नष्टो मोहः स्मृतिर्लब्धा...


श्लोकः सम्पादयतु

 
गीतोपदेशः

अर्जुन उवाच -

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(७३) श्लोकः ।

पदच्छेदः सम्पादयतु

नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव ॥

अन्वयः सम्पादयतु

अच्युत ! तव प्रसादात् मोहः नष्टः । स्मृतिः मया लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।

शब्दार्थः सम्पादयतु

अच्युत = श्रीकृष्ण !
त्वत्प्रसादात् = भवदनुग्रहात्
मोहः = अविवेकः
स्मृतिः = स्मरणम्
लब्धा = प्राप्तम्
गतसन्देहः = विगतसंशयः
स्थितः = भूतः
वचनम् = वाक्यम्
करिष्ये = आचरिष्यामि ।

अर्थः सम्पादयतु

श्रीकृष्ण ! भवदनुग्रहात् अविवेकः अपगतः । कर्तव्यस्मरणं मम जातम् । विगतसन्देहः स्थितः अस्मि । तव वचनम् आचरयिष्यामि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु