देशदीपे राष्ट्ररक्षायां दिवङ्गतानां वीराणां स्मरणं कृतम् । डॉ. रमा चौधरी नाटकास्यास्य लेखिका अस्ति। अस्याभिनयः डा० यतीन्द्रविमल-चौधुरी-जन्मोत्सवे सम्पन्नः।

देशदीपम्  
युद्ध्यमानौ सैनिकौ
लेखकः डॉ. रमा चौधुरी
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कथावस्तु

सम्पादयतु

कस्मिंश्चिद् ग्रामे ब्रह्मबलः आराधनाभिधानया पत्न्या, चम्पकवदनेन पुत्रेण, पङ्कजनयनया च तनूजया सह वसति स्म । चम्पकवदनः कोलकाताविश्वविद्यालयस्य छात्र आसीत् । अवकाशे स धनिकमित्रेण अभ्रप्रतिमेन सह ग्रामं प्रति समागत । तदानीमेव भारतेन स्वरक्षायै युद्धं करणीयमवर्तत। तस्मिन् ग्रामे आकाशवाण्या समाचारः प्राप्तो यद्, देशस्य रक्षायै अधिकाधिकं दानं देयम् । सर्वेषां नराणां नारीणाञ्च तस्मिन् ग्रामे सभाहूता, यत्राभ्रप्रतिमेन विनम्रतया व्याख्यातं यद्, वयं स्वकीयं सर्वं देशरक्षायै समर्पयामः । ग्रामवासिना रहीमेण ग्रामवासिन भावधारायाः परिचय एवं प्राकाशायत् -

श्रेष्ठं व्रतं तत् खलु जीवनस्य, स्वदेशमातुर्नियतार्चनं यत्।

आलोकरेखा फलमम्बु वायुर्यस्याः सदा रक्षति जीवनं नः।।

धन्यं भवेदर्जनमर्पणेन दानेन धन्यं ग्रहणं हि लोके।

यदर्जितं जीवनमद्य मातुर्देयं तदस्यै बहुमानपूर्वम्।।

चम्पकवदनेन अभ्रप्रतिमेन च देशरक्षायाः व्रतं गृहीतम् । चम्पकवदनः पादचारी सैनिको भवितुं प्रातिष्ठत, अभ्रप्रतिमश्च वायुसेनायां सेवायै गतः । चम्पकवदनजननी एतस्मिन्नवसरे आशिषं प्राददात् -

सर्वोपरिष्टात् भव देशदीप आलोकधारां वितरात्र देशे।

मार्गच्युतो द्रक्ष्यति येन मार्गं जनिष्यते येन च विश्वमिद्धम्॥

पञ्चमे दृश्ये विपुलविक्रमो नाम लम्पटधनिकः पङ्कजनयनाया विवाहार्थी भूत्वा तस्या गृहमागच्छत्। आराधनया कथितम् - अस्माकम् एषः कुलाचारो वर्तते यत्, कन्या समवयस्काय वराय दीयते । अस्माकं सरला कन्या भवतामननुरूपा । सा हि देशभक्ता, भवांश्च तद्विपरीतः। विपुलविक्रमोऽतिशयं चुक्रोध।

षष्ठे दृश्ये पंकजनयना युद्धक्षेत्रं प्रविशति । पुत्रस्तु प्रागेव रणभूमौ वर्तते स्म । मातापितरौ हृदयं प्रस्तरीकृत्य तामपि क्षतसैनिकानां शुश्रूषायै प्रेषितवन्तौ । तदानीमेव विपुलविक्रमः पुनरायातः । पंकजनयना तमब्रवीत् मया तु युद्धभूमौ क्षतसैनिकानां सेवायै गम्यते ।

सप्तमदृश्ये कुक्कुट-पेचकनामानौ द्वौ वञ्चको गलित-मत्स्त्य-फलानि विक्रीणीतः । तेषां वञ्चनाधौर्त्य सम्मार्जिका विवृणोति। अष्टमे दृश्ये हिमाञ्चलीय-प्रत्यन्तदेशे युद्धभूमौ चम्पकवदनः सन्नद्धो वर्तते । तस्य सविधे कोऽपि कुटिलो गुप्तचरो भ्रान्तमार्गो भूत्वा तस्य सेना-सन्निवेशे शरणमिच्छन् समागतः। अथ कालान्तरे रहस्यवेदी सन् यदा स पलायितुमैच्छत्, तदा पंकजनयनस्तं बन्दिनं कर्तुं प्राययत । गुप्तचरस्तद् दृष्ट्वा “पिष्टलाद्” गुलिकां चालयति स्म । चम्पकसखा जहाँगीरः मित्रस्य रक्षां कृतवान्। गुप्तचरो हतः । एतस्मिन्नेव कालेऽभ्रप्रतिमस्तस्य सन्निधौ वायुयानेन समायातः । सर्वे सानन्दममिलन् ।

नवमे दृश्ये चम्पकवदनस्य जन्मदिवसस्य घटना विद्यते । स स्वं ग्रामकुटीरं स्मरति स्म । अस्मिन् दिने स किमपि विशिष्टं कर्तुमियेष। स मातृभूमेः गौरवपताकाम् उल्लासयितुं समीहते स्म । अनतिदूरे घोरं युद्धं प्रारब्धमासीत् । स समक्षमेव भारतध्वजं स्थापितवान्, वन्दे मातरमिति गीतञ्चागायत् । तदानीमेव चम्पकवदनः शत्रोश्शस्त्रेण विक्षतो जहाँगीरमाह्वयत् । स चिकित्सालयं नीतः। तत्र सोऽब्रवीत् - "अस्तं गच्छति मम जीवनसूर्योऽपि, परन्तु कदापि नास्तं गमिष्यति भारतमातुर्महागौरवच्छविः।" अभ्रप्रतिमः पङ्कजनयनापि तत्रागतौ। पङ्कजनयनयोक्तम् -

न पार्थिवो जात्वसि पङ्कजस्त्वं त्वं पारिजातः सुरलोकजातः।

देशस्य चेतःसरसि प्ररूढपयोजवस्तिष्ठ चिरप्रकाशः॥

चम्पकेनोक्तम् - जनन्यै निवेद्यतां यत्तव देशदीपः सार्थको जातः। डा० रमया नाटकेऽस्मिन् ग्रामपरिसरः कार्यस्थली निर्वाचिता इत्यस्य प्रमुखं वैशिष्ट्यम् रङ्गमञ्चे ‘ओयाक् थुः थुः ‘इत्यादेपेक्षा व्यञ्जनयैतस्य प्रकाशनं सुष्ठु भवेत् । गीतराशेमञ्जुलता समग्रे नाटके विलसति । देशभक्तिसौष्ठवञ्च अस्य प्रेरणास्पदम्।

सम्बद्धाः लेखाः

सम्पादयतु

उद्धरणानि

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=देशदीपम्&oldid=436917" इत्यस्माद् प्रतिप्राप्तम्