धमार्
धमार् (Dhamar) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः धमार् भवति। किन्तु ताळे, तथा लये ध्रुपद् प्रकारस्य साम्यत्वं विद्यते । तथैव आलापे नों तों मिलितः भवति । दुगुन्, चौगुन्, बोल् तान्, गमकादयः प्रमुखाः भवन्ति । अस्मिन् प्रकारे गमकप्रयोगाय विशेषस्थानम् अस्ति । तत्त तत्त रागाणां गीतानां शब्दान् स्व स्व रागस्य स्वरैः धमार् ताळे संयोज्य गायन्ति । पूर्वं पखवाज् सहवाद्यम् आसीत् । इदानीं “तबालावाद्यं” प्रमुखं सहवाद्यम् अस्ति । अयं प्रकारः १८ तम शतकपर्यन्तं जनप्रियम् आसीत् । लयस्य गणनायाः रीतिः कष्टम् इत्यतः क्रमेण क्षीयमाणम् अस्ति इति केचनपण्डितानाम् अभिप्रयः ।