दमोहमण्डलम्
दमोहमण्डलम् ( ( शृणु) /ˈdəmoʊhəməndələm/) (हिन्दी: दमोह जिला, आङ्ग्ल: Damoh district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दमोह इति नगरम् ।
दमोहमण्डलम् Damoh District | |
---|---|
दमोह जिला | |
दमोहमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे दमोहमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | दमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा |
विस्तारः | ७,३०६ च. कि. मी. |
जनसङ्ख्या (२०११) | १२,६४,२१९ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६९.७३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५.५% |
Website | http://damoh.nic.in/ |
भौगोलिकम्
सम्पादयतुदमोहमण्डलस्य विस्तारः ७,३०६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कटनीमण्डलं, पश्चिमे सागरमण्डलम्, उत्तरे छतरपुरमण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति । अस्मिन् मण्डले सोनारनदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं दमोहमण्डलस्य जनसङ्ख्या १२,६४,२१९ अस्ति । अत्र ६,६१,८७३ पुरुषाः, ६,०२,३४६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१० अस्ति । अत्र साक्षरता ६९.७३% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- दमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा ।
कृषिः वाणिज्यं च
सम्पादयतुअस्मिन् मण्डले वज्रचूर्णस्य उच्चतमः व्यापारः अस्ति । अस्मात् मण्डलात् आभारतं वज्रचूर्णः विक्रयणार्थं प्रेष्यते ।
वीक्षणीयस्थलानि
सम्पादयतुनोहलेश्वर-मन्दिरम्
सम्पादयतुनोहलेश्वर-मन्दिरं नोहटा-ग्रामात् १ कि. मी. दूरे अस्ति । अस्मिन् मन्दिरे एकं भव्यं शिवलिङ्गम् अस्ति । शिवस्य अपरं नाम महादेव इति । अतः जनाः नोहलेश्वरमहादेव इति नाम्ना अपि इदं मन्दिरं जानन्ति । अस्य मन्दिरस्य निर्माणम् ई. ९५०-१००० तमे वर्षे अवनि वर्मा इत्यनया राज्ञ्या कारितम् । सा राज्ञी चालुक्य-वंशीया आसीत् । जटाशङ्कर, गिरि दर्शन, निदानकुण्ड, सद्भावना शिखर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयानि स्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये दमोहमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://damoh.nic.in/
http://www.census2011.co.in/census/district/295-damoh.html