देवीमाहात्म्यम्
देव्याः माहात्म्यम् – देवीमाहात्यम् । अर्थात् आदिशक्तिरूपायाः दुर्गादेव्याः चरित्रम् ।
देवीमाहात्म्यं हिन्दूधर्मस्य प्रसिद्धः धार्मिकग्रन्थः विद्यते । अस्मिन् देव्याः विभिन्नानाम् अवताराणां जीवनचरित्रं वर्णितं विद्यते । अयं ग्रन्थः मारकण्डेयपुराणस्य भागः अस्ति । अस्मिन् ग्रन्थे आहत्यः सप्तशतं (७००) श्लोकरूपाः मन्त्राः सन्ति । अतः एव अस्य अपरं नाम दुर्गासप्तशती इति ख्यातं वर्तते । अस्मिन् ग्रन्थे सृष्टेः प्रतीकात्मिका व्याख्या कृता अस्ति । जगति विद्यमानां शक्तीनां प्रमुखतया रूपद्वयम् आख्यातं वर्तते – सञ्चितशक्तिः क्रियात्मिका शक्तिश्च ।
अस्मिन् ग्रन्थे मुख्यतया सन्देशः दत्तः अस्ति यत् – सभ्यानां सज्जनानां समेकिता शक्तिः (सङ्घशक्तिः) सर्वासाम् अपि विकासविरोधीनां दुष्टशक्तीनां शमनं कर्तुं शक्नोति । एषः सन्देशः एव राष्ट्रियायाः एकतायाः प्रतीकरूपेण वर्तते । एवम् एषा सङ्घरूपा आर्यशक्तिः अजेया अस्ति, अस्याः भेदनं दुर्गमं भवति । अतः एव इयं शक्तिः दुर्गा इति नाम्ना कथिता । इयं शक्तिः असभ्यानां दुष्टजनानाम् कृते सभ्यतायाः विकासस्य परिचयात्मिका अस्ति ।
परिचयः
सम्पादयतुसूरथ नामधेयः कश्चित् राजा यदा अन्येन राज्ञा पराजितः जातः, तस्य पालितं राज्यं शत्रुराजेन अधिकृतं । तदा गते राजाधिकारे प्राणेषु च सङ्कटापन्नेषु सत्सु, सूरथः रक्षायै वनं प्रति पलायितः । सः ज्ञानी राजा स्वीयां परिस्थितिं जानाति । सः निश्चयेन अवगच्छति गतं राज्यं पुनः न लभ्येत । अथापि राजसम्पत्तिविषये तत्रत्यानां धनसम्पत्तीनां प्रजानां अश्व-गजादीनां वाहनानां च विषये पुनः पुनः विचिन्त्य दुःखम् अनुभवति स्म । सः वस्तुतः तान् सर्वान् अपि विषयान् निरर्थकान् अवगच्छति, ततः मुक्तः भवितुम् इच्छति, परन्तु तस्य चञ्चलं मनः वारं वारं तत्रैव आकृष्टं भवति । ज्ञानी राजा सूरथः अस्मिन् सन्दर्भे स्वीयाम् असाधारणात्मिकाम् आशङ्कां वने तपश्चर्यमाणस्य मेधर्षेः (मेधाऋषेः) समीपं प्रस्तौति । ऋषिः बोधयति यत् – सा विशेषशक्तिः भगवतः क्रियात्मिकायाः शक्तेः परायाः महामायायाः विद्यते । सा एव संसारं सृजति, सञ्चालयति, नियन्त्रयति, अन्ते नाशयति च ।
महामाया हरेश्चैषा तया समोह्यते जगत् ।।
समस्ताः प्राणिनः तस्याः महामायायाः प्रेरणया एव क्रियाशीलाः भवन्ति ।
सा रूपत्रयात्मिका महामाया एव संसारस्य त्रिविधावस्थायाः त्रिविधः सञ्चालनं करोति । अवस्थानां निरन्तरं परिवर्तनम् एव सृष्टिः भवति । कालः परिवर्तनस्य मापकः भवति । कालं विना परिवर्तनस्य कल्पनैव न सम्भवति । अतः एषा महामाया प्रथमावस्थायां महाकालीरूपेण (कालस्य शक्तिरूपेण) सृष्टिं प्रेरयति । परिवर्तनस्य निरन्तरतायाम् अपि कालस्य एकस्मिन् भागे सृष्टेः एकं स्वरूपं उत तदेव एकं स्वरूपं निर्मीयते । महामाया तस्य स्वरूपस्य सन्धारणं पोषणं च महालक्ष्मीरूपेण करोति । सृष्टेः इयमवस्था स्थितिः इत्युच्यते । सृष्टेः तृतीयावस्था विकासस्य अग्रिमावस्था विद्यते । यदा चैतन्यस्य बह्वायामी विकासः जायते । योगमाया अस्याः अवस्थायाः सञ्चालनं महासरस्वतीरूपेण करोति ।
अस्मिन् ग्रन्थे तासाम् एव सृष्टेः अवस्थानां वर्णनं साधारणजनानां बोधनगम्यं वर्णनं कृतं विद्यते ।
प्रथमावस्थायां सृष्टेः रचयितारं ब्रह्माणं मधु-कैटभाख्यौ राक्षसौ मारयितुम् उद्यताः । अत्र निर्देशः वर्तते यत् तमोगुणरूपाः रजोगुणरूपाः च विकृताः शक्तयः सृष्टेः विकासे बाधकौ स्तः । अतः ब्रह्मा रक्षार्थं महामायां प्रार्थयत् । महामायायाः प्रेरणया विष्णुः योगनिद्रां परित्यज्य राक्षसौ जघान । ततः ब्रह्मणः सृष्टरचनायाः कार्यं पुनः अग्रेसरत् । अस्य वर्णनं दुर्गासप्तशतीनामधेयस्य देवीमहात्म्याख्यस्य प्रथमचरित्रे विद्यते ।
द्वितीयभागे सभ्यतायाः प्रारम्भिकावस्थायाः वर्णनं तत्र च गङ्गा-सिन्धुतटेषु विद्यमानायाः तात्कालीनायाः जाङ्गलसभ्यतायाः प्रतीकात्मकं वर्णनं विद्यते । जन्तूनाम् अपेक्षया प्रायः अल्पशारीरिकबलः मानवः विकशितशस्त्रादिकं विना केवलं बुद्ध्या विवेकेन च वनमहिषादीनां जन्तूनां (महिषासुरादिराक्षसानां) मध्ये कथं स्वकायां मानवसभ्यतां रक्षेत् इति महान् प्रश्नः आसीत् । तत्र सभ्यजनानां देवानां सामुहिकशक्तिः दुष्टशक्तीनां शमने कथं सफलाऽभूत् इत्यत्र (सङ्घे शक्तिः) इत्यस्य प्रेरणादायकं वर्णनं विद्यते । देवानां सामुहिकशक्तिः दुर्गा कथं दुष्टशक्तीनां महिषासुरादीनां शमने सफलाभूत् इत्यस्य वर्णनं देवीमाहात्म्यस्य (दुर्गासप्तशत्याः) मध्यमचरित्रे द्वितीयाध्यायतः चतुर्थाध्यायपर्यन्तं कृतं विद्यते ।
तृतीये भागे सभ्यतायाः विकसितावस्थायाः वर्णनं विद्यते । यत्र विकासक्रमे सर्वदा आर्यशक्तेः पुरतः शुम्भः निशुम्भः च अथवा क्रमशः रजोगुणरूपा प्रगतिवादिनी-शक्तिः तमोगुणरूपा प्रतिक्रियावादिनी-शक्तिः च अवरोधनं जनयतः । तस्य अवरोधस्य निवारणे विवेकरूपा शक्तिः अथवा सत्त्वरूपै शक्तिः कथं सफला भवति इत्यस्य वर्णनं तृतीये चरित्रे पञ्चमाध्यायस्य त्रयोदशाध्यायपर्यन्तं कृतं वर्तते ।
एवं देवीमाहात्म्यस्य त्रयोदशाध्यायेषु सप्तशतश्लोकेषु देव्याः सृष्टेः रचनात्मिकायाः महाकालीरूपायाः, सभ्यतारक्षायै महालक्ष्मीरूपायाः तथा च सृष्टौ अवरोधनिवारणात्मिकायाः महासरस्वतीरूपायाः प्रतीकात्मकं वर्णनं कृतं विद्यते ।
त्रिविधशक्तिरूपायाः योगमायायाः सम्यग्ज्ञानं प्राप्य विगतमोहः राजासूरथः तस्यामेव योगमायायां समाधिगतचित्तः अभवत् इति फलप्राप्तिकथनरूपेण अस्य अन्तिमे त्रयोदशे अध्याये वर्णितं विद्यते ।
अस्य प्रथमे अध्यायप्रसङ्गे यदा शुम्भ-निशुम्भौ सृष्टे रचयितारं ब्रह्माणं हन्तुम् उद्यते तदा सः एतैः श्लोकैः योगमायायाः स्तुतिं चकार –
ब्रह्मोवाच –
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधात्वमक्षरे नित्ये तृधा मात्रात्मिका स्थिता ।।७३।।
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।।७४।।
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।।७५।।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।।७६।।
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी ।।७७।।
प्रकृतिस्त्वं च सर्वस्व गुणत्रयविभाविनी ।।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।।७८।।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।।७९।।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाण-भुशुण्डीपरिघायुधा ।।८०।।
सौम्या सौम्यतराऽशेषा सौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी ।।८१।।
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।।८२।।
यया त्वया जगत्स्रष्ट्रा जगत् पात्यति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वं स्तूतुमिहेश्वरः ।।८३।।
विष्णोः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽहस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।।८४।।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षौवसुरौ मधुकैटभौ ।।८५।।
प्रबोध च जगत्स्वामीं नियततामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ।।८६।।