त्यजेत् ॥

अन्वयः सम्पादयतु

कामः क्रोधः तथा लोभः इदम् आत्मनः नाशनं नरकस्य त्रिविधं द्वारम् । तस्मात् एतत् त्रयं त्यजेत् ।

शब्दार्थः सम्पादयतु

कामः = वाञ्छा
क्रोधः = कोपः
लोभः = तृष्णा
नाशनम् = विनाशकरम्
नरकस्य = नरकलोकस्य
द्वारम् = प्रतिहारः ।

अर्थः सम्पादयतु

वाञ्छा, कोपः तथा तृष्णा एतत् आत्मविनाशकरं त्रिप्रकारं नरकलोकस्य प्रतिहारः । तस्मात् इदं त्रितयं वर्जयेत् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=त्रिविधं_नरकस्येदं...&oldid=418590" इत्यस्माद् प्रतिप्राप्तम्