द्यूतं छलयतामस्मि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
- जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।
पदच्छेदः
सम्पादयतुद्यूतं छलयताम् अस्मि तेजः तेजस्विनाम् अहम् जयः अस्मि व्यवसायः अस्मि सत्त्वं सत्त्ववताम् अहम् ॥ ३६ ॥
अन्वयः
सम्पादयतुछलयतां द्यूतम् अस्मि । तेजस्विनां तेजः अहम् । जयः अस्मि । व्यवसायः अस्मि । सत्त्ववतां सत्त्वम् अहम् ।
शब्दार्थः
सम्पादयतु- छलयताम् = छलकारिणाम्
- द्यूतम् अस्मि = अक्षक्रीडा अस्मि
- तेजस्विनाम् = तेजोवतां तेजः
- अहम् = कान्तिः अहम्
- जयः अस्मि = विजयः अस्मि
- व्यवसायः अस्मि = प्रयत्नः अस्मि
- सत्त्ववताम् = सात्त्विकानाम्
- सत्त्वम् अहम् = सत्त्वगुणः अहम् ।
अर्थः
सम्पादयतुछलकर्तॄणां द्यूतम् अस्मि । तेजोवतां तेजः अहमस्मि । विजेतॄणां विजयः अस्मि । व्यवसायिनां व्यवसायः अस्मि । सात्त्विकानां सत्त्वगुणः अस्मि ।