द्यावापृथिव्योरिदम्...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
- दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
सम्पादयतुद्यावापृथिव्योः इदम् अन्तरं हि व्याप्तं त्वया एकेन दिशः च सर्वाः दृष्ट्वा अद्भुतं रूपम् उग्रं तव इदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
अन्वयः
सम्पादयतुमहात्मन् ! द्यावापृथिव्योः इदम् अन्तरं हि त्वया एकेन व्याप्तं सर्वाः दिशः च । तव उग्रम् उतम् इदं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् ।
शब्दार्थः
सम्पादयतु- महात्मन् = महानुभाव !
- द्यावापृथिव्योः = भूम्यन्तरिक्षयोः
- इदम् = असौ
- अन्तरम् = अवकाशः
- त्वया = भवता
- एकेन = केवलेन
- व्याप्तं = परिव्याप्तः
- सर्वाः = सकलाः
- दिशः च = आशाः अपि (व्याप्ताः)
- तव = ते
- उग्रम् = क्रूरम्
- उतम् = विस्मयकरम्
- इदम् = एतत्
- रूपम् = स्वरूपम्
- दृष्ट्वा = ईक्षित्वा
- लोकत्रयम् = भुवनत्रयम्
- प्रव्यथितम् = खिन्नम् ।
अर्थः
सम्पादयतुमहात्मन् ! भूम्यन्तरिक्षयोः मध्ये वर्तमानः सर्वोऽपि अवकाशः भवता एकेन परिव्याप्तः अस्ति । सर्वाः दिशः अपि त्वयैव व्याप्ताः । तव क्रूरं विस्मयजनकं च इदं स्वरूपं दृष्ट्वा भुवनत्रयमपि किं भविष्यतीति चिन्ताकुलम् अस्ति ।