लक्षणश्लोकः सम्पादयतु

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
यद्दारुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥

विवरणम् सम्पादयतु

अत्र दातृपुरुषसौम्यत्वस्य उपमेयत्वस्य उपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्य उपमानवाक्यार्थस्य यत्तद्भ्यामैक्यारोपः ।

उदाहरणान्तरम् सम्पादयतु

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुचितमूषरे वर्षितम् ।
श्वपुच्छमवनामितं वधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधोजनसेवितः ॥

अत्र बुधजनसेवायाः अरण्यरोदनादीनां च यत्तद्भ्यामैक्यारोपः ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=निदर्शनालङ्कारः&oldid=419234" इत्यस्माद् प्रतिप्राप्तम्