दक्षिणसिक्किममण्डलम्
दक्षिणसिक्किममण्डलं (आङ्ग्ल: South Sikkim District) सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाम्ची/नामत्से वा नगरम् ।
दक्षिणसिक्किममण्डलम् South sikkim district | |
---|---|
मण्डलम् | |
सिक्किमराज्ये दक्षिणसिक्किममण्डलम् | |
देशः | India |
जिल्हा | दक्षिणसिक्किममण्डलम् |
विस्तारः | ७५००० हेक्टर् |
जनसङ्ख्या(२०११) | १,४६,८५० |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | southsikkim.nic.in |
भौगोलिकम्
सम्पादयतुदक्षिणसिक्किममण्डलस्य विस्तारः ७५००० हेक्टर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पूर्वसिक्किममण्डलं, पश्चिमदिशि पश्चिमसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् १६२.५ से.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र तिस्रः प्रमुखपर्वतावल्यः सन्ति । ताः देवतामुरा, दक्षिणबारामुरा, अथरामुरा च । गुमती, मुहुरी, फेणी च अत्रस्थाः प्रमुखनद्यः सन्ति ।
जनसङ्ख्या
सम्पादयतुदक्षिणसिक्किममण्डलस्य जनसङ्ख्या(२०११) १,४६,८५० अस्ति । अस्मिन् ७६,६७० पुरुषाः, ७०,१८० महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १९६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१५ अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ८५.५६% जनाः ग्रामेषु निवसन्ति ।
कृषिः
सम्पादयतुकृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, आलुकम्, इक्षुः, 'ज्युट', क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, पनसफलम्, आम्रम्, इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।
उपमण्डलानि
सम्पादयतु- नाम्ची
- रवङ्ग्ला
लोकजीवनम्
सम्पादयतुकृषिः अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । 'लेप्चा', 'भूतिया', 'नेपाळी' च अत्रस्थाः प्रमुखनिवासिजनजातयः । तेषु 'लेप्चा' जनाः अत्रस्थमूलजनाः आसन् इति कथ्यते । भूतिया-नेपालीजनाः तु स्थलान्तरिताः कथ्यन्ते । जनाः नेपाली, भूतिया, |हिन्दी, लेप्चा, लिम्बू च भाषाः वदन्ति ।
वीक्षणीयस्थलानि
सम्पादयतुअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- नामची
- तेन्दोङ्ग
- रवङ्ग्ला
- मैनाम-पर्वताः
- बोरोङ्ग
- फुर्-त्सा-चु उष्णजलकुण्डानि
- जोरथङ्ग
- सिकिप्
- समुद्रुप्त्से
- सोलोफोक इत्यत्र चार-धाम
- तेमी चायवाटिका(Tea Plantation)
- तरे भिर्
- रोक् गार्डन् - शिला-उद्यानम्
- कितम पक्षी-अभयारण्यम्