सागरमण्डलम् ( /ˈsɑːɡərəməndələm/) (हिन्दी: सागर जिला, आङ्ग्ल: Sagar district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सागर इति नगरम् ।

सागरमण्डलम्

Sagar District
सागर जिला
सागरमण्डलम्
सागरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे सागरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे सागरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि सागर, बीना, खुरल, मलठोन, बान्दा, शाहगढ, राहतगढ, गर्हकोट, रेहली, केसली, देवरी
विस्तारः १०,२५२ च. कि. मी.
जनसङ्ख्या (२०११) २३,७८,४५८
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७६.४६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४४.५%
Website http://sagar.nic.in/

भौगोलिकम् संपादित करें

सागरमण्डलस्य विस्तारः १०,२५२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दमोहमण्डलं, पश्चिमे विदिशामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे नरसिंहपुरमण्डलम् अस्ति ।

जनसङ्ख्या संपादित करें

२०११ जनगणनानुगुणं सागरमण्डलस्य जनसङ्ख्या २३,७८,४५८ अस्ति । अत्र १२,५६,२५७ पुरुषाः, ११,२२,२०१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९३ अस्ति । अत्र साक्षरता ७६.४६% अस्ति ।

उपमण्डलानि संपादित करें

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- सागर, बीना, खुरल, मलठोन, बान्दा, शाहगढ, राहतगढ, गर्हकोट, रेहली, केसली, देवरी ।

कृषिः वाणिज्यं च संपादित करें

अस्मिन् मण्डले मूलतः तु कोऽपि मुख्योद्योगः नास्ति । किन्तु ग्रामजनाः धूम्रवर्तिकायाः धूपशलाकायाः च निर्माणकार्यं कुर्वन्ति । नगरेषु लघूद्योगाः सन्ति ।

वीक्षणीयस्थलानि संपादित करें

एरण संपादित करें

एरण इतीदं स्थलं सागर-नगरात् ७५ कि. मी. दूरे अस्ति । इदं स्थलं बीना-उपमण्डले स्थितमस्ति । एरण इतीदं स्थलं बीनानदीतटे स्थितमस्ति । अत्र बौद्ध-गुप्त-शिलालेखाः, शक-शासकानां चत्वारः शिलालेखाः, हुण-शासकानां शिलालेखाः च सन्ति ।

बाह्यसम्पर्कतन्तुः संपादित करें

http://sagar.nic.in/
http://www.census2011.co.in/census/district/294-sagar.html

"https://sa.wikipedia.org/w/index.php?title=सागरमण्डलम्&oldid=463990" इत्यस्माद् प्रतिप्राप्तम्