शाजापुरमण्डलम्
शाजापुरमण्डलम् ( ( शृणु) /ˈʃɑːdʒɑːpʊrəməndələm/) (हिन्दी: शाजापुर जिला, आङ्ग्ल: Shajapur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शाजापुरम् इति नगरम् ।
शाजापुरमण्डलम् Shajapur District | |
---|---|
शाजापुर जिला | |
शाजापुरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे शाजापुरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | शाजापुरम्, सुसनेर, बडोद, नलखेडा, आगर, मोमन बडोलिया, गुलाना, शुजालपुर, कालपीपल |
विस्तारः | ६,१९५ च. कि. मी. |
जनसङ्ख्या (२०११) | १५,१२,६८१ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६९.०९% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४६.५% |
Website | http://www.shajapur.nic.in/ |
भौगोलिकम्
सम्पादयतुशाजापुरमण्डलस्य विस्तारः ६,१९५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजगढमण्डलं, पश्चिमे उज्जैनमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे देवासमण्डलम् अस्ति । अस्मिन् मण्डले कालीसिन्धनदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं शाजापुरमण्डलस्य जनसङ्ख्या १५,१२,६८१ अस्ति । अत्र ७,८०,५२० पुरुषाः, ७,३२,१६१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ६९.०९% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- शाजापुरम्, सुसनेर, बडोद, नलखेडा, आगर, मोमन बडोलिया, गुलाना, शुजालपुर, कालपीपल ।
वीक्षणीयस्थलानि
सम्पादयतुबगलामुखी-माता-मन्दिरम्
सम्पादयतुबगलामुखी-माता-मन्दिरं नलखेडा-ग्रामे स्थितमस्ति । इदं मन्दिरं बहुप्रसिद्धं, बहुप्राचीनं च अस्ति । अस्मिन् मन्दिरे बहवः तान्त्रिकाः साधनां कुर्वन्ति । तेन कारणेन इदं मन्दिरं तन्त्रसाधनायै प्रसिद्धमस्ति ।
पार्श्वनाथ-मन्दिरम्
सम्पादयतुपार्श्वनाथ-मन्दिरं भारतस्य प्रसिद्धेषु मन्दिरेषु अन्यतमम् अस्ति । इदं मन्दिरं जैनसम्प्रदायस्य तीर्थस्थलमस्ति । अस्मिन् मन्दिरे पार्श्वनाथस्य मूर्तिः अस्ति ।
करेडी-माता-मन्दिरम्
सम्पादयतुकरेडी-माता-मन्दिरं शाजापुर-नगरात् १० कि. मी. दूरे स्थितम् अस्ति । मन्दिरमिदं कनकावती-माता-मन्दिरम् इत्यपि प्रसिद्धमस्ति । करेडी-माता-मन्दिरं मालवा-प्रान्तस्य मुख्यं पूजनीयस्थलम् अस्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये शाजापुरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.shajapur.nic.in/ Archived २०१४-०५-१६ at the Wayback Machine
http://www.census2011.co.in/census/district/303-shajapur.html