दक्षिणेश्वरकालीमन्दिरम्

दक्षिणेश्वरकालिबाडि कोलकातानगरस्य समीपे गंगानद्याः तटे स्थितम् अस्ति । १८५५ तमे वर्षस्य मई मासस्य एकत्रिंशत् दिनाङ्के स्नानयात्रादिने बङ्गप्रदेशस्य प्रसिद्धा परोपकारी भूस्वामिणी रानीरासमणि अस्य मन्दिरस्य स्थापनां कृतवती अस्मिन् मन्दिरे काली देवी "भवतारिणी" इति नाम्ना पूज्यते । [] उनविंशशताब्द्याः प्रख्यातः योगी रामकृष्ण परमहंसः अस्मिन् मन्दिरे काली साधनाम् अकुर्वत् ।

कथ्यते यत् रानीरासमणिः कालीदेव्याः स्वप्नादेशं प्राप्य मन्दिरस्यास्य स्थापनामकरोत् । रामकृष्णपरमहंसस्य अग्रजः रामकुमारचट्टोपाध्यायः मन्दिरस्यास्य स्थापनाकाले राज्ञीं बहुसाहाय्यं कृतवान् । रामकुमारः एव अस्य मन्दिरस्य प्रथमः मुख्यपुरोहितः आसीत् । [] १८५७-५८ तमे वर्षे किशोररामकृष्णपरमहंसः मन्दिरस्यास्य पूजायाः दायित्वं स्वीकृतवान् । [] पश्चात् सः मन्दिरमिदं स्वस्य साधनायाः स्थानत्वेन अचिनोत् ।

दक्षिणेश्वरकालिबाडि परिसरे मन्दिरमिदं विहाय एकाधिकदेवदेव्यानां बहुनि मन्दिराणि अन्यानि धर्मस्थलानि च सन्ति । मुख्यमन्दिरं तु नवरत्नमन्दिरम् अस्ति । तालिगञ्जे बाबूरामनाथमण्डलेन निर्मितस्य नवरत्नमन्दिरस्य प्रतिरूपम् अस्ति इदं मन्दिरम् | [] [] मुख्यमन्दिरं विहाय "द्वादशशिवमन्दिरम्" इति नाम्ना द्वादशसंख्यकानि अष्टभित्तियुक्तानि शिवमन्दिराणि सन्ति । मन्दिरस्य उत्तरदिशि "श्रीश्रीराधाकान्तमन्दिरम्" इति नाम्ना प्रसिद्धं राधाकृष्णमन्दिरम्, एवञ्च मन्दिरस्यास्य दक्षिणे नाटमन्दिरम् अस्ति । [] मन्दिरपरिसरस्य वायव्यां दिशि रामकृष्णपरमहंसदेवस्य निवासस्थानम् अस्ति । [] मुख्यमन्दिरपरिसरस्य बहिः रामकृष्णपरमहंसस्य तथा तस्य परिवारवर्गस्य स्मारकैः सह अन्यानि अपि कतिपयस्थानानि सन्ति, यानि अद्यत्वे तीर्थयात्रिकाणां धर्मस्थलरूपेेण मन्यन्ते ।

दक्षिणेश्वरमन्दिरम्

इतिहासः

सम्पादयतु
 
दक्षिणेश्वरकालिबाडि - १८६५ तमे वर्षे गृहीतं छायाचित्रम्

१८४७ तमे वर्षे धनी विधवा भूस्वामिणी रानीरासमणि अन्नपूर्णादेव्याः आराधनार्थं काशीयात्रायाः आयोजनं कृतवती । सा बन्धुभिः, परिचारिकाभिः सह, भोजनादिकं नीत्वा २४ नौकया सह प्रस्थितवाती । आख्यायिकानुसारं यात्रायाः पूर्वरात्रौ स्वप्ने राज्ञी रासमणिः भगवत्याः कालीदेव्याः दर्शनम् अप्राप्नोत् । देवी तामब्रवीत्, " काशीगमनस्य आवश्यकता नास्ति। गङ्गातीरे एव सुन्दरे मन्दिरे मम मूर्तिं संस्थाप्य पूजां करोतु। तत्र मूर्तौ प्रादुर्भूतः भूत्वा अहं पूजां स्वीकुर्याम्।"


एतस्य स्वप्नस्य अनन्तरं राज्ञी अनतिविलम्बे गङ्गायाः तटे भूमिं क्रीतवती, एवञ्च मन्दिरस्य निर्माणं आरब्धवती । अस्य बृहन्मन्दिरस्य निर्माणकार्यं १८४७ तमे वर्षे आरब्धम्; १८५५ तमे वर्षे समाप्तमासीत्।

मन्दिरस्य विंशति एकरपरिमितं भूखण्डं जॉन् हैस्टी नामकस्य आङ्ग्लस्य समक्षात् क्रीतमासीत् । साहेबन् बगीचा इति नाम्ना अयं स्थलः लोकप्रियः आसीत् | अस्य एकः भागः कूर्माकारः मुस्लिमकबरस्थानमासीत् । अत: तन्त्रानुसारं शक्त्युपासनास्थानरूपेण स्थानमिदमुपयुक्तमस्तीति विवेचितः अभवत्। [] नवलक्षरूप्यकाणां व्ययेन अष्टवर्षेषु निर्मितम् इदं मन्दिरम् । १८५५ तमे वर्षे मई मासस्य एकत्रिंशत् दिनाङ्के स्नानयात्रादिने महासमारोहेण मन्दिरे मूर्तिप्रतिष्ठाः अभवत् । पूर्वं मन्दिरस्य आराध्यां मातरं भवतारिणीं कालिका इति नाम्ना अभिहिता कृता | रामकुमारचट्टोपाध्यायः मुख्यपुरोहितरूपेण नियुक्तः अभवत्, तस्य अनुजः गदाधरः अथवा गदाई (पश्चात् रामकृष्णपरमहंसः ) तस्य सहयोगी अभवत् । पश्चात् तस्य भागिनेयः हृदयः अपि तस्य साहाय्यं कर्तुं आरब्धवान् । []

 
मन्दिरस्य आराध्यादेवी भवतारिणी काली पुनश्च पदतले शिवः

तदनन्तरवर्षे रामकुमारः दिबङ्गतः । मन्दिरस्य मुख्यपुरोहितत्वेन उत्तराधिकारी श्रीरामकृष्णः नियुक्तः अभवत् । तस्य पत्नी सारदादेवी मन्दिरपरिसरस्य बहिः सङ्गीतभवने एव तिष्ठति स्म । अस्मिन् सङ्गीतभवने अधुना सारदादेव्याः मन्दिरम् अस्ति ।

अस्मात् कालादारभ्य १८८६ पर्यन्तं श्रीरामकृष्णः अस्मिन् मन्दिरे प्रायः त्रिंशत् वर्षाणि यावत् स्थितवान् । तस्य विद्यमानकारणात् पश्चात् मन्दिरमिदं तीर्थस्थले रूपान्तरितः अभवत् ।

संरचनाः

सम्पादयतु

मन्दिरमिदं बङ्गीयस्थापत्यशैल्या अथवा गौडीयस्थापत्यशैल्या नवरत्नस्थापत्यशैल्या निर्मितम् अस्ति । मुख्यमन्दिरम् अट्टत्रययुक्तमस्ति । अस्य उपरिभागे अट्टद्वये नवशिखराः सन्ति । मन्दिरं दक्षिणाभिमुखम् अस्ति । एकस्य उत्तोलित-स्तम्भस्योपरि मन्दिरस्यास्य गर्भगृहं स्थापितमस्ति । अस्य स्तम्भस्य विस्तारः ४६ वर्गफीट्, उच्चता १०० फीट अस्ति ।

गर्भगृहे भवतरिणी इति नाम्ना प्रसिद्धा कालीमूर्तिः शिवस्य वक्षोपरि स्थापिता वर्तते ।। मूर्तिद्वयमिदम् एकस्य रजतेन निर्मितस्य सहस्रदलयुक्तकमलस्योपरि स्थापितः अस्ति ।

 
उत्तोलितस्तम्भस्योपरि निर्मितः दक्षिणेश्वरकालिमन्दिरस्य गर्भगृहम्

मुख्यमन्दिरस्य समीपे सादृश्ययुक्तानि द्वादशसंख्यकानि यानि पूर्वमुखिशिवमन्दिराणि वर्तन्ते तानि अष्टभित्ति(आटचाला) वास्तुकलायां निर्मिताः सन्ति । एतानि मन्दिराणि गङ्गायाः तीरे विद्यमानस्यैकस्य सोपानस्य उभयतः तिष्ठन्ति । मन्दिरपरिसरस्य ईशानदिशि राधाकान्तमन्दिरम् अस्ति । अस्मिन् मन्दिरे रजतसिंहासनस्य उपरि सार्धैकविंशतिः इञ्च-परिमितस्य कृष्णामूर्तिः ,एवञ्च षोडश इञ्च-परिमितस्य राधामूर्तिः स्थापितः अस्ति । तथा राज्ञ्याः रासमणि- इत्यस्याः गृहदेवता (रघुवीरः, जनार्दनः - श्रीकृष्णः, नाडुगोपालः) वर्तमाने दक्षिणेश्वर-क्षेत्रे निवसन्ति । |

चित्रकक्षम्

सम्पादयतु

अधिकं पश्यन्तु

सम्पादयतु
  • काली, दक्षिणेश्वर मंदिर के अध्यक्ष देवता।
  • Ramakrishna Temple, Belur Mutt, Dakshineshwar इति रामकृष्णमिशनस्य मुख्यकार्यालयः कालिबारीसमीपे स्थितः अस्ति ।
  • रामकृष्ण परमहंस, दक्षिणेश्वर कालीबारी के पूर्व पुजारी व उन्नीसवीं शताब्दी के प्रमुख हिन्दू मौलवी
  • Sarada Devi, रामकृष्ण परमहंसस्य पत्नी तथा रामकृष्ण मिशनस्य संघी; सा अपि भर्त्रा सह दक्षिणेश्वरमन्दिरे निवसति स्म ।
  • रानी रासमणि, दक्षिणेश्वर मंदिर के संस्थापक।
  • Chanak Annapurna Temple, दक्षिणेश्वरकालिबरस्य आदर्शेन निर्मितं तितागढस्य अन्नपूर्णमन्दिरम्

टिप्पणी

सम्पादयतु
  1. १.० १.१ १.२ १.३ १.४ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; kaliokalikshetra इत्यस्य आधारः अज्ञातः
  2. "কংক্রিটের আড়ালে মুখ ঢেকেছে মন্দিরশিল্প". www.anandabazar.com. आह्रियत 2022-01-14. 
  3. "রানিকাহিনি". www.anandabazar.com (in Bengali). आह्रियत 2022-09-12. 
  4. Prabhananda 2003
  5. Mehrotra 2008 p.11
  • Prabhananda, Swami (২০০৩)। "The Kali Temple at Dakshineswar and Sri Ramakrishna"। Vedanta Kesari। ২০ জানুয়ারি ২০২১ তারিখে মূল থেকে আর্কাইভ করা। সংগ্রহের তারিখ ২২ মে ২০০৯। 
  • "Map of Kali Temple at Dakshineshwar". Archived from the original on ২০০৮-০৬-১২. आह्रियत 2008-11-05. 
  • Harding, Elizabeth U. (১৯৯৮)। Kali: The Black Goddess of Dakshineswar। Motilal Banarsidass। আইএসবিএন 8120814509। 
  • Mehrotra, Rajiv (২০০৮)। Thakur: A Life Of Sri Ramakrishna। Penguin Books India। আইএসবিএন 0143063715। 
  • দক্ষিণেশ্বর কালীবাড়ি-এর সাথে সম্পর্কিত ভৌগোলিক উপাত্ত দেখুন – ওপেন স্ট্রিট ম্যাপ এ