बळ्ळारीमण्डलं (Bellary) कर्णाटकराज्यस्य उत्तरभागे विद्यमानं प्रमुखं मण्डलम् । मण्डलकेन्द्रमपि बळ्ळारी एव । क्रिस्ताब्दे १९५३ तमे वर्षे बळ्ळारीमण्डलं कर्णाटकराज्ये विलीनम् अभवत् । पूर्वं हैदराबाद्संस्थानस्य भागः आसीत् ।

बळ्ळारीमण्डलम्

ಬಳ್ಳಾರಿ
मण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
केन्द्रम् बळ्ळारीनगरम्
उपमण्डलानि बळ्ळारी, होसपेटे, कम्प्लि, हूविनहडगलि, कूड्लिगि, सुन्डूरु, सिरगुप्प, हगरिबोम्मनहळ्ळि
Area
 • Total ८,४४७ km
Elevation
४४९ m
Population
 (2003)
 • Total २२,४५,०००
 • Density १९६/km
भाषा
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
5831**
Website bellary.nic.in
कर्णाटके बळ्ळारीमण्डलम्

विस्तीर्णता

सम्पादयतु
  • ८४१९ च.कि.मी मिता।

इतिहासः

सम्पादयतु

विजयनगरसाम्रज्यस्य कारणेन बळ्ळारीमण्डलस्य प्राधान्यम् आगता । ततःपूर्वम् अस्मिन् मण्डले शातवाहनैः कल्याणीचालुक्यैः बनवासीकदम्बैः, सेवुणैः होय्सलैः च क्रमशः शासनम् कृतम् । एतन्मण्डलं ब्रिटिश् जनानां प्रशासनकाले मद्रास् प्रान्ते अन्तर्गतम् असीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५२ तमे वर्षे मैसूरुराज्ये योजितम् ।

स्थानम्

सम्पादयतु

कर्णाटकस्य पूर्वस्यां दिशि बळ्ळारीमण्डलं वर्तते । अस्य मण्डलस्य उत्तरदिशि रायचूरु-कोप्पलमण्डले, पश्चिमदिशि हावेरी-गदगमण्डले, दक्षिणदिशि दावणगेरे- चित्रदुर्गमण्डले, पूर्वदिशि आन्ध्रप्रदेशः च अस्ति ।

भौगोलिकता

सम्पादयतु

अत्र वर्षे ६३.९ से.मी. वृष्टिः भवति । अयसः ताम्रस्य पुष्पञ्जनस्य च खनयः अत्र सन्ति । किन्तु, कृषिः एव तेषां प्रधाना वृत्तिः । कृष्यर्थं जलव्यवस्था तुङ्गभद्रा जलबन्धात् सम्भवति । अत्र प्रवर्धमानानि प्रधानसस्यानि कार्पासः, गोधूमः, व्रीहिः, कलायः, सूर्यकान्तिः च ।

उपमण्डलानि

सम्पादयतु

बळ्ळारी , हूविनहडगली , हगरीबोम्मनळ्ळि , कूड्लगी , शिरगुप्प , होसपेटे, सन्डूरु इति सप्त उपमण्डलानि अस्मिन् मण्डले सन्ति ।

दर्शानीयानि स्थानानि

सम्पादयतु

हम्पी (विजयविठ्ठलमन्दिरं , विजयनगरसाम्राज्यस्य अवशेषानि), होसपेटे तुङ्गभद्राजलबन्धः, बोम्मनघट्टस्य श्रीहुलिकुण्टेरायमन्दिरं च प्रमुखानि भवन्ति ।

१)पम्पाक्षेत्रम् (हम्पी)

सम्पादयतु

होसपेटे (०८३९४) विजयनगरसाम्राज्यस्य राजधानी । ज्ञानस्य पीठं , सांस्कृतिकस्थानं धार्मिकं च क्षेत्रम् । पम्पाक्षेत्रम् आधुनिककाले हम्पी इति प्रसिद्धम् अस्ति । दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति । श्रीकृष्णदेवरायादीनां विजयनगरराजानां प्रशासनं वैभवोपेतम् आसीत् । श्री विद्यारण्यः।विद्यारण्येन स्थापितं विजयनगरसाम्राज्यं कर्णाटके साहित्यिकधार्मिकप्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत् । पापपरिहारकं तीर्थक्षेत्रमिति च यात्रिकानाम् आकर्षणीयम् एतत् स्थानं तुङ्गभद्रानदीतीरे अस्ति ।

श्रीविरूपाक्षदेवालयः अधुना प्रमुखम् आकर्षणकेन्द्रम् अस्ति । हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । श्रीविरूपाक्षम् पम्पापतिः इति च कथयन्ति । देवालयस्य मुख्यद्वारे गोपुरम् अस्ति । १७० पादपरिमितोन्नतं गोपुरम् कलायुक्तं वैशिष्ट्यपूर्णं च अस्ति ।

पूर्वं धार्मिकाध्यात्मिकविषये अत्र व्यासरायः।व्यासरायस्वामिनः व्यासकूटः, पुरन्दरकनकदासादिदासवरेण्यैः युक्तः दासकूटः च आस्ताम् । श्रीव्यासरायस्वामी धार्मिकक्षेत्रे अत्युत्तमं कार्यं कृतवान् । आधुनिककालेऽपि प्रतिदिनम् अत्र सहस्रशः जनाः देशीयाः विदेशीयाः च दर्शनार्थम् आगच्छन्ति । देवालयस्य आवरणे पम्पाम्बिकामन्दिरम् अस्ति पार्श्वे सरः रमणीयम् अस्ति । विरूपाक्षमन्दिरे एकत्र प्राकारे गोपुरस्य छाया विपरीता दृश्यते एषः विषयः विस्मयजनकः अस्ति । इदानीं हम्पीनगरे यात्रिकानां दर्शनप्रसङ्गे प्राचीनवैभवदर्शनं स्मरणं च भवति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया विजयविट्टलमन्दिरम्।विजयविट्टलमन्दिरं हजारराममन्दिरं यन्त्रोध्दारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति ।

कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्थं पश्यामः । हम्पीक्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति । विजयविट्टलमन्दिरे मूर्तिः नास्ति । अनेकस्थम्भैः निर्मितं शिलामन्दिरम् एतत् । अत्र स्थम्भेषु स्थितासु शिलासु ताडनेन सङ्गीतस्वरः निर्गच्छति । एषः अतीव आकर्षकः विषयः अस्ति । उन्नते पीठाकारके स्थले मन्दिरम् अस्ति । विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् तुङ्ग्भद्रानदीतीरे सुन्दरप्राङ्गणे अस्ति । तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति ।

  • समीपस्थं विमाननिस्थानम्- बेङ्गळूरु।
  • हुब्बळ्ळी-गुन्तकल् रेलमार्गे होसपेटे निस्थानतः २० कि.मी वाहनमार्गः
  • गदगतः ९० कि.मी । कर्णाटकस्य सर्वप्रदेशतः होसपेटे पर्यन्तं वाहनानि सन्ति ।
  • बेङ्गळूरुतः ३४० कि.मी. दूरे कमलापुरप्रदेशे वस्तुसङ्ग्रहालयः अस्ति । समीपे कन्नडविश्वविद्यालयः कार्यरतः अस्ति । प्रतिवर्षम् ‘हम्पी उत्सवः’ राज्यसर्वकारेण आयोज्यते । होसपेटेनगरे तुङ्गभद्राजलाशयः उद्यानं जलबन्धः च आकर्षणीयाः विषयाः सन्ति ।

२) चक्रतीर्थम्

सम्पादयतु

विजयपुरम् इति ख्याते हम्पीप्रदेशे तुङ्गभद्रानदीतीरे एतदस्ति । तुङ्गभद्रा पूर्वाभिमुखी सदा जलयुक्ता अस्ति । स्वल्पदूरे उत्तराभिमुखी भविष्यति । अत्र चक्रमिव जलं वृत्ताकारेण प्रवहति । अस्य तीर्थस्थानस्य ‘चक्रतीर्थमिति नाम । वामपार्श्वे गुहान्तर्गतं प्राणदेवमन्दिरम् अस्ति । अस्य यन्त्रोध्दारकप्राणदेवः इति नाम । प्राणदेवः पद्मासने उपविष्टः ध्यानमग्नः इवास्ति । परितः पद्मदलानि चित्रितानि सन्ति । श्रीव्यासरायः अत्रैव सिध्यर्थं त्रिकोटिजपानि समर्पितवान् । अतः अत्र आगमनेन दर्शनेन च भूतपिशाचबाधानिवारणं भवति इति श्री विजयदासः।विजयदासस्य वचनमस्ति । श्रीकृष्णदेवरायः कुहुरोगपरिहारानन्तरम् अत्र चक्रतीर्थस्य पुरतः मण्डपं निर्मितवान् । एष एव पुरन्दरमण्डपः इति ख्यातः अस्ति । चक्रतीर्थस्य समीपे नरहरितीर्थः।नरहरितीर्थस्य बृन्दावनम् (१३३३) अस्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=बळ्ळारीमण्डलम्&oldid=480638" इत्यस्माद् प्रतिप्राप्तम्