धूमो रात्रिस्तथा कृष्णः...


श्लोकः सम्पादयतु

 
गीतोपदेशः
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः सम्पादयतु

धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिणायनम् तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते ॥ २५ ॥

अन्वयः सम्पादयतु

धूमः रात्रिः कृष्णः तथा षण्मासाः दक्षिणायनं तत्र योगी चान्द्रमसं ज्योतिः प्राप्य निवर्तते ।

शब्दार्थः सम्पादयतु

धूमः = धूमः (देवता)
रात्रिः = निशा (देवता)
कृष्णः = कृष्णपक्षः (देवता)
तथा = एवम्
षण्मासाः दक्षिणायनम् = षण्मासावधिकं दक्षिणायनम्
तत्र = तस्मिन् समये
योगी = कर्मयोगी च
चान्द्रमसम् = चन्द्रसम्बन्धि
ज्योतिः = अर्चिः (कान्तिम्)
प्राप्य = लब्ध्वा
निवर्तते = पुनः आगच्छति ।

अर्थः सम्पादयतु

यत्र धूमः (देवता) रात्रिः (देवता) एवं कृष्णपक्षः (देवता) षण्मासाः दक्षिणायनम् (देवता) तत्र काले गतः योगी चन्द्रलोकं प्राप्य निवर्तते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु