द्वाविमौ पुरुषौ लोके...
भगवद्गीतायाः श्लोकः १५.१६
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
- क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः
सम्पादयतुद्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥
अन्वयः
सम्पादयतुलोके क्षरः च अक्षरः एव च (इति) इमौ पुरुषौ द्वौ । सर्वाणि भूतानि क्षरः कूटस्थः अक्षरः उच्यते ।
शब्दार्थः
सम्पादयतु- क्षरः = विनाशी
- अक्षरः = अविनाशी
- भूतानि = विकारजातानि
- कूटस्थः = शिलाराशिः इव स्थितः ।
अर्थः
सम्पादयतुअत्र लोके क्षरः अक्षरः चेति द्वौ पुरुषौ स्तः । तत्र क्षरः पुरुषो नाम महदादिः भूतान्तः सर्वोऽपि कार्यरूपः राशिः । स च विनाशी । अक्षरः मायाशब्देन या व्यवह्रियते सा प्रकृतिः । अयं निर्विकारत्वेन स्थितः कारणभागः ।