श्लोकः सम्पादयतु

 
गीतोपदेशः
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः सम्पादयतु

नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

अन्वयः सम्पादयतु

विष्णो ! नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा हि प्रव्यथितारन्तात्मा धृतिं शमं च न विन्दामि ।

शब्दार्थः सम्पादयतु

विष्णो = सर्वव्यापक !
नभःस्पृशम् = गगनचुम्बिनम्
दीप्तम् = प्रज्वलितम्
अनेकवर्णम् = नानावर्णम्
व्यात्ताननम् = विवृतमुखम्
दीप्तविशालनेत्रम् = ज्वलितविस्तृतलोचनम्
त्वां दृष्ट्वा हि= त्वां विलोक्य
प्रव्यथितान्तरात्मा = खिन्नचित्तः
धृतिम् = धैर्यम्
शमं च = शान्तिं च
न विन्दामि = न लभे ।

अर्थः सम्पादयतु

हे विष्णो ! त्वं गगनचुम्बी, नानावर्णोपेतः, उद्घाटितवदनः, ज्वलितविस्तृतलोचनश्च भासि । मम चित्तं प्रकम्पते । तेन अहं धैर्यं शान्तिं च न प्राप्नोमि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नभःस्पृशं_दीप्तमनेक...&oldid=418633" इत्यस्माद् प्रतिप्राप्तम्