लक्षणम् सम्पादयतु

दोधकमिच्छति भत्रितयाद् गौ।

एकादशाक्षरयुते अस्मिन् छन्दसि क्रमेण भगणत्रयं गुरुद्वयं च भवति।

उदाहरणम् सम्पादयतु

देव सदोध कदम्बतलस्थ श्रीधर तावकनाम पदं मे ।
कण्ठतलेऽसुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम्।।

अर्थः सम्पादयतु

हे देव हे सवत्स हे कदम्बतले स्थित श्रीधर भवतां नाम प्राणान्ते काले स्वल्पम् अपि क्षणं योगम् एष्यति। अर्थात् मरणकाले मम कण्ठात् भवताण् नाम आगमिष्यति।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=दोधकच्छन्दः&oldid=408949" इत्यस्माद् प्रतिप्राप्तम्