द्रुतविलम्बितच्छन्दः


लक्षणम् सम्पादयतु

द्रुतविलम्बितमाह नभौ भरौ

यत्र प्रत्येकस्मिन् अपि पादे यदि क्रमेण एकः नगणः¸भगणद्वयं, एकः रगणश्च भवति तर्हि द्रुतविलम्बितं वृत्तं भवति ।

उदाहरणम् सम्पादयतु

विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम्।।

अर्थः सम्पादयतु

विपत्तिकाले धैर्यम्,अभ्युदये सति क्षमा, सभासु वाक्कौशलम्, युद्धकाले पराक्रमः,

यशसि अभिरुचिः श्रुतौ व्यसनम् इत्येते सर्वेऽपि गुणाः महात्मनां प्रकृत्या एव सिद्धाः भवन्ति।

सम्बद्धाः लेखाः सम्पादयतु