नान्तोऽस्ति मम दिव्यानां...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
- एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।
पदच्छेदः
सम्पादयतुन अन्तः अस्ति मम दिव्यानां विभूतीनां परन्तप एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥
अन्वयः
सम्पादयतुपरन्तप ! मम दिव्यानां विभूतीनाम् अन्तः न अस्ति । मया एषः विभूतेः विस्तरः तु उद्देशतः प्रोक्तः ।
शब्दार्थः
सम्पादयतु- परन्त = शत्रुतापन !
- मम दिव्यानाम् = मे दिव्यानाम्
- विभूतीनाम् = ऐश्वर्याणाम्
- अन्तः न अस्ति =अवधिः नास्ति
- एषः तु = अयं च
- विभूतेः = ऐश्वर्यस्य
- विस्तरः = प्रपञ्चः
- उद्देशतः = एकदेशतः
- प्रोक्तः = कथितः ।
अर्थः
सम्पादयतुअर्जुन ! मम दिव्याः विभूतयः अनन्ताः सन्ति । ताः सर्वाः अत्र नैव उक्ताः । अधुना यदुक्तं तत्तु केवलं मम विभूतीनाम् एकदेशमात्रम् अस्ति ।