ध्रुपद्
ध्रुपद् (Dhrupad) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः ध्रुपद् भवति । १५ शतकात् अस्य प्रकारस्य आविर्भावः जातः । ग्वालियरप्रान्तस्य भूपालकेन 'मानसिंहेन' अस्य प्रकारस्य आविष्कारः कृतः इति । अस्य प्रकारस्य गायकः अपि आसीत् । तेनैव प्रचारोपि प्राप्तः । अस्य अस्थानस्य गायकौ चरजनायकः तथा भगवान् थोण्डश्च मिलित्वा अस्य प्रकारस्य परिष्कारादिकं कृतवन्तौ इति श्रूयते ।
श्लोकाः
सम्पादयतु"भावभट्टकृत अनूपसङ्गीतरत्नाकरे" ध्रुपद् प्रकारस्य निरूपणश्लोकाः एवं सन्ति।
गीर्वाणवाद्यदेशीयभाषासाहित्यराजतम्।
द्विचतुर्वाक्यसम्पन्नं नरनारीकथाश्रयम्॥
शृङ्गाररसभावाद्यं रागालापपदात्मकम्।
पादान्तानुप्रासयुक्तं पादानां युगलञ्च वा॥
प्रतिपादं यत्र बद्धमेवं पादचतुष्टयम्।
उद्ग्राहध्रुवकाभोगान्तरं ध्रुवपदं स्मृतम्॥
गायकाः
सम्पादयतुअस्य प्रकारस्य पुरातनगायकाः, अकबरस्य संस्थाने विद्यमानः स्वामि हरिदासः तथा अस्य शिष्यौ तानसेनः, मञ्जुनाथश्च प्रसिद्धाः भवन्ति ।
स्वरूपम्
सम्पादयतुध्रुपद् प्रकारस्य गानानि साधरणतया प्रौढभाषासहितानि भवन्ति । तत्त तत्त रागाणां स्वर, ताळ, लयादयः सीमिताः निश्चिताः भवन्ति । अस्मिन् प्रकारे अलङ्कारवैखरिविन्यासादीनां तथा विशेषतान्-वितानादीनाम् अवकाशः नभवति । बोल् तान्, दुप्पट्टु, तिप्पट्टु, चौपट्टु, गमकादीनां सङ्गतयः अस्मिन् प्रकारे अन्तर्भूताः भवन्ति । अस्मिन् प्रकारे गानं कर्तुं पुरुषयुक्तः कण्ठः अपेक्षितः भवति । अस्मिन् प्रकारे स्थायी, अन्तरा, सञ्चारी तथा आभोगादयः सोपानानि सन्ति । वीररसस्य, शृङ्गाररसस्य, शान्तरसस्य तथा भक्तिरसस्यच प्रतिपादकः भवति । ध्रुपद गीतस्य प्रमुखशब्दान् विभिन् लयादिषु पदच्छेदादिकं कृत्वा रागस्य रसभावं प्रकटीकुर्वन्ति ।