नालन्दाविश्वविद्यालयः

Nalanda University

नालन्दा अद्यतनबिहारे स्थित: पुरातनविश्वविद्यालय: अस्ति। एतत् स्थानम् ४२७ तमवर्षादारभ्य ११९७तमवर्षं यावत् प्रमुखबौद्धपीठम् आसीत्। चीनपारसिकयवनदेशेभ्यः छात्राः पठितुम् आगच्छन्ति स्म। ११९७ तमे वर्षे भक्तियार् खिल्जी एतत् अनाशयत्।

Nalanda
नालंदा
Ruins of Nalanda
नालन्दाविश्वविद्यालयः is located in India
नालन्दाविश्वविद्यालयः
Shown within India
अवस्थानम् Bihar, India
भू-निर्देशाङ्काः २५°०८′१२″ उत्तरदिक् ८५°२६′३८″ पूर्वदिक् / 25.13667°उत्तरदिक् 85.44389°पूर्वदिक् / २५.१३६६७; ८५.४४३८९
प्रकारः Centre of learning
इतिहासः
निर्मितः 5th century CE
परित्यक्तः 13th century CE
विशेषघटनाः Ransacked by Bakhtiyar Khilji in फलकम्:Circa
स्थलवैशिष्ट्यम्
खननदिनाङ्काः 1915–1937, 1974–1982[१]
जालस्थानम् Nalanda (ASI)
ASI No. N-BR-43[२]

संस्थापनम् सम्पादयतु

नालन्दाविश्वविद्यालयः ४२७ तमे वर्षे कुमारगुप्तेन स्थापित:। गुप्तसाम्राज्यस्य राजा कुमारगुप्तेन स्थापितः नलन्दाविश्वविद्यालयः वर्धनसाम्राज्यस्य राजा श्रीहर्षस्य काले अत्यन्तः प्रसिध्दः अभवत् ।

शिक्षणम् सम्पादयतु

अत्र छात्राः विज्ञानं, ज्योतिषं, चिकित्सां, तर्कविद्यां, योगशास्त्राणि, वेदान्, बौद्धग्रन्थान् च पठन्ति स्म। ते वैदेशिकतर्कम् अपि पठन्ति स्म।

विश्वविद्यालये दशसहस्त्रं (१०, ०००) छात्राः अध्ययनं कुर्वन्ति स्म । तेभ्यः सर्वेभ्योऽपि अन्नम्, वासव्यवस्था, वस्त्रम्, औषधम् इत्यादिकं निश्शुल्कमासीत् । दूरस्थेभ्यः देशेभ्योऽपि अध्ययनार्थं छात्राः अत्र आयान्ति स्म । काञ्ची, बङ्गालः, वल्लभिः इत्यादिभ्यः प्रदेशेभ्योऽपि विद्वांसः प्राध्यापकरुपेण आगच्छन्ति स्म । विद्यालयऽस्मिन् छात्राणां प्रवेशपरीक्षा एव विशिष्टा आसीत् । अध्ययनार्थम् आगच्छन् प्रत्येकं विद्यार्थि अपि तत्रत्यैः पण्डितद्वारपालकैः या मौखिकपरीक्षा क्रियते, तस्यां परीक्षायां उत्तीर्णः भवेत् । यदि अनुत्तीर्णः तर्हि प्रवेशः न प्राप्यते स्म । एतेन तदानीन्तनशिक्षणस्य स्वरुपं ज्ञायते ।

अत्र अध्ययनविषयाश्च बौध्दमततत्त्वं, वैदिकमततत्त्वं, तर्कः, भाषाशास्त्रम्, अलङ्कारशास्त्रम्, आयुर्वेदः, खगोलशास्त्रं, लोहशास्त्रं, शिल्पशास्त्रम् इत्यादयः आसन् । अत्र शिक्षणमाध्यमत्वेन संस्कृतमासीत् ।

अन्तम् सम्पादयतु

११९३ तमे वर्षे भक्तियार् खिल्जीनामक: कश्चित् ऐस्लामिकतुरुष्कः इमम् विश्वविद्यालयम् अनाशयत्। अनेके श्रमणाः हताः, ग्रन्थाः च दग्धाः अभवन्।

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. "Nalanda". Archaeological Survey of India. आह्रियत 18 September 2014. 
  2. "Alphabetical List of Monuments - Bihar". Archaeological Survey of India. आह्रियत 17 September 2014.