नलदमयन्तीयस्य रचना कालीपदेन १६२७ ख्रीष्टाब्दे कृता । नाटकमिदं कालानुरूपं वर्तते । कविः कथयति -

नलदमयन्तीयम्  
सञ्चिका:Damayanti prays to gods to recognize Nala.jpg
नलस्य स्मृतिप्राप्त्यै प्रार्थयन्ती दमयन्ती
लेखकः कालीपदः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कालानुरूपरचनाप्रचितं यदि स्यात्।

काव्यं तदा कवयितुः कविता चकास्ति।

वीरस्य भूषणमरातिवधे कृपाणं

शृङ्गाररङ्गसमये तदयोग्यमेव।।

विषयवस्तु सम्पादयतु

राजा नलो दमयन्त्याश्चित्रं विलोक्य तस्या दर्शनार्थं व्याकुलो जातः । स मनस्तापं दूरीकर्तुमुद्यानं प्रविवेश । तत्रासौ राजहंसं ददर्श । हंसो राज्ञो दमयन्तीं प्रति दौत्यकार्यं सम्यक्तया सम्पादयामास | विदर्भदेशे दमयन्तीस्वयंवरस्य कार्यं प्रारब्धम् । बहुषु विघ्नेषु सत्स्वपि नलदम्पत्योः विवाहः सम्पन्नोऽभवत्।

नलः द्यूते पराजितो वने प्रसुप्तां तां विहाय अन्यत्र गच्छति । तार-स्वरेण क्रन्दन्तीं दमयन्तीं विलोक्य किरातराजस्तस्याः रक्षार्थं सर्वमपि प्रबन्धं चकार । तयोश्च पुनरपि समयान्तरे संगमो जातः।

विशेषम् सम्पादयतु

बहुषु स्थलेषु दीर्घतराः संवादाः नाट्योचिताः न प्रतीयन्तेऽत्र । नाटके क्वचिदपि प्राकृतभाषायाः प्रयोगो विरल एव दृश्यते । छायातत्त्वं प्रायः सर्वेष्वपि नाटकेषूपलभ्यते । पात्रानुसन्धानदृष्ट्या मानवरूपधारिभावानां समवतरणमतीव मनोरञ्जकम् । विवेकमोहादयो भावा अपि पात्रतां गताः । चतुर्थाङ्के मायाव्यापारद्वारारभटीवृत्तेः प्रवर्तनं रमणीयमस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

उद्धरणानि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नलदमयन्तीयम्&oldid=434791" इत्यस्माद् प्रतिप्राप्तम्