"नागेशं दारुकावने” इति शिवपुराणस्य द्वादशज्योतिर्लिङ्गस्तोत्रे यत् क्षेत्रं निर्दिष्टं तत् इदानीं “द्वारका” इति प्रसिद्धम् अस्ति । द्वादश ज्योतिर्लिङ्गेषु अन्यतमः अयं नागेश्वरः सौराष्ट्रे (इदानीन्तनगुजरातराज्यम्) अस्ति । द्वारकातः बेटद्वारकां प्रति गमनमार्गे अस्ति एतत् क्षेत्रम् । द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् एतत् दशमं ज्योतिर्लिङ्गम् अस्ति ।

नागेश्वरः is located in India
सोमनाथः
मल्लिकार्जुनस्वामी
महाकाळेश्वरः
ॐकारेश्वरः
वैद्यनाथः
भीमशङ्करः
रामेश्वरम्
विश्वनाथः
त्र्यम्बकेश्वरः
केदारनाथः
ग्रिनेश्वरः
भारते द्वादशज्योतिर्लिङ्गानां स्थाननिर्देशः
गुजरातराज्ये दारुकावने विद्यमानं नागेश्वरमन्दिरम्

एतत्क्षेत्रसम्बद्धा काचित् कथा एवम् अस्ति – पूर्वं सुप्रियनामकः कश्चन वणिक् आसीत् । धर्मत्मा सदाचारी च सः महान् शिवभक्तः आसीत् । कदाचित् सः वाणिज्यार्थं नौकया कुत्रचित् गच्छन् आसीत् । तदा दारुकनामकः राक्षसः आक्रमणम् अकरोत् । नौकायां विद्यमानान् सर्वान् अपि बद्ध्वा कारागृहे अस्थापयत् । कारागृहे अपि सुप्रियः शिवपूजाम् अनुवर्तितवान् । कारागृहे विद्यमानेषु सर्वेषु अपि शिवभक्तिं जागरयत् सः । तां वार्तां श्रुतवान् शिवद्वेषी दारुकः कारागृहम् आगच्छत् । तदा सुप्रियः ध्यानमग्नः आसीत् । दारुकः सुप्रियं मारयन्तु इति अनुचरान् आज्ञापयत् । तदा भगवान् शिवः सिंहासनस्थज्योतिर्लिङ्गरूपेण प्रकटितः सन् सुप्रियाय पाशुपतास्त्रं दत्त्वा अन्तर्हितः सञ्जातः । तेनैव पाशुपतास्त्रेण दैत्यसंहारम् अकरोत् सुप्रियः । शिवस्य आदेशानुगुणं तत् ज्योतिर्लिङ्गं "नागेश”नाम्ना निर्दिष्टम् । नागेश्वरनामकम् अन्यदेकं मन्दिरम् औधग्रामसमीपे अस्ति ।

चित्रालयः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=नागेश्वरः&oldid=480498" इत्यस्माद् प्रतिप्राप्तम्