नमः पुरस्तादथ...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- नमः पुरस्तादथ पृतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
- अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चत्वारिंशत्त्तमः(४०) श्लोकः ।
पदच्छेदः
सम्पादयतुनमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व अनन्तवीर्य अमितविक्रमः त्वं सर्वं समाप्नोषि ततः असि सर्वः ॥ ४० ॥
अन्वयः
सम्पादयतुपुरस्तात् अथ पृष्ठतः ते नमः । सर्व ते सर्वतः एव नमः अस्तु । अनन्तवीर्य ! त्वम् अमितविक्रमः सर्वं समाप्नोषि । ततः सर्वः असि ।
शब्दार्थः
सम्पादयतु- पुरस्तात् = पुरतः
- अथ पृष्ठतः = पश्चात् च
- ते नमः = तुभ्यं नमः
- सर्व = सर्वात्मन्
- सर्वतः एव = परितः एव
- नमः अस्तु = नमोऽस्तु
- अनन्तवीर्य = अपरिमितविक्रम !
- त्वम् अमितविक्रमः = त्वम् अगणितपराक्रमः
- सर्वम् = समस्तम्
- समाप्नोषि = व्याप्नोषि
- ततः = तस्मात्
- सर्वः असि = सकलः असि ।
अर्थः
सम्पादयतुपुरतः पश्चात् च तुभ्यं नमोऽस्तु । सर्वात्मक ! तुभ्यं परितः नमः अस्तु । अपरिमितविक्रम ! त्वम् अगणितपराक्रमः समस्तं व्याप्नोषि । तस्मात् सकलः असि ।