जम्बीरम्

(निम्बूकम् इत्यस्मात् पुनर्निर्दिष्टम्)

निम्बूकं निम्बुकं राजनिम्बूकमपरं स्मृतम् । निम्बूकमम्लं वातघ्नं पाचनं दीपनं लघु । राजनिम्बूफलं स्वादु गुरु पित्तसमीरजित् ॥१॥

निम्बूकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Rutaceae
वंशः Citrus
जातिः C. × limon
द्विपदनाम
Citrus × limon, often given as C. limon
(L.) Burm.f.


एतत् निम्बूकम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् निम्बूकम् अपि सस्यजन्यः आहारपदार्थः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य निम्बूकस्य उपयोगः क्रियते एव । एतत् निम्बूकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य निम्बूकसस्यस्य फलं, त्वक्, पत्रं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । अनेन निम्बूकेन अवलेहः, पेयम्, उपसेचनम् इत्यादिकं सज्जीक्रियते । चित्रान्नसदृशाणाम् उपहाराणां निर्माणे अपि निम्बूकम् उपयुज्यते । एतत् निम्बूकं सौन्दर्यवर्धकरूपेण अपि उपयुज्यते ।


आयुर्वेदस्य अनुसारम् अस्य निम्बूकस्य स्वभावः सम्पादयतु

एतत् निम्बूकम् आम्लरसयुक्तम् । एतत् निम्बूकं पचनार्थं गुरु । एतत् निम्बूकं तीक्ष्णम्, उष्णवीर्ययुक्तं चापि । एतत् निम्बूकं जीर्णानन्तरम् अपि आम्लविपाकः एव भवति ।

१. एतत् निम्बूकं कफं वातं च हरति ।
२. एतत् निम्बूकं श्वासरोगे, कासे च उपयुज्यते ।
३. एतत् निम्बूकं मलस्य अवरोधम्, आमदोषं च निवारयति ।
४. एतत् निम्बूकं वात-कफजन्येषु विकारेषु, उत्क्लेषे च उपयुज्यते ।
५. अस्य निम्बूकस्य पत्रस्य रसं ५ – १० मि.ग्रां यावत् उपयोक्तुं शक्यते ।
६. अस्य निम्बूकस्य त्वचा निर्मितं कषायं अनारोग्यावसरे ४० – ५० मि.ली. यावत् दातुं शक्यते ।
७. निम्बूकस्य रसम् उष्णजले योजयित्वा दिने ४ – ६ वारम् इव पातव्यम् । तथा पानावसरे किञ्चिक् कालं यावत् तत् जलं मुखे रक्षित्वा अनन्तरं गिलनं करणीयम् । तथा करणेन मुखे जाताः पिटकाः, दन्तपाल्याः बाधाः च निवारिताः भवन्ति ।
८. पूर्णं दिनम् उपवासं कुर्वन्तः मध्ये मध्ये उष्णजले निम्बूकस्य रसं योजयित्वा पिबन्ति चेत् पीनसः अपगच्छति ।
९. प्रतिदिनं प्रातः एकस्य निम्बूकस्य रसं निष्पीड्य तत्र १२५ ग्रां यावत् हिङ्गु मिश्रीकृत्य पातव्यम् । एवं ६ दिनानि कृत्वा सप्तमे दिने अतिसारस्य (विरेचनस्य) औषधं सेवनीयम् । तथा कृतं चेत् उदरे विद्यमानाः क्रिमयः अपगच्छन्ति ।
१०. एतत् निम्बूकं मलस्य अवरोधं, वमनं, कृमिरोगं च शमयति ।
११. एतत् निम्बूकं उदरवेदनां, यकृत्-विकारं, हृदयवेदनां च निवारयति ।
१२. एतत् निम्बूकं पित्तं वर्धयति । अतः पित्तप्रकृतियुक्तानां, पित्तजन्यैः रोगैः पीडितानां, पित्तदेशे काले एतत् वर्ज्यम् ।

निम्बूकरसः सम्पादयतु

मुख्यलेखः : निम्बूकरसः

निम्बूकस्य रसः एव निम्बूकफलरसः स च आङ्ग्लभाषया Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । भारते तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।

उत्पादनम् सम्पादयतु

देशः उत्पादनम् (टन्)
  भारतम् २,०६०,०००F
मेक्सिको १,८८०,०००F
अर्जन्टीना १,२६०,०००F
ब्रासील १,०६०,०००F
स्पेन् ८८०,०००F
चीन ७४५,१००F
अमेरिकासंयुक्तराज्यम् ७२२,०००
तुर्की ७०६,६५२
ईरान् ६१५,०००F
इटली ५४६,५८४
समग्रविश्वे १३,०३२,३८८F
F = FAO अनुमानितः

स्त्रोत: संयुक्तराष्ट्रपुञ्जस्य खाद्य-कृषिसंगठनम् : आर्थिक एवं सामाजिकविभागः सांख्यकीयविभागः

टिप्पणी सम्पादयतु


बाह्यसम्पर्कम् सम्पादयतु


चित्रवीथिका सम्पादयतु

---->


बाह्यस्म्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जम्बीरम्&oldid=472682" इत्यस्माद् प्रतिप्राप्तम्