देवासमण्डलम् ( /ˈdɛvɑːsəməndələm/) (हिन्दी: देवास जिला, आङ्ग्ल: Dewas district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति देवास इति नगरम् ।

देवासमण्डलम्

Dewas District
देवास जिला
देवासमण्डलम्
देवासमण्डलस्य नयनाभिरामदृश्यम्
भारतस्य मानचित्रे देवासमण्डलम्
भारतस्य मानचित्रे देवासमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि देवास, सतवास, बगली, खातेगांव, कन्नोद, हतपीपल्या, सोनकच, टोंकखुर्द
विस्तारः ७,०२० च. कि. मी.
जनसङ्ख्या (२०११) १५,६३,७१५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६९.३५%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७%
Website http://dewas.nic.in/

भौगोलिकम्संपादित करें

देवासमण्डलस्य विस्तारः ७,०२० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिहोरमण्डलं, पश्चिमे इन्दौरमण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे खण्डवामण्डलम् अस्ति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः - नर्मदानदी, कालीसिन्धनदी, क्षिप्रानदी

जनसङ्ख्यासंपादित करें

२०११ जनगणनानुगुणं देवासमण्डलस्य जनसङ्ख्या १५,६३,७१५ अस्ति । अत्र ८,०५,३५९ पुरुषाः, ७,५८,३५६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४२ अस्ति । अत्र साक्षरता ६९.३५% अस्ति ।

उपमण्डलानिसंपादित करें

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- देवास, सतवास, बगली, खातेगांव, कन्नोद, हतपीपल्या, सोनकच, टोंकखुर्द ।

वीक्षणीयस्थलानिसंपादित करें

धाराजीसंपादित करें

धाराजी नर्मदानद्याः तटे स्थितमस्ति । इदं धार्मिकं स्थलं धाराजी-ग्रामे अस्ति । अत्र नर्मदायाः जलप्रपातः अस्ति । सः जलप्रपातः अतीव सुन्दरः, रमणीयश्च । प्रेतबाधायाः मुक्तये तत्र बहवः जनाः गच्छन्ति । नर्मदानद्यां बहूनि शिवलिङ्गानि सन्ति । तत्रत्यानि शिवलिङ्गानि स्वयमेव प्रतिष्ठितानि इत्यतः जनाः ततः शिवलिङगानि स्वगृहं नयन्ति । स्वयमेव प्रतिष्ठितानां तेषां शिवलिङ्गानां देवालये पुनर्प्रतिष्ठापनायाः आवश्यकता न भवति ।

कावडिया हिल्ससंपादित करें

कावडिया हिल्स बगली-उपमण्डलात् १० कि. मी. दूरे अस्ति । तत्र बहवः शैलाः सन्ति । तेषां सर्वेषामाकृतिः भिन्ना अस्ति । ते सर्वे शैलाः मानवनिर्मिताः इव दृश्यन्ते । किन्तु वास्तविकं तु अस्ति यत् ज्वालामुखिकारणेन एतादृशी आकृतिः भवति । इयमपि प्राकृतिकचमत्कारः वर्तते । खिवनी अभ्यारण, पवर छत्री, देवास गेट इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुःसंपादित करें

http://dewas.nic.in/
http://www.census2011.co.in/census/district/304-dewas.html

"https://sa.wikipedia.org/w/index.php?title=देवासमण्डलम्&oldid=463959" इत्यस्माद् प्रतिप्राप्तम्