धन्वन्तरिः ओषधीनां देवता। महाविष्णोः अवतारत्वेन अपि धन्वन्तरेः उल्लेखः वर्तते। एषः आयुर्वेदाधिदेवतासमुद्रमथनकाले क्षीरसागरादुद्भूतः इति प्रथा वर्तते।

पुराणादिषु

सम्पादयतु

रामायणस्य बालकाण्डे भागवतपुराणे च धन्वन्तरिः क्षीरसमुद्रादुत्पन्नः इति उल्लेखः दृश्यते। देवैः दानवैः च समुद्रस्य मथनं कृतम्। तदानीं चतुर्दश वस्तूनि उत्पन्नानि तेषुः अयं धन्वन्तरिः अन्यतमः। तेषां चतुर्दशानां वस्तूनां पट्टिका अस्मिन् श्लोके दृश्यते।

लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरिश्चन्द्रमाः।
गावः कामदुहा सुरेश्वरगजो रम्भादिदेवांगनाः।
अश्वः सप्तमुखो विषं हरिधनुः शंखोमृतं चाम्बुधेः
रत्नानीह चतुर्दश प्रतिदिनं कुर्यात्सदा मंगलम्॥

एवमुत्पन्नः धन्वन्तरिः एव आयुर्वेदं लोके प्रकटितवान्। उत्पत्तेः अनुक्षणं सः स्वकीयं कार्यं किम् इति विष्णुम् अपृच्छत्। तदानीं विष्णुः देवाः तु हविर्भागभाजः विद्यन्ते। तेषां स्थानं भवान् प्राप्तुं न शक्नोति। परन्तु भवान् लोके प्रसिद्धः भविष्यति। अतः आयुर्वेदस्य अष्ट भागान् करोतु इति आदिष्टवान्।

द्वापरयुगे

सम्पादयतु

द्वापरयुगे अपि काशराजस्य वंशे धन्वन्तरेः आविर्भावः आसीत्। काशराजः काशीनगरस्य निर्माता आसीत्। तस्य वंशावल्याः उल्लेखः हरिवंशपुराणे एवं वर्तते। काश-दीर्घतपा-धन्व-धन्वंतरि-केतुमान्-भीमरथ (भीमसेन)-दिवोदास-प्रतर्दन-वत्स-अलर्कः। विष्णुपुराणे एषा वंशपरम्परा उल्लिखिता। काश-काशेय-राष्ट्र-दीर्घतपा-धन्वंतरि-केतुमान्-भीरथ-दिवोदास।

मूर्तिस्थापनम्

सम्पादयतु

विष्णुधर्मोत्तरपुराणे धन्वन्तरेः सुन्दरं रूपं चित्रितं वर्तते। तदाधारीकृत्य धन्वन्तरेः प्रतिमादीनां निर्माणम् आ बहोः कालाद् प्रवर्तते। धन्वन्तरेः चत्वारः हस्ताः, तेषु एकस्मिन् हस्ते अमृतं विद्यते। अपरेषु हस्तेषु शङ्ख-चक्र-जलूकाः विद्यन्ते। जलूकहस्तः एव सर्वदापि धन्वन्तरेः चित्रेषु दृश्यते। तद्विषये एवं वर्णितमस्ति।

ॐ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः।
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम॥
कालाम्भोदोज्ज्वलांगं कटितटविलसच्चारूपीतांबराढ्यम।
वन्दे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम्॥

जन्मदिनम्

सम्पादयतु

दीपावल्याः दिनद्वयात् प्राक्, तन्नाम आश्वयुजकृष्णत्रयोदश्यां धन्वन्तरेः जन्मदिनम् आचर्यते। भारते २०१६ संवत्सरतः प्रतिवर्षं राष्ट्रिय-आयुर्वेद-दिनम् आचर्यते।

देवालयाः

सम्पादयतु

भारते बहुत्र धन्वन्तरेः देवालयाः सन्ति। तत्रापि दक्षिणभारते विशिष्य तमिलुनाडुकेरलराज्ययोः आयुर्वेदपरम्परा महती विद्यते। अतः एतयोः राज्ययोः अधिकानि धन्वन्तरिमन्दिराणि दृश्यन्ते। तत्र तोट्टुवाधन्वन्तरिमन्दिरं विशालतं वर्तते। पूर्वमुखः धन्वन्तरिविग्रहः षट् फीट् परिमितः उन्नतः वर्तते। दक्षिणहस्ते अमृतभाण्डः च गृहीतः वर्तते। गुरुवायूर् एकादशीदिने अत्र महान् उत्सवः प्रचलति। तमिलुनाडुराज्ये श्रीरङ्गे रङ्गस्वामिदेवालये धन्वन्तरिदेवता अपि विद्यते। गरुडवाहनभट्टर् नामकः कश्चन महान् आयुर्वेदवैद्यः देवालयस्य अन्तः धन्वन्तरेः मूर्तिं स्थापितवान् इति उल्लेखोऽपि वर्तते। काञ्चीपुरे अपि कश्चन धन्वन्तरीदेवालयः दृश्यते।

आयुर्वेदे

सम्पादयतु

आयुर्वेदसम्बद्धान् लक्षं श्लोकान् ब्रह्मा रचयामास। आयुर्वेदशास्त्रस्य एकसहस्राध्यायात्मकस्य सर्जनमपि ब्रह्मणा एव कृतम्। प्रजापतेः अश्विनीकुमारौ आयुर्वेदं ज्ञातवन्तौ। अश्वनीदेवताभ्याम् इन्द्रः पपाठ। इन्द्रात् धन्वन्तरिः आयुर्वेदविद्यां जग्राह। धन्वन्तरेः सुश्रुतः आयुर्वेदविद्यां प्राप्य लोके प्रसारयामास। परन्तु भावप्रकाशे आत्रेयप्रमुखाः मुनयः इन्द्रात् आयुर्वेदं पठित्वा अग्निवेशं बोधयामासुः। अत्र धन्वन्तरेः उल्लेखोऽपि न विद्यते।

उल्लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=धन्वन्तरिः&oldid=448672" इत्यस्माद् प्रतिप्राप्तम्