दारोजी स्लात्बेर् अभयारण्यम्

दारोजी स्लातबेर् अभयारण्यम् (Daroji Slothbear Sanctuary) कर्णाटकस्य बळ्ळारीमण्डले सण्डूरविभागे स्थितस्य बिळिकल्लु संरक्षितारण्यस्य भागः एषः । अस्य विस्तारः ५७ चतुरस्रकि.मी.मितः । अयं प्रदेशः कण्टकैः शिलाभिः च पूर्णः अस्ति । क्रिस्ताब्दे १९९४ तमे वर्षे अयं प्रदेशः अभयारण्यमिति घोषितः अस्ति । अत्र भल्लूकानां वासयोग्यं वातावरणम् अस्ति । भल्लूकाः शिलापर्वतगुहासु नैसर्गिकरूपेण निवसन्ति ।

दारोजी
—  village  —
दारोजी
Location of दारोजी
in कर्णाटकम्
निर्देशाङ्काः

१५°०४′उत्तरदिक् ७६°३३′पूर्वदिक् / 15.07°उत्तरदिक् 76.55°पूर्वदिक् / १५.०७; ७६.५५

देशः भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बळ्ळारीमण्डलम्
उपमण्डलम् Sandur
जनसङ्ख्या ८,८६१ (2001)
समयवलयः IST (UTC+05:30)
भल्लूकः

हम्पीप्रदेशतः अभयारण्यं प्रवेष्टुं महाद्वारं निर्मितम् अस्ति । अत्र बृहद्वृक्षाः न सन्ति । भल्लूकानां दर्शनाय मजान् (वीक्षणालयाः)सन्ति । भल्लूकाः अत्र स्वशिशून् पृष्टे आरोप्य इतस्ततः सञ्चरन्ति । भल्लूकाः १४५ किलोमितभारभूताः भवन्ति । भल्लूक्यः ५०-५६ किलोभारभूताः । एतेषाम् आहारः पुत्तिकाः भवन्ति । एते मधुमक्षिकाः अपि खादन्ति । सहस्रशः भल्लूकाः अत्र सन्ति ।

मार्गः सम्पादयतु

धूमशकटमार्गः सम्पादयतु

समीपे होसपेटे निःस्थानम् अस्ति । गुन्तकल्- हुब्बळ्ळीमार्गः । ततः कमलापुरद्वारा २० कि.मी गन्तव्यम् । अरण्यविभागः दर्शाव्यवस्थां करोति । दारोजी बुक्कसागरयोः मध्ये एतत् अभयारण्यम् अस्ति । उत्तमकालः अक्टोबरमासतः मार्चमासः । होसपेटेपर्यन्तं कर्णाटकराज्यस्य सर्वेभ्यः नगरेभ्यः वाहनसम्पर्कः अस्ति । बळ्ळारीविमाननिस्थानम् अस्ति । ततः ७५ कि.मी ।